________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वाद्यन्तर्गता द्युतादयः ५७१ वत्तों ग्रामो गिरिश्च । 'घन्युपसर्ग०' (३।२।८६) इति बाहुलकादीर्घः । 'हस्तार्थाद ग्रहवर्तिवृतः' (५।४।६६) हस्तार्थात्करणवाचिनः शब्दात्परेभ्यो ग्रहवर्त्तिवृद्भयस्तस्यैव (धातोः) सम्बन्धे णम्वा भवति । हस्तग्राहं गृह्णाति एवं करग्राहम् पाणिग्राहम् , हस्तेन गृह्णातीत्यर्थः । वर्तिवृत इति वर्त्तर्ण्यन्तस्याण्यन्तस्य च ग्रहणम् । हस्तवत्तं वर्त्तयति करवतम् पाणिवर्तम् हस्तेन वर्तयतीत्यर्थः । हस्तवर्त्तम् करवर्त्तम् पाणिवत्त वर्तते हस्तेन वर्त्तते इत्यर्थः । अण्यन्तान्नेच्छन्त्येके । उणादौ ५ दृकनृ० (२७) इत्यके वर्तकः वर्तिका वर्चका वा शकुनिः । 'मवाकश्यामाक०' (३७) इत्याके निपातनात् वार्ताकी शाकविशेषः तत्फलं वार्ताकम् । वृन्ताकी उच्चबृहती वृन्ताकम् । वृतेस्तिकः (७५) वर्तिका चित्रकरोपकरणम् । ऋज्यजि० (३८८) इति किति रे वृत्रः । विदिवृतेर्वा ( ६१०) इति किदिः वृतिः कण्टकावरणम् । निर्वृतिः सुखम् । वर्तिपदशा। सदिवृति० (६८०) इत्यनौ वर्त्तनिः पन्थाः । मन् ( ९११) इति मनि वर्त्म । 'वृतूचि वरणे' वृत्यते । 'वृतण भासार्थः' वर्त्तयति १० इति तान्तः । अथ दान्तः । 'स्यन्दौङ् स्रवणे' इत्यादि स्पष्टम् ॥ १२१ ॥ उपसर्गयोगे सूत्रम्
निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥ १२२ ॥ [सि० २।३।५० ] एभ्यः परिनिविभ्यश्च परस्याप्राणिकर्तृकस्य स्यन्दः सः ष् वा स्यात् । अनुष्यन्दते अनुस्यन्दते जलम् । अप्राणिनीति किम् ? । अनुस्यन्दते हस्ती। 'वृधूङ् वृद्धौ' । शृधूङ शब्दकुत्सायाम् । एतौ वृतिवत् । कृपौङ सामर्थे ॥ १२२ ॥ __ 'निर०' निःष्यन्दते निःस्यन्दते तैलम् । अभिष्यन्दते अभिस्यन्दते अनुष्यन्दते अनुस्यन्दते, परिष्यन्दते परिस्यन्दते निष्यन्दते निस्यन्दते, विष्यन्दते विस्यन्दते । शनिर्देशाद्यङ्लुपि न भवति अभिसास्यन्दी तैलम् । निरभ्यनोश्चेति किम् ? अतिस्यन्दते तैलम् । पर्युदासोऽयम् । न प्रसज्यप्रतिषेधः, तेन प्राणीचाप्राणी च कर्ता भवति । तत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः, अनुस्यन्दते मत्स्योदके, अनुष्यन्दते वा । निर्निभ्यां नेच्छन्त्येके । 'विष्यन्दिमदनिःष्यन्दैः २० कराभिष्यन्दिशीकरैः । सल्लक्या रसनिष्यन्दः स्म परिष्यन्द्यते गजैः ॥ १॥ गजैः सल्लक्या रसनिध्यन्दो रसप्रवाहः परिष्यन्दतेस्म चर्वणेन स्राव्यतेस्म । कीदृशैर्गजैर्विष्यन्दी प्रसृमरो मदनिष्यन्दो मदप्रवाहो येषां तैस्तथा करेभ्योऽभिष्यन्दिनः स्रवणशीलाः शीकरा येषां तैः, पक्षे विस्यन्दिमदनिस्यन्दैरित्यादि इति द्याश्रयमहाकाव्ये। सनि सिस्यन्त्सति सिस्यन्त्सिता सिस्यन्त्सितुम् सिस्यन्त्सितव्यम् । आत्मनेपदे त्वौदित्वाद्वेट् स्यन्दिष्यते स्यन्त्स्यते सिस्यन्दिषते । यङि सास्यद्यते यङ्लुपि सास्यन्ति २।२५ क्त्वीडऽभावे 'स्कन्दस्यन्दः' (४।३।३०) इति कित्त्वाभावे स्यन्त्वा । इटि तु क्त्वेति कित्त्वाभावे स्यन्दित्वा । यपि प्रस्यन्द्य । तादेरेव क्त्वः कित्त्वाभाव इत्येके । तन्मते कित्त्वे नलुपि प्रस्यद्य वेट्त्वात् क्तयोर्नेट् स्यन्नः स्यन्नवान् । 'स्यदो जवे' (४।२।५३) इति पनि निपातनात् गोस्यदः अवस्यदः, जवादन्यत्र तैलस्यन्दः धृतस्यन्दः । उणादौ य्वसिरसि० (२६९) इत्यने स्यन्दनः । स्यन्दिसृजिभ्यां सिन्धरज्जौ च (७१७ ) इत्युः सिन्धुः । अथ धान्तौ । 'वृधूङ् वर्द्धने' द्युताद्यछि ३० अवृधत् अवर्द्धिष्ट । 'वृद्भ्यः स्यसनोः' (३।३।४५) इति वात्मनेपदम् तदभावे 'न वृद्भ्यः' (४।४। ५५) इति नेट वय॑ति वर्द्धिष्यते । सनि विवृत्सति विवर्द्धिषते । ऊदित्वात् क्त्वि वेट वृद्धा वर्द्धित्वा । वेट्त्वात् क्तयोर्नेट् वृद्धः वृद्धवान् । क्तौ तिकि वा वृद्धिः । णौ नन्द्याद्यने वर्द्धनः सुखवर्द्धनः । 'भ्राज्यलङ्कग्०' ( ५।२।२८ ) इतीष्णौ वर्द्विष्णुः । उणादौ भीवृधि० (३८७) इति रे ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org