________________
५७४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुत्पत्वं आदिषत् ( उपसत् ) पुष्करसत् । सम्पदादित्वात् किपि उपनिषद् । परिषीदन्त्यस्यामिति परिषद् । ग्रहादित्वाणिनि सादी निषादी । दाधेसि० (५।२।३६) इति रौ सादनशीलः सद्रुः । घनि सादः विषादः । स्त्रियां 'समज०' (५।३।९९) इति क्यपि निषद्या आधारे व्यञ्जनादिति घनि 'घञ्युपसर्ग०' (३।२।८६) इति दीर्घ प्रासादः उणादौ 'हुयामा०' (४५१) इति त्रे सत्रं ५यज्ञः । कृगृथु (४४१) इति वरटि निषद्वरः पकः । मन् (९११) इति मनि सद्म ।
कमिवमि० (६१८) इति णिदिः सादिः अश्वारोहः सारथिश्च । अस् ( ९५२) इत्यसि सदः सभा। 'शदूलं शातने' । शातनं तनूकरणम् । 'शदेः शिति' ( ३।३।४१) इत्यात्मनेपदे 'श्रौति०' (४।२।१०८) इति शीयादेशे शीयते शितोऽन्यत्र परस्मैपदम् शशाद लदित्त्वादङि अशदत् अनुस्वारे
त्वान्नेट् शत्स्यति । णौ 'शदिरगतौ शात्' (४।२।२३ ) पुष्पाणि शातयति । वा · ज्वलेति णे शादः १० तृणपङ्कौ । अचि शदः शटितः । क्षत्रियापशदः विशदः । णौ 'करणाधारे' (५।३।१२९) इत्यनटि
पलाशशातनो दण्डः पलाशशातनी यष्टिः । उणादौ शदेरूच्च (३९४) इति रे शूद्रः। तङ्किवकि० (६९२) इति रिः शद्रिः वज्रः । जनिहनि० (८०९) इति रौ तादेशे शत्रुः । अथ धान्तः । 'बुध अवगमने' । अवगमनं ज्ञापनम् । बोधति बुबोध बोधिता वा ज्वलेति णे बोधः 'नाम्युपान्य'
(५।१।५४ ) इति के बुधः । णौ 'गतिबोध०' (२।२।५) इत्यणिकर्तुः कर्मत्वे बोधयति शिष्यं १५धर्मम् । अनुस्वारेदयमित्येके तन्मते अभौत्सीत् बोद्धा राज्ञां बुद्धः 'बुधिंच ज्ञाने' बुध्यते ।
अथ मान्तौ । 'टुवमू उद्गिरणे' उद्गिरणं भुक्तस्योर्ध्वगतिः । वमति 'अनादेशादे०' (४।१।२४) इत्यस्य न शसददि०' (४।१।३०) इति प्रतिषेधे 'जभ्रम०' (४।१।२६) इति वा प्रतिप्रसवे वेमतुः ववमतुः । वा ज्वलेति णे मोकमीत्यत्र वमेवर्जनाद्वृद्धिप्रतिषेधाभावे वामः । अचि वमः । वमिता । 'अमोऽकम्य०' (४।२।२६) इति णौ हस्खे उद्वमयति । हलज्वलेत्यनुपसर्गस्य वा ह्रस्वे वमयति २० ( वामयति) णौ नन्द्याद्यने वामनः णके वामकः घनि वामः अङ्गादित्वात् मत्वर्थीये ने वामनः
'जीण्डक्षि०' (५।२।७२) इति वमनशीलो वमी । द्वित्त्वादथौ वमथुः । ऊदित्त्वात् क्त्वि वेट वान्त्वा वमित्वा । वेदत्वात् क्तयोर्नित्यमिडभावे प्राप्ते श्वसजप०' (४।४।७५) इति वेटि वान्तः वान्तवान् वमितः वमितवान् । उणादौ कमिवमि० (६१८) इति णिदिः वामिः (स्त्री) इत इति
(वा) ङयां वामी अश्वा, नायमूदित्यन्ये । 'भ्रमू चलने' 'भ्रासभ्लास०' (३।४।७३) इति वा श्ये २५भ्रम्यति भ्रमति 'जभ्रमः' (४।१।२६) इति वैत्वे भ्रमतुः बभ्रमुः । ऊदित्त्वात् क्त्वि वेट भ्रान्त्वा
भ्रमित्वा वेट्त्वात् क्तयोर्नेट भ्रान्तः भ्रान्तवान् । वा ज्वलेति ज्वलादिपाठान्मोऽकमि० (४।३।५५) इति प्रतिषेधाभावे 'ब्णिति' (४।३।५०) इति वृद्धौ भ्रामः । अचि भ्रमः । तृचि भ्रमिता । उणादौ ऋछिचटि० (३९७ ) इत्यरे भ्रमरः । तृभ्रम्य० (६११) इति इ. भृमश्च भृमिर्वायुः । बाहुलकात्
भ्र(भृ)मादेशाभावे भ्रमिभ्रमः । भ्रमिगमि० (८४३) इति डिदूः भ्रूः 'भ्रमूच् अनवस्थाने' भ्राम्यति । ३० अथ रान्तः । 'क्षर सञ्चलने' सकर्मकश्चायमकर्मकश्च क्षरति गौः पयो मुञ्चतीत्यर्थः । क्षरति स्रवतीत्यर्थः । णे क्षारः । ऋदित्येके । अचि क्षरः । अथ लान्ताश्चतुर्दश । 'चल कम्पने' चलति । णे चालः । अचि चलः । 'चराचर०' (४।१।१३) इति निपातनात् चलाचलः । यङ्लुपि चाचलः चञ्चलः । कम्पने घटादित्वाण्णौ हस्खे चलयति शाखाम् । अन्यत्र चालयति सूत्रम् । चालशब्देत्यने
चलनशीलः चलनः । घबि चालः 'चलणं भृतौ' चालयति । 'जल घात्ये' घात्यं जडत्वम् अतैक्ष्ण्य३५मित्यर्थः । जलति णे जालम् अचि जलम् डलयोरैक्यं जडः व्यवस्थितविभाषत्वाद्भिन्नेऽर्थे प्रत्ययो पनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org