________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वाद्यन्तर्गता ज्वलादयः जालम् । घअन्तस्यापि नपुंसकत्वं लोकात् । 'जलण् अपवारणे' जालयति । 'टल ट्रल वैलव्ये' विक्लव एव वैकृव्यम् टलति ट्वलति टटाल टट्वाल । णे टालः ट्वालः । अचि टलः ट्वलः । 'ष्ठल स्थाने 'षः स०' (२।३।९८) इति सत्वे स्थलति तस्थाल । णे स्थालम् गौरादित्वात् ड्यां स्थाली अचि स्थलम् । स्त्रियां 'भाजगोण' (२।४।३०) इति डयां स्थली अकृत्रिमा स्थलान्या 'विकुशमि०' (२।३।२८) इति षत्वे विष्ठलम् कुष्ठलम् शमिष्ठलम् । 'कपेर्गोत्रे' (२।३।२९) कपीनां स्थलमिव५ स्थलमस्य कपिष्ठलः । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे तिष्ठालयिषति । अषोपदेशोऽयमित्यन्ये । 'हल विलेखने' विलेखनं कर्षणं हलति जहाल । णे हालः हाला सुरा। अचि हलम् । हलाहलम् उणादौ पदिपठि० (६०७) इति इ. हलिः हडिः । 'णल गन्धे' गन्धोऽर्दनं 'पाठे.' (२।३।९७) इति नत्वे नलति णोपदेशत्वात् 'अदुरुपसर्ग' (२।३१७७ ) णत्वे प्रणलति ननाल णे नालम् नाला पद्मादीनां वृन्तम् नाली नाडी प्रणालम् प्रणाली प्रणालिका प्रणाडिका । अचि नलम् नडः । आत इति १० डे नलदः । 'बल प्राणनधान्यावरोधयोः' । प्राणनं जीवनम् । धान्यमवरुध्यते यत्रेति धान्यावरोधः कुशूलः । ओष्ठ्यादिः बलति बबाल 'अनादेशादे०' (४।१।२४) इति बेलतुः बेलुः । णे बालः । स्त्रियां वयस्यनन्त्ये (२।४।२१) इति जयपवादे अजादित्वादापि बाला । अचि बलः बलम् । उणादौ हपृभृ० (२०७) इत्यते बलतः कुसूलः । 'वलि संवरणे' दन्यौष्ठ्यादिः । वलते ववले । 'वलण् प्राणने । घटादिश्वेत्येके । वलयति । 'पुल महत्त्वे' पोलति वा ज्वलेति णे पोलः पक्षे 'नाम्युपान्त्य०' १५ (५।११५४) (इति) के पुलः पुलम् विपुलम् । उणादौ 'ध्रुधुन्दि०' (२९) इति कित्यके पुलकः रोमाश्चः। पापुलि (४१) इति कितीके पुलिकः तुच्छधान्यम् । कल्यलि० (२४६) इति इन्दकि पुलिन्दः । वृजितुहि० (२८३) इति कितीने पुलिनम् । 'नाम्युपान्त्यः' (६०९) इति किदिः पुलिः । अगि विलि० (६६०) इत्यस्तिकि पुलस्तिः । अयं तुदादिरपीत्येके पुलति । 'पुलण समुच्छ्राये' पोलति । 'कुल बन्धुसंस्त्यानयोः' । संस्त्यानं सङ्घातः । कोलति वा ज्वलेति णे कोलः सूकरः कोलं बदरम् । २० के कुलम् नकुलः । कक्कोलमिति तु कचेः पिञ्छोल (४९५) इत्योले निपातनात् । उणादौ कुलिपिलि० (४७६) इति कित्याले कुलालः । 'पल फल शल गतौ' पलति णे पालः अचि पलं मांसम् । कर्मणोऽणि गोपालः । उणादौ हृश्या० (२१०) इतीते पलितम् पाण्डुरः केशः केशपाकश्च । अभ्रादित्वादः पलितमस्यास्ति पलितः । मृदिकन्दि० (४६५) इत्यले पललं तिलकल्कः । ऋकृभृ० (४७५) इत्याले पलालम् । शमिकमि० (४९९) इति वले पल्वलमखातसरः । 'पलण् २५ रक्षणे' पालयति । फल फलति 'तृत्रपफल.' (४।१।२५) इत्येत्वे फेलतुः फेलुः । णे फाल: कुशिकः । फाला इव तण्डुलाः । अचि फलम् । शल शलति णे शालः शाला । अचि शलं श्वाविद्रोम । उणादौ भीणशलि (२१) इति के शल्कः शरणम् । शलिबलि० (३४) इत्याके शलाका । शल्यर्णित् (५९) इत्यूके शालूक कुमुदादिकन्दः । शल्यतेरुच्चात (३१९) इति वे शुल्वम् । कशग० (३२९) इत्यभे शलभः । स्थाछामा० (३५७) इति ये शल्यम् । यावादित्वात्के ३० शल्यकः । मृदिकन्दि० (४६५) इत्यले शललं श्वाविद्रोमसूची । कमिवमि० (६१८) इति णिदिः शालिः । माशालि० (७०३) इति ण्यन्तान्मलौ शाल्मलिः । फलिशल्योः पूर्वमधीतयोरपीह पाठो ज्वलादिकार्यार्थः, शले परस्मैपदार्थश्च । 'हुल हिंसासंवरणयोश्च' चकाराद्गतौ, होलति णे होलः पक्षे नाम्युपान्त्य० (५।१।५४ ) इति के च हुलः हुडः । उणादौ पृकाहृषि० (७२९) इति किदुः हुडुमेषः । अथ शान्तः 'क्रुश आह्वानरोदनयोः' क्रोशति 'हशिट०' (३।४।५५) इति सकि अक्रुक्षत् ३५
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org