________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'क्ट०' (५।३।१०६) इत्यप्रत्ययाभावे स्त्रियां क्तौ भ्रष्टिः । घनि भ्रशः । 'भ्रंशूच् अधःपतने भ्रश्यति । अथ सान्तौ स्रसूङ दन्त्यादिः, स्रंसते अस्रसत् अस्रंसिष्ट । सनि सिस्रंसिषते । यङि सनीस्रस्यते । यङ्लुपि सनीखंसीति, ऊदित्त्वात् क्त्वि वेट स्रस्त्वा संसित्वा, वेदत्वात् क्तयोर्नेट् स्रस्तः स्रस्तवान् , किपि उखेन उखया वा संसते उखास्रत्-अत्र 'संसध्वंस.' (२।१।६८) इति पदान्ते सस्य दः। ५'घञ्युपसर्गः०' ( ३।२।८६) इति बाहुलकादीर्घः । स्त्रियां क्तौ सस्तिः 'संसूङ् प्रमादे' 'वञ्चस्रंस०' इत्यत्र ध्वंसिसहचरितस्य संसर्ग्रहणात् न्यभावे यडि सास्रस्यते । अङभावे अस्रंसिष्ट । संस्ध्वंसित्यत्र तूभयोर्ग्रहणात् विपि दत्वे उखासत् । 'ध्वंसूङ गतौ च' चकारादवलंसने, ध्वंसते दध्वंसे अध्वसत् अध्वंसिष्ट । यङि 'वञ्चस्रंस.' इति पूर्वस्य नी दनीध्वस्यते ऊदित्त्वात् क्त्वि वेद ध्वस्त्वा ध्वंसित्वा । वेट्त्वात् क्तयोर्नेट् ध्वस्तः ध्वस्तवान् । त्रियां क्तौ ध्वस्तिः घनि ध्वंसः १० किपि पर्णध्वत् ।
अथ द्युताधन्तर्गणो वृतादिपञ्चकः । तथाचाह-वृतादिपश्चतो विशेष (पृ० ५६८) इति 'वृतूङ् वर्त्तने' इति वर्त्तनं स्थितिः। अद्यतन्यां द्युताद्यङि अवृतत् । अङऽभावपक्षे च अवतिष्ठेत्यादि । अग्रे विभक्तित्रयं सुगमम् ॥ ११९ ॥ भविष्यतीक्रियातिपत्त्योः सूत्रम्
वृद्भयः स्यसनोः ॥ १२० ॥ [सि० ३३।४५] १५ वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तर्यात्मनेपदं वा स्यात् । वर्तिष्यते । पक्षे ॥१२०॥ 'वृद्भय०' आत्मनेपदाभावपक्षे 'स्ताद्यशित०' (४।४।३२) इतीटि प्राप्तेऽपवादसूत्रम् ॥ १२० ॥
न वृद्भयः ॥ १२१ ॥ [सि० ४।४।५५] . वृतादिपञ्चकात् स्ताद्यशितोऽनात्मने इट् न स्यात् । वर्त्यति ९ । अवर्तिष्यत-अवय॑न् १० । 'स्यन्दौङ् स्रवणे' । स्यन्दते । औदित्त्वादिड्वा अस्यन्दिष्ट-अस्यन्त अस्यन्दिपाताम्-अस्य२०न्त्साताम् अस्सन्दिषत-अस्यन्त्सत ५ । शुद्भयोऽद्यतन्यामिति परस्मैपदपक्षे अङि सति नो व्यञ्जनस्येति नलुकि । अस्यदत् अस्यदताम् अस्यदन् ५ । सस्यन्दे सस्यन्दिषे सस्यन्त्से ६। स्यन्दिषीष्ट-स्यन्त्सीष्ट ७ । स्यन्दिता स्यन्ता स्यन्दितासे-स्यन्तासे ८ । स्यन्दिष्यते-स्यन्त्स्यते स्यन्त्स्यति ९ । अस्यन्दिष्यत-अस्यन्त्स्यत अस्यन्त्स्यत १०॥ १२१ ॥
न वृ० । अनात्मने इति आत्मनेपदनिमित्तं चेद्वृतादयो न भवन्ति । आत्मनेपदनिमित्तं च वृता२५ दयः स्यसनि श्वस्तन्यां कृपिर्विकल्पेन भवन्ति । सनि विवृत्सति विवर्तिषते । नन्वमीषामात्मनेपदिनामनात्मनेपदनिमित्तत्वं कथमित्यत्रोच्यते 'वृद्भ्यः स्यसनोः' 'कृपः श्वस्तन्याम्' ( ३।३।४६) इति सूत्राभ्यामित्यवेहि । ततश्च स्यसनोरप्येषां पाक्षिकत्वादनात्मनेपदनिमित्तत्वस्य यत्र तन्नास्ति तत्रेड्भवत्येव वतिष्यते अवतिष्यत विवर्तिषते विवतिषतुं विवतिषितव्यम् । यङि 'ऋमतां०' (४।१।५५) इति
पूर्वस्य री: वरीवृत्यते । यङ्लुपि वरीवर्त्ति । णौ वर्त्तयति । णौ डे 'ऋवर्णस्य' (४।२।३७) ३० धातोरुपान्त्यस्य ऋवर्णस्य परे णौ वा ऋकारो भवति इति गुणापवादे ऋतो वा ऋत्वे अवीवृतत्
अववर्त्तत् । वर्तेर्वृत्तं ग्रन्थे (४।४।६५) इति निपातनात् वृत्तस्तर्कः, ग्रन्थादन्यत्र वर्तितं कुङ्कुमम् । ऊदित्त्वात् क्त्वि वेट् वृत्त्वा वर्त्तित्वा, वेट्त्वात् क्तयोर्नेट वृत्तः वृत्तवान् । णके वर्तकः । स्त्रियां 'वौ
वर्त्तिके ति वेत्वे वर्तिका वर्त्तका च शकुनिः । किपि 'गतिकारक०' (३।२।८५) इति दीर्घ नीवृत् ३४ उपावृत् । स्त्रियां क्तौ वृत्तिः वृत्तिरस्त्यस्याः वार्ता 'व्यञ्जनाद् घभि' रथा अस्मिन् वर्तन्ते इति रथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org