________________
५७२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुवर्धः । 'वृधण् भासार्थः' वर्धयति । 'शृधूङ् शब्दकुत्सायाम्' । तालव्यादिः । शब्दकुत्सा पायुशब्दत्वात् । शर्द्धते अशृधत् अशर्द्धिष्ट प्राग्वत् शर्त्यति शर्द्धिष्यते शिशृत्सति शिशर्द्धिषते । ऊदि. त्त्वात् क्त्वि वेट श्रद्धा शर्द्धित्वा । वेट्त्वात् क्तयोर्नेट् शृद्धः शृद्धवान् । घधि शर्द्धः शर्द्धजहाः माषाः । उणादौ डीनीबन्धि० (३२५) इति डिम्बे शिम्बा बीजकोशी । नृतिशृधि ( ८४४) इति किदूः ५शृधूः शर्द्धनः । मूले वर्णक्रमोल्लङ्घनेन वृतोऽनन्तरं एतौ वृतिवंदित्येतयोरतिदेशस्तु लाघवार्थ इति ज्ञेयम् । कृपौङ् इति सूत्रम् ॥ १२२ ॥
ऋरललं कृपोऽकृपीटादिषु ॥ १२३ ॥ [सि० २।३।९९] कृपेर्ऋतो रस्य च लल् स्यात् , न तु कृपीटादिविषयस्य । कल्पते ४ । शुद्भयोऽद्यतन्यामित्यात्मनेपदविकल्पे धूगौदित इतीविकल्पे च अकल्पिष्ट । पक्षे ॥ १२३ ॥ १० कर.' कृपेरिति कृपेर्धातोकारस्य लकारो रेफस्य च लकारो भवतीत्यर्थः । न तु कृपीटादीति
स चेत् कृपिः कृपीटादिविषयो न भवति तदेत्यर्थः । कृपीटादयश्चेमे कृपीटम् कृपणः कृपाणः कृपः कर्पूरः कर्पटः कर्पटिरित्यादि । बहुवचनमाकृतिगणार्थम् । कल्पते इत्यादि स्पष्टम् । अकल्पिष्टेति ॥ १२३ ॥ इडभावपक्षे च सूत्रम्
सिजाशिषावात्मने ॥ १२४ ॥ [ सि० ४।३।३५] १५ नाम्युपान्त्ये सति धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत् स्याताम् । अक्लुप्त । पक्षे अक्पत् ५ । चक्लुपे । चक्लूपिषे-चक्लृप्से इत्यादि ६ । कल्पिषीष्ट-क्लप्सीष्ट ७ ॥ १२४ ॥ _ 'सिजा.' अयं भावः । नामिन्युपान्ये सति धातोः परे आत्मनेपदविषये अनिटौ सिजाशिषौ किद्वत्स्यातामित्यर्थः । सिचः कित्त्वाञ्च गुणाभावे 'धुड्हस्वाद् (४।३।७०) इति सिज्लोपे अक्ल
तेति । एवमाशिषः कित्त्वे क्लुप्सीष्टेति । सिजाशिषाविति किम् ? कल्प्स्यते । आत्मने इति किम् ? २० अस्राक्षीत् अद्राक्षीत् । नामिनीत्येव अयष्ट यक्षीष्ट । उपान्त्य इत्येव अचेष्ट अचेषीष्ट । अनिडियेव अवर्द्धिष्ट वर्द्धिषीष्ट ॥ १२४ ॥ श्वस्तन्यां सूत्रम्
कृपः श्वस्तन्याम् ॥ १२५ ॥ [ सि० ३।३।४६] कृपेः श्वस्तन्यामात्मनेपदं वा स्यात् । कल्पिता कल्प्सा । परस्मैपदपक्षे न वृद्भय इतीनिषेधे कल्ला । एवं कल्पितासे-कल्सासि ८ । कल्पिष्यते कल्प्स्यते-कल्प्स्यति ९ । अकल्पिष्यत-अक२५ल्प्स्यत-अकल्प्स्यत् १० । 'कपुङ चलने । उदित इति नुमागमे म्नां धुइवर्गेति मत्वे कम्पते
४। अकम्पिष्ट ५ । चकम्पे ६ । 'क्षमौषि सहने' । क्षमते ४ । औदित्वात् अक्षमिष्ट-अक्षस्त क्षमिता-क्षन्ता । 'रर्मि क्रीडायाम् । रमते ४ । अरस्त ५। रेमे ६ । रंसीष्ट ७ । रन्ता ८ । रंसते ९ । अरंस्थत १० । (व्यापरे रमः परस्मैपदं स्यात् ) विरमति । व्यरंसीत् । विरराम । 'डुलभिं प्राप्तौ । लभते ४ । अधश्चतुर्थात्तथोधः । अलब्ध ५ । लेभे ६ । लप्सीष्ट ३०७ । लब्धा ८ । लप्स्यते ९ । अलप्स्यत १० । 'स्फायैङ्क ओप्यायैङ् वृद्धौ' स्फायते ४ । अस्फायिष्ट ॥ १२५॥
'कृप:०' स्पष्टम् । कल्लेति कल्प्ता कल्तारौ कल्तारः कल्तासि कल्तास्थः कल्तास्थ कल्तास्मि ३३ कल्तावः कल्तास्मः । स्यन्दिकृपोरौदिल्लक्षणो विकल्पः परत्वादनेन वाध्यते । अनात्मने इत्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org