________________
५८०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहस्खविधानबलादेव गुणो नास्ति । बिणम्परे तु वा दीर्घ अहीडि अहिडि । हीडम् २ । हिडम् २ । ये तु विणम्परे ह्रस्वमेव विकल्पयन्ति तन्मते अहिडि अहेडि । हिडम् २ हेडम् २ । 'लड जिह्वोन्मन्थने' जिह्वाया उन्मन्थनं जिह्वोन्मन्थनम् । णौ हखे लडयति जिह्वां कुकुरः । लत्वे जिह्वाशतान्युल्ललयत्यभीक्ष्णम् । अन्यत्र लाडयति चित्रम् । लालयति बालम् । लालितः लालितकः सेवकः । लालना ५लाला । जिह्वोन्मन्थयोरित्येके । तन्मतसंग्रहार्थं जिह्वा च जिह्वाविषया क्रियोन्मन्थनं चेति समाहारः । लडयति जिह्वाम् । ललयति दधि । 'लडण उपसेवायाम्' लाडयति । लड विलास इत्यस्यैवार्थविशेषे घटादिकार्यार्थमिह पाठः । अथ णान्ताः षट् सेटश्च ॥ ६ ॥ 'फण, कण, रण, ग तौ' फणति । णौ (ह्रस्वे) फणयति 'जभ्रम०' (४।१।२६) इति वैत्वे फेणतुः पफण तुः । थवि 'स्क्रसृवृ,' ( ४।४।८१ )
इतीटि फेणिथ पफणिथ । 'क्षुब्धविरिब्धः' (४।४।७०) इति क्तेति निपातनादनायासे फाण्टाभिरद्भिरा१० चामेदिति कदुष्णाभिरित्यनायासो गम्यते आयासे तु फणितम् । कण कणति णौ ह्रस्वे कणयति णावचि कणयतीति कणः । 'कणे मनस्तृप्तौ' (३।१।६) इति सूत्रनिर्देशादेत्वे कणेहत्य पयः पिबति । श्रद्धाघातं कृत्वेत्यर्थः । तृप्तेरन्यत्र गतित्वाभावे कणेहत्वा मूषिकां गतः । रण रणति णौ रणयति गतेरन्यत्र फाणयति घटं निःस्नेहयतीत्यर्थः । काणयति राणयति शब्दयतीत्यर्थः । कणिरणी पूर्वाधीतौ घटादिकार्यार्थमिह पठितौ । 'चण हिंसादानयोश्च' । हिंसायां दाने चकाराद्गतौ । चणति । णौ हखे चण१५ यति शब्दे तु चाणयति । उणादौ दृकृनित्यके (२७) चणकः । 'शण श्रण दाने शणति णौ ह्रस्वे
शणयति घभि शाणः । श्रणति णौ हस्खे श्रणयति । दानादन्यत्र शाणयति श्राण यति 'श्रणण् दाने' विश्राणयति । अथ थान्ताश्चत्वारः सेटश्च । 'लथ नथ क्रथ क्लथ हिंसाः ' । स्मथति स्नथयति । नथति कथयति । ऋथति कथयति । क्लथति क्लथयति । चौरस्योत्क्राथयतीति तु यौजादिकस्य घन
न्ताद्वा णिचि 'जासनाटक्राथ.' (२।२।१४) इति हवाभावे वा । अथ दान्तौ २ सेटौ च । २० 'छद ऊर्जने' । ऊर्जनं प्राणनं बलं च । 'छदण् संवरणे' इति पठिष्यमाणोऽप्यूर्जने घटादिकार्यार्थमिह पठितः । छदयत्यग्निः स्वार्थे णिच छादयन्तं प्रयुड़े इति णिग्वा । ऊर्जनादन्यत्र छादयति गृहं तृणैः । 'मदै हर्षग्लपनयोः' । 'मदैच् हर्षे इत्ययमनवोरर्थयोर्घटादिकार्यार्थमिह पठितः । मदयति । गुरु शिष्यः । मदयति सुरा चैत्रम् हर्षयतीत्यर्थः । मदयति शत्रुम् विमदयति शत्रुम् ग्लपयतीत्यर्थः ।
अन्यत्रानेकार्थत्वात् उन्मादयति प्रमादयति । अथ नान्ताः पञ्च सेटश्च । ष्टन स्तन ध्वन शब्दे । २५ 'षः स.' (२।३।९८) इति सत्वे स्तनयति । पोपदेशत्वात् 'नाम्यन्तस्था.' (२।३।१५) इति षत्वे
तिष्टनयिषति । स्तनयति । अषोपदेशत्वात्षत्वाभावे तिस्तनयिषति । ध्वनयति दध्वान ध्वनयन्नाशाम् । एते पूर्वपठिता अप्यर्थविशेष घटादिकार्यार्थमिहाधीताः । अनेकार्थत्वार्थान्तरे स्तानयति । शब्देऽपि स्तानयतीत्यन्ये । ध्वानयति । 'वन अवतंसने' । स्वनति । णौ स्खनयति अवतंसयतीत्यर्थः । 'जभ्रम०' (४।१।२६) इति वैत्वे स्वेनतुः सवनतुः स्वेनुः सस्वनुः । पूर्व पठितोऽप्यर्थविशेषे घटादि३० कार्यार्थमिहाधीतः । शब्दे तु स्वानयति । 'चन हिंसायाम्' । चनति णौ चनयति । शब्दे तु चान
यति पूर्वपठितोऽप्यर्थविशेष घटादिकार्यार्थमिहाधीतः । अथ रान्तः सेट् च १ । 'ज्वर रोगे' । ज्वरति णौ ह्रखे ज्वरयति । भिणम्परे तु वा दीर्घ अज्वारि अज्वरि । ज्वारम् २ ज्वरम् २ । रुजा
र्थस्येत्यत्र ज्वरेवर्जनाद्वा कर्मत्वाभावे द्वितीयैव, न तु षष्ठी । चौरं ज्वरयति ज्वरः । यङि जाज्वर्यते । ३४ यङ्लुपि जाज्वरीति जाजूर्ति । क्ते ज्वरितः । विपि 'भव्यवि०' (४।१।१०९) इति वस्योटि सुजः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org