________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअनुस्वारेत्वान्नेट् कोष्टा आक्रोष्टा । णे क्रोशः । बाहुलकात्सोपसर्गादपि णे उत्क्रोशः कुररः । 'नाम्युपान्त्य०' (५।१५४) इति के क्रुशः । उपसर्गादेब्रिति णके आक्रोशनशीलः आक्रोशकः । घथि आक्रोशः । क्रुत्स्यतेऽध्वपरिमाणं यस्मात्क्रोशः णके उत्क्रोशः । उणादौ कृसिकमि० ( ७७३) इति तुनि कोष्टना । ऋशीक्रुशि० (९०६) इति कनिपि क्रुश्वा शिवा । अथ सान्तः । 'कस गौ' कसति उत्कसति ५विकसति चकास णे कासः अचि कसः यङि 'वञ्चस्रंस०' (४।१।५०) इति न्यागमे चनीकस्यते यङ्लुपि चनीकसीति 'स्थेशभास.' (५।२।८१) इति विकसनशीलो विकस्वरः । उणादौ संविभ्यां० (५२) इत्युके सङ्कसुकः अस्थिरः भीमादित्वादपादाने साधुः विकसुकः गुणवादी । कसिपदि० (८३५) इति णिदूः कासूः शक्त्यायुधम् । अथ हान्तः । 'रुहं जन्मनि' । वीजजन्मनि इत्येके । बीजजन्माङ्कुरोत्पत्तिः । रोहति अरुक्षत् रोढा णौ 'रुहः पः' (४।२।१४ ) इति वा पादेशे रोपयति १०रोहयति । णे रोहः । बाहुलकात्सोपसर्गादपि णे प्ररोहः आरोहः । 'नाम्युपान्त्य०' (५।११५४ ) इति
के रुहः । स्थादित्वाद् भावाकोंर्मूलविभुजादित्वाद्वा कर्तरि के बीजरहा। अस्य 'साक्षादादिश्व्यर्थे' (३।१।१४) इति कृगा योगे वा गतित्वे बीजरुहा कृत्य वीजरुहा कृत्वा गतः । श्लिषशीङ ( ५।१।९) इति वा कर्तरि क्ते खट्वामारूढः । हृश्य० (२१०) इतीते रोहितः वर्णः लत्वे लोहितः । 'इयेते.' (२।४।३६) इति ङयां रोहिणी । रुहिनन्दि० (२२०) इति टित्यन्ते रोहन्तः द्रुमः । रोहन्ती १५ओषधिः । विपिन० (२८४ ) इति निपातनादिने रोहिणः । स्त्रियां 'रेवत०' (२।४।२६) इति
ड्यां रोहिणी नक्षत्रम् । रुहेर्वृद्धिश्च (५४८) इतीषे रौहिषं तृणजातिः । ण्यन्तात् स्वरेभ्य इः (६०६) रोहिः मृगः । हृमृरुहि० (८८७ ) इतीति रोहिन् मृगः । ऋशीक्रुशि० (९०६ ) इति कनिपि रुह्वा वृक्षः । अथात्मनेपदिनौ द्वौ । रमि क्रीडायाम् १ 'षहिं मर्षणे' २ इति च ।
तत्र रमिधातुं कण्ठतो निर्दिशति रमते इत्यादि स्पष्टम् । आत्मनेपदिनोऽप्यस्योपसर्गयोगे परस्मैपदं २० स्यादित्यत्र सूत्रम् 'व्याङ्' (३।३।१०५) कण्ठ्यम् । 'यमिरमिनम्यातः सोन्तश्च' (४।४।८६)
इति इटि सेऽन्ते च रूपम् । व्यरंसीदिति । अत्रायं विशेषः 'वोपात्' ( ३।३।१०६) उपपूर्वाद्रमेः कर्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति उपरमते वा । उपसम्प्राप्तिपूर्विकायां रतौ वर्तमानोऽन्तभूतणिगर्थो वा रमिः सकर्मकः । उपरमति उपरमते वा सन्तापः । निवृत्त्यर्थः पुनरुपपूर्वोऽप्यकर्मकः उपरमत्युपरमते वा अवद्यात् । उपाद्रमेः सकर्मकात्परस्मैपदमेवेत्येके । आत्मनेपदमेवेत्यन्ये । २५यङि रंरम्यते । यङ्लुपि रंरन्ति । 'भव्यगेय०' (५।११७) इति कर्तरि निपातनात् ये रम्यः ।
नन्द्याधने रमणः । 'रम्यादिभ्यः कतरि' (५।३।१२६) इति कर्त्तर्यनटि रमणी । णे रामः रामा । अचि रमः रमा । 'शोकापनुद०' (५।१।१४३) इति निपातनात् के स्तम्बेरमो हस्ती ( उणादौ पुतपित्तेति (२०४) निपातनात् सूरतो दमितो हस्त्यन्यो वा दान्तः। नीनूरमि० ( २२७) इति किति थे रथः । रमेस्त् च (२६४ ) इति ने रत्नम् । केचित्तु ‘यमूं उपरमे' 'रमूं क्रीडायाम्' इत्यूदितौ ३० ज्वलादावधीयते । तन्मते अदित्त्वात् क्त्वि वेट् यत्त्वा यमित्वा रत्वा रमित्वा । पहिधातुं चानुपदमेव वक्ष्यति ॥ ३१ ॥ वृत् ज्वलादिः
'डलभिष प्राप्तौ' इति । अत्र लभ् इति धातुः शेषाश्चत्वार इतः । तत्र डुकारेत्त्वात् 'ड्वितस्त्रिमक्तत्कृतम्' (५।३।८४) इति लब्ध्रिमम् । पित्त्वादङि लभ इति ने 'नो व्यञ्जनस्य'
(४।२।४५) इति नलुकि लभा उपलभा । इदित्त्वादात्मनेपदमनुस्वारेत्वादिडभावः । 'लभः' ३५ (४।४।१०३) लभतेः स्वरात्परः परोक्षाशव्वर्जिते स्वरादौ प्रत्यये परे नोऽन्तः स्यादिति । परोक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org