________________
५७८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुक्ष्यम् । अथ जान्तः १ । 'क्षजुङ् गतिदानयोः' । उदित्त्वान्ने क्षञ्जते चक्षले क्षञ्जिता ते क्षञ्जितः 'क्तेट' (५।३।१०६) इत्यः क्षजा । णौ क्षञ्जयति घटादिपाठबलाण्णौ बिणम्परेऽनेकव्यञ्जनव्यवधानेऽपि वा दीर्घ अक्षाञ्जि अक्षञ्जि । क्षाशं क्षाञ्जम् । क्षझं २ । एवं कन्दिक्रन्दिक्कुन्दिदक्षीणां
ज्ञेयम् । अत एव णौ बिणम्परे ह्रखमविकल्प्य दीर्घविकल्पः । 'क्षजुण कृच्छ्रजीवने' क्षञ्जयति । ५कौशिकस्तु क्षजौ विर्पयर्येणाधीते । अथ थान्तौ । व्यथिए भयचलनयोः । दुःखेऽप्यन्ये । व्यथते । 'ज्याव्येव्यधिव्यचिव्यथेरिः' (४।१।७१ ) इति पूर्वस्येत्वे विव्यथे व्यथिता । णौ हस्खे व्यथयति मिणम्परे तु वा दीर्घ अव्याथि अव्यथि । व्याथम् २ । व्यथम् २। 'रुच्याव्यथ्य०' (५।१६) इति कर्तरि निपातनाये अव्यथ्यः । भावे ध्यणि अव्याथ्यम् । ग्रहादित्वाणिनि अव्याथी । 'जीण
दृक्षि०' (५।२।७२) इति नि अव्यथनशीलोऽव्यथी । 'इङित०' (५।२।४४) इत्यने व्यथनः । १० षित्त्वादङि व्यथा । उणादौ श्वशुर० (४२६) इत्युरे निपातनात् विथुरः राक्षसः । नमो व्यथेः (५५२) इतीषे अव्यथिषः सूर्यः । अव्यथिषी भूः । 'प्रथिष् प्रख्याने' । प्रख्यानं प्रसिद्धिः । प्रथते णौ हवे प्रथयति । णौ डे सन्वद्भावापवादे ‘स्मृहत्वरप्रथम्रदस्तृस्पशेरः' (४।१।६५) इति पूर्वस्यातो अत्वे अपप्रथत् । बिणम्परे तु वा दीर्घ अप्राथि अप्रथि । प्राथम् २ । प्रथम् २ । षित्त्वादङि प्रथा । उणादौ सृणीकास्तीक० (५०) इतीके निपातनात् पृथ्वीका एला । सृपप्रथि० ( ३४७) इत्यमे १५प्रथमः । प्रथेरिवट् पृथ् च (५२१) पृथिवी । प्रथेलक् च वा (६४७) इति तौ प्रति चादिः । पक्षे प्रत्तिः प्रथनं भागश्च । रभिप्रथिभ्यामृञ्च रस्य (७३०) इत्यौ पृथुः । कुत्सितादौ कपि पृथुकः । अथ दान्ताः पञ्च ॥ ५॥ 'म्रदिष् मईने' प्रदते । णौ ह्रखे म्रदयति । णौ डे प्राग्वत् । अमनदत् । षित्त्वादङि प्रदा । उणादौ मृद्वीका मृदीका चेति मृदेर्वोन्तश्च वा (४९) इतीके मृगातेः । एवं मृदुः ।
'स्खदिए खदने' खदनं विदारणम् । स्खदते । षित्त्वादङि स्खदा । णौ हवे स्खदयति । 'कदुङ नदङ क्लद वैक्लव्ये' । विक्लवः कातरस्तस्य भावः कर्म वा वैक्लव्यम् । वैकल्य इति चन्द्रः।
त्रिष्वपि उदित्त्वान्नोन्तः कन्दते क्रन्दते लन्दते 'क्तेट०' (५।३।१०६) इत्यः कन्दा क्रन्दा कुन्दा । णौ कन्दयति ३। त्रिणम्परे तु वा दीर्घः अकान्दि अकन्दि । कान्दम् २ कन्दम् २ । एवं शेषयोरपि क्रन्देनन्द्याद्यने सङ्क्रन्दनः । 'इङित०' (५।२।४४ ) इत्यने आक्रन्दनः घनि आक्रन्दः । त्रयोऽप्येतेऽनुदितः षितश्चेति नन्दी । कदते क्रदते वदते । कदा क्रदा लदा । 'कदु क्रदु क्लदु रोदनाह्वानयोः' २५ कन्दति क्रन्दति क्लन्दति । अथ पान्तः १ । 'क्रपि कृपायाम्' । क्रपते । णौ क्रपयति । 'मृगयेच्छा.'
(५।३।१०१) इति निपातनादङि कृपा । कृपण इति तु कृपगृ० (१८८) इति कित्यणे कृपेः । अथ रान्तः १ । 'मित्वरिष् सम्भ्रमे । सम्भ्रमोऽत्राशुकारिता । त्वरते तत्वरे त्वरिता । यङि तात्वर्यते । यङ्लुपि तात्वरीति । 'भव्यविश्रिविज्वरित्वरेरुपान्त्येन' (४।१।१०९) इति वस्यो
पान्येन सहोटि तातूतिः । षित्त्वादङि त्वरा । णौ ह्रखे त्वरयति । सन्वद्भावापवादे 'स्मृदृत्वर.' ३० (४।११६५) इति पूर्वस्यात्वे अतत्वरत् । बीत्त्वात् 'ज्ञानेच्छा०' (३।११८६) इति सति क्ते 'श्वस
जपवमरुषत्वरसंघुषास्वनामः' (४।४।७५) इति वेटि त्वरितः । पक्षे 'मव्यवि०' इति वस्योपान्त्येन सहोटि तूर्णः । तूर्णिरिति तु तुरेः कावावी. (६३४) इति णौ । अथ सान्तः । 'प्रसिष् विस्तारे' प्रसव इत्यन्ये, । प्रसते पासे पित्त्वादङि प्रसा । णौ प्रसयति । अथ क्षान्तः १। 'दक्षि ३४ हिंसागत्योः' दक्षते 'क्तेट०' (५।३।१०६) इत्यः दक्षा । 'दक्षि शैध्ये च' इत्यस्यैवार्थभेदाद् घटादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org