________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वाद्यन्तर्गता ज्वलादयः
५७३ फल्पितव्यम् । कल्नु कल्पितुम्। ऋवर्णापदिष्टं कार्य लवर्णस्यापीति लतोऽपि ऋतोऽत् चिक्लप्सति चिकल्पिषते चिक्लप्सते । 'ऋमतां रीः (४।११५५) यङि चलीक्लप्यते अचकल्पत अचि कृपत् ऋलवर्णस्येति वाकः णौ क्ते अवकल्पितः । व्यञ्जनादित्याधारे पनि क्लृप्यन्ते यस्मिन् प्राणिनां भोगोपभोगा हानिवृद्धिभ्यामिति कल्पः कालविशेषः उत्सर्पिण्यवसर्पिणीसमुदायः । उणादौ तृकृकृपि० (१५१) इति कीटे कृपीटं हिरण्यं जलं च । 'कृपण अवकल्कने' कल्पयति 'कृपण दौर्बल्ये' अदन्तः कृपयति ।५ वृत् वर्तनम् । . वृत् द्युतादिः २३ वृतादि ५ अन्तर्गणसहितो वर्तितः समाप्त इत्यर्थः ।
--* वृधेः किपि वृन् वर्द्धितौ पूर्णावित्येके । 'कपुङ् चलने' इति अयं च वर्णानुक्रमे प्राग् विस्तरेण निरूपितः । 'क्षमौषि सहने' इति औकारषकारेकारा इतः । आद्य इड्विकल्पार्थः । द्वितीयोऽङर्थस्तृतीय आत्मनेपदार्थ इति । शेष १० स्पष्टम् । 'शकितकि०' (५।१।२९) इति ये क्षम्यम् औदित्त्वाद्वेड् क्षमिता क्षन्ता क्षमितव्यं क्षन्तव्यम् । पित्त्वादङि क्षमा । 'क्षमौच सहने' इत्यस्य तु स्त्रियां क्तौ क्षान्तिः । वेट्त्वात् क्तयोर्नेट क्षान्तः क्षान्तवान् । 'क्षमौच सहने' क्षाम्यति ।
रमिं क्रीडायामिति अयं च ज्वलादिगणगतः । ज्वलादयश्च यजादेः प्रागेकत्रिंशत् । तत्रैकोनत्रिंशत्परस्मैपदिनो द्वौ चात्मनेपदिनौ । क्रुशंरुहरमिंवर्जाः सेटश्च । वर्णक्रमेण निर्दिश्यन्ते । तत्रापि पूर्वा-१५ चार्यानुरोधेन पूर्व ज्वल दीप्तौ ज्वलति । घटादित्वात् णौ हस्ते प्रज्वलयति 'ज्वलह्वल०' (४।२।३२) इत्यनुपसर्गस्य वा ह्रस्वे ज्वलयति ज्वालयति। वाज्वलादीति णे ज्वलः ज्वालः पक्षेऽचि ज्वलः 'भूषाक्रोधार्थ.' (५।२।४२) इत्यने ज्वलनः । उणादौ निष्कतुरुष्क० (२६) इति निपातनात् उल्का । कञ्जुकांशुक० (५७) इत्युके निपातनात् उल्मुकम् । अथ चान्तः । 'कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु' सम्पर्चनं मिश्रता । प्रतिष्टम्भो रोधः । विलेखनं कर्षणम् । कोचति सङ्कचितः णौ क्ते २० सङ्कोचितः वा ज्वलादीति णे कोचः 'नाम्युपान्त्य०' (५।१।५४) इति के कुचः । घबि क्ते सेट्वात् कत्वाभावे उत्कोचः सङ्कोचः । अथ तान्तः । 'पत्ल पथे गतौ' पत्धातुः स च प्राक् परस्मैपदिषु वर्णक्रमनिरूपणे प्रतिपादित एव । अथ थान्तात्रयः सेटश्च । पथे पथति पपाथ पथिता एदित्त्वात् 'व्यञ्जनादे०' (४।३।४७) इति वृद्धेः 'न श्विजागृ०' (४।३।४९) इति निषेधे अपीत् । वा ज्वलादीति णे पाथः पक्षेऽचि पथः। उणादौ पथिमन्थिभ्याम् (९२६) इतीनि पन्थाः ।२५ 'कथे निष्पाके' कथति चक्काथ प्राग्वत् वृद्धिनिषेधे अक्कथीत् णे काथः अचि कथः घत्रि क्वाथः । 'अतोऽनेकस्वरात्' (७२।६) इति मत्वर्थीयेके काथिका यवागूः । 'मथे विलोडने' मथति वृद्धिनिषेधे अमथीत् वा ज्वलेति णे माथः पक्षेऽचि मथः । 'मथलपः' (५।२।५३) इति घिनणि प्रमाथी । घनि प्रमाथः अध्वपरिमाणम् । उणादौ वाश्यसि० (४२३) इत्युरे मथुरा । मन्था इति मनातेः । अथ दान्तौ । 'षदलं विशरणगत्यवसादनेषु' विशरणं शटनम् । अवसादोऽनुत्साहः । औति०३० (४।२।१०८) इति सीदादेशे सीदति षः स.' (२।३।९८) इति सत्वे ससाद 'सदोऽप्रते.' (२।३।४४ ) इति षत्वे निषीदति विषीदति निषसाद विषसाद । सनि निषिषत्सति विषिषत्सति । प्रतेस्तु षत्वाभावे प्रतिसीदति । 'नाम्यन्तस्था० (२।३।१५) इति सिषत्सति लुदित्त्वादङि आसदत् अनुस्वारेत्त्वान्नेट् सन्नः सन्नवान् । 'गलुप०' (३।४।१२) इति गार्थ यङि सासद्यते । वाज्वलादीति णे सादः । बाहुलकात्सोपसर्गादपि णे निषादः विषादः (अचि सदः) विपि भीरुष्ठानादित्वा-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org