________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वाधन्तर्गता घटादयः कार्यार्थ पुनः पाठः । णौ दक्षयति । भिणम्परे तु वा दीर्घः अदाक्षि अदक्षि । दाक्षम् २ दक्षम् २ । इति त्रयोदशात्मनेपदिनः ॥ १३ ॥ 'श्रां पाके' '3 पाके' 'श्रांक पाके' इत्यस्य चेह घटादिकार्यार्थं पाठः श्रायति श्राति वा कश्चित्तमन्यः प्रयुङ्क्ते अपयति श्रापयति श्राति वा हविः स्वयमेव तदन्येन प्रायुज्यतेति णौ घटादित्वात् हस्खे क्ते 'श्रपेः प्रयोक्त्रैक्ये (४।१।१०१) इति शृतादेशे शृतं हविः क्षीरं वा चैत्रेण । अन्यत्र श्रापयति धर्मः स्वेदयतीत्यर्थः । अत एव ज्ञापकादनेकार्थत्वं धातूनां सिद्धम् ।५ अथ ऋदन्तः १ । स्मं आध्याने । आध्यानमुक्तं वा स्मरति । घटादित्वाद् हस्खे स्मरयति । आध्यानादन्यत्र चित्तं स्मारयति विस्मारयति । अन्यत्रोक्तस्यार्थविशेषे घटादिकार्यार्थमिह पाठः । अथ ऋदन्ती २। 'दृ भये' दरति 'युवर्ण०' (५।३।२८ ) इत्यलि दरः । णौ दरयति बलम् । भयादन्यत्र काष्ठं दारयति । उणादौ 'शूद०' (८९४) इत्यादि दरनामा जनपदः । 'दृश् विदारणे' । हणाति दारयति काष्ठम् । अस्यैव घटादिकार्यार्थमिह पाठ इत्यन्ये । दीर्यते इति कर्मकर्तरि दिवादावप्ययमन्यैः १० पठ्यते । तन्मते कर्त्तर्यपि दीर्यते । 'नृ नये' । क्रयादेर्घटादिकार्यार्थ विरलोऽस्य पाठः । नृणन्तं प्रयुते नरयति । अथ कान्ताश्चत्वारः ४ । 'ष्टक स्तक प्रतीघाते' 'षः स०' (२।३।९८ ) इति सत्वे स्तकति घटादित्वाद् ह्रस्खे सनि षोपदेशत्वात् षत्वे तिष्टकयिषति । स्तक स्तकति णौ ह्रस्वे अपोपदेशत्वात्पत्वाभावे तिस्तकयिषति । 'चक तृप्तौ च' चकारात् प्रतीघाते, चकति णौ ह्रस्वे चकयति क्ते चकितः । उणादौ कठिचकि० (४३३) इत्यारे चकोरः । 'चकि तृप्तिप्रतीघातयोः' चकते । 'अक १५ कुटिलायां गतौ' अकति । णौ ह्रखे अकयति । अनोकह इति तु अनेरोकहः (५९५) । अथ खान्तः । 'कखे हसने' कखति 'न श्विजागृ०' (४।३।४९) इति वृद्धिनिषेधे अकखीत् । णौ हस्खे कखयति । किखिरिति तु कोर्डिखिः (६२६) इति कौतेः । अथ गान्ता नव सेटश्च । अग अकवत् । 'अक कुदिलायां गतौ' पठितः अयमपि तदर्थो लाघवार्थ तथा निर्दिश्यते। अगति णौ हवे अगयति । उणादौ भीवृधि० (३८७ ) इति रे अग्रम् । वीयुसुवहि० (६७७ ) इति नौ अग्निः । 'रगे शङ्कायाम्' ।२० रगति एदित्त्वात् हस्खनिषेधे अरगीत् । णौ रगयति । 'लगे सङ्गे' लगति अलगीत् लगयति । 'क्षुब्धविरिब्धवान्तध्वान्तलग्नम्लिष्टकाण्डबाढपरिवृदं मन्थस्वरमनस्तमासक्ताऽस्यस्पष्टाऽनायासभृशप्रभौ' (४।४।७०) इति निपातनात् लग्नः सक्तः, लगितोऽन्यः । 'हगे हगे षगे सगे ठगे स्थगे संवरणे' । संवरणं आच्छादनम् । ह्रगति अद्यतन्यां एदित्त्वात् (व्यञ्जनादेरिति वा वृद्धेः) 'न श्विजागृ०' इति वृद्धिनिषेधे अहगीत् णौ हगयति । एवं ह्रगति अलगीत् ह्रगयति । षगे 'पः स०२५ (२।३।९८) इति सत्वे सगति असगीत् सगयति । षोपदेशत्वात्पत्वे सिषगयिषति । सगे सगति असगीत् सगयति सिसगयिषति । ष्ठगे 'षः स०' इति सत्वे स्थगति अस्थगीत् । स्थगयति । षोपदेशत्वात् षत्वे तिष्ठगयिषति । स्थगे स्थगति अस्थगीत् स्थगयति । षत्वाभावे तिस्थग यिषति । अथ टान्तात्रयः सेटश्च ३ । 'वट भट परिभाषणे' वटति वटयति । भटति भटयति । 'वट वेष्टने' वाटयति । 'भट भृतौ' भाटयति । 'णट नृतौ' नटति णौ ह्रस्वे नटयति शाखाम् । नृतौ तु नाटयति । ३० 'नटण अवस्यन्दने' चौरस्योन्नाटयति । अथ डान्तात्रयः सेटश्च ॥ ३ ॥ गड सेचने गडति । लत्वे गलति । णौ हवे गडयति । अचि गडयतीति गडः। सुखं स्वपिति गौर्गडी। उणादौ तजिभूवदि० (२२१ ) इत्यन्ते गडयन्तः गडयन्ती । कडार इति तु कडतेः अग्यङ्गि० (४०५) इत्यारे । कडनं कलत्रमित्यपि वृग्नक्षि० (४५६) इत्यत्रेऽस्यैव । 'हेड वेष्टने' हेडति जिहेड हेडिता णौ हस्खे हिडयति ।३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org