________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वाद्यन्तर्गता घटादयः
शव्वर्जनान्नोन्ताभावे लभते इत्यादि । अन्यत्र स्वरादौ नोऽन्तागमे आलम्भयति आलम्भकः साध्वालम्भी आलम्भो वर्त्तते । 'शकितकि०' (५।१।२९) इति ये लभ्यम् । 'आङो यि' (४।४। १०४) आपरस्य लभतेः स्वरात्परो यकारादौ प्रत्यये नोऽन्तो भवति । आलम्भ्या गौः । आलम्भ्या वडवा हिंस्येत्यर्थः । आङ इति किम् ? लभ्यः । यीति किम् ? आलब्धा । 'उपास्तुतौ' (४।४।१०५) उपात्परस्य लभतेः स्वरात्परो यकारादौ प्रत्यये परे स्तुतौ प्रशंसायां गम्यायां नोऽन्तो५ भवति । उपलम्भ्या विद्या भवता उपलम्भ्यं शीलम् । स्तुताविति किम् ? उपलभ्या वार्ता उपलभ्यमस्माद्वृषलात् किञ्चित् । 'निख्णमोवा' (४।४।१०६) बौ ख्णमि च प्रत्यये परे लभतेः स्वरात्परो नोन्तो भवति । अलाभि अलम्भि लाभं २ लम्भं २। 'उपसर्गात् खल्घञोश्च' (४।४।१०७ ) उपसर्गात् परस्य लभतेः स्वरात्परः खल्घोर्बिख्णमोश्च परयोर्नोन्तो भवति । खल् ईषत्प्रलम्भम् ईषदुपलम्भम् दुष्प्रलम्भम् सुप्रलम्भम् । घञ् प्रलम्भः उपलम्भः विलम्भः । जि१० प्रालम्भि । ख्णम् प्रलम्भं प्रलम्भम् । उपसर्गादिति किम् ? ईपल्लभः लाभो वर्त्तते । जिख्णमोर्नित्यार्थमुपसर्गादेव खल्घोरिति नियमार्थं वचनम् । उपसर्गेभ्यो लभः स्वरात्परः खलघोरिति नियमार्थं वचनम् । उपसर्गेभ्यो लभः स्वरात्परः खल्वविख्णम्वेव प्रत्ययेषु नोन्तो भवति, नान्येष्विति विपरीतनियमस्तु न भवति । 'शप उपलम्भने' इति ज्ञापनात् । 'सुदुर्व्यः' (४।४।१०९) सुदुर इत्येताभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात्पराभ्यां परस्य लभतेः स्वरात्परः खल्घोः परयो-१५ !न्तो भवति खल् अतिसुलम्भं अतिदुर्लम्भम् । घञ् अतिसुलम्भः अतिदुर्लम्भः । अतिसुदुर्लम्भः । उपसर्गादित्येव सुलभम् दुर्लभम् । सुदुर्लभम् सुलाभः दुर्लाभः सुदुर्लाभः । अतिसुलभमतिदुर्लभमित्यतेः पूजातिक्रमयोरनुपसर्गत्वात् उपसर्गादेव सुदुर्घ्य इति नियमार्थं वचनम् । बहुवचनं व्यस्तसमस्तपरिग्रहार्थं दुस्सङ्ग्रहार्थं च ।
अथ घटादय एकोनषष्टिवर्णक्रमेण निर्दिश्यन्ते । तेषु त्रयोदशात्मनेपदिनः षट्चत्वारिंशत्पर-२० स्मैपदिनः । श्रांस्{वर्जाः सेटश्च । तत्र पूर्वाचार्यानुरोधात्पूर्वं घटनिर्देशः । घटिष् चेष्टायाम् इति १ चेष्टा ईहा घटते इत्यादि स्पष्टम् सनि जिघटिषते । यङि जाघट्यते । क्ते घटितं णौ 'घटादेहस्वः।' (४।२।२४ ) इति हस्खे घटयति । दीर्घस्तु वा बिणम्परे अघाटि अघटि । घाटिष्यते घटिष्यते । घाट २ घटं २ 'णिवेत्ति०' ( ५।३।१११) इत्यने घटना । पित्त्वादडि घटा । इह च घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेन उद्घाटयति, कमलवनोद्घाटनम् कुर्वते ये, २५ प्रविघाटयिता समुत्पतन् हरिदश्वः कमलकरानिव, उद्घाटितः कपाटः, श्रापयति स्मारयति दारयति नाटयति फाणयति छादयति प्रमादयति चालयतीत्यादौ चेष्टाद्यर्थाभावे घटादेहस्व इति ह्रस्वो न भवति। विघटयतीत्वजन्तस्याङन्तस्य वा 'णिज्बहुलं नाम्नः' इति करोत्यर्थे णिचि रूपम् । अन्ये तु ये घटादयोऽन्यत्र पठितास्तेषां योऽर्थ उपात्तस्तत्रैव ह्रस्वादिकार्य ये त्वत्रैव पठ्यन्ते तेषां सामान्येनानेकार्थत्वादिति ब्रुवते, तन्मते विघटयतीति चेष्टाभावे ह्रस्वः स्यादेव, कमलवनोद्घाटनम् प्रविघाटयिता समु-३० त्पतन्नित्यादौ तु चुरादौ भासार्थस्य घटेणिचि यमिज्ञावहिवर्जितस्य घटादिकार्यनिषेधाद् ह्रस्वाभावे रूपम यथा शमिणो णिचि निशामयते, चेष्टार्थस्यैव वा घनन्तस्य णिचि । इत्थं चोन्नामिताखिलमहीधरकन्धरस्य चौरस्योत्नाथयतीत्यादि सिद्धम् । संक्रामयतीति तु संक्रामं करोतीति णिचि । 'शकधृष०' (५।४।९०) इति तुमि घटते भोक्तुम् । अचि घटः । इह घटादौ केप्यत्रैवाधीताः प्रकृत्यादिकार्यभाजो न्याय्यशवप्रत्ययाश्च । अन्ये तु स्वस्थानोक्तार्थभाजः पित्त्वह्रस्वाद्यर्थमनूद्यन्त इति यथायथमुत्प्रे-३५
है. प्रका० उत्त० ७३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org