________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वाधन्तर्गता द्युतादयः खार्थिके के घुटिका गुल्फास्थि । 'रुटि लुटि लुठि प्रतिघाते' आद्यो दीप्तावित्यन्ये रोटते अरुटत् आरोटिष्ट के रुटः । वान्तोऽयमित्यन्ये लुटि लोटते अलुटत् अलोटिष्ट । 'लुट विलोटने' लोटति 'लुटच् विलोटने लुट्यति । अथ ठान्तः । लुठि लोठते अलुठत् अलोठिष्ट । 'लुठ उपघाते' लोठति 'लुठत् संश्लेषणे' लुठति । अथ तान्तः 'श्विताङ् वर्णे' श्वेतते शिश्विते अश्वितत् अश्वेतिष्ट आदित्त्वात् क्तयोर्नेट श्वित्तः श्वित्तवान् 'नवा भावारम्भे (४।४।७२) श्वेतितं श्वित्तमनेन प्रश्वित्तः ५ प्रश्वितितः । घनि श्वेतः। उणादौ 'ऋज्यजि०' (३८८) इति किति रे श्वित्रं कुष्ठभेदः । अथ दान्तात्रयः । 'भिमिदाङ् स्नेहने' स्नेहनं स्नेहयोगः । मेदते मिमिदे अमिदत् अमेदिष्ट बीत्त्वात् 'ज्ञानेच्छा०' (३।१।८६) इति वर्तमाने क्त मिन्नः, अत्रादित्त्वात् नेट् मिन्नवान् । 'नवा भावारम्भे' इति वेद प्रतिषेधे मिन्नमनेन मेदितमनेन प्रमिन्नः प्रमेदितः अत्रेटि नडीङिति कित्त्वप्रतिषेधाद्गुणः । लिहाद्यचि मेदः म्लेच्छः । मञ्जिभासीति घुरे मेदनशीलो मेदुरः । उणादौ चिमिदि० (४५४) इति १० त्रे मित्रम् । अस् ( ९५२) इत्यसि मेदः वसा 'त्रिमिदाच् स्नेहने' मेद्यति । 'मिदुण स्नेहने' मिन्दयति । 'जिश्विदाङ् निविदाङ् मोचने च' चकारात् स्नेहने, मिदावत् । क्ष्वेदते चिक्ष्विदे अश्विदत् अक्ष्वेदिष्ट दिवण्णः क्ष्विण्णमनेन श्वेदितमनेन प्रक्ष्विण्णः २ प्रक्ष्वेदितः २ । डान्तोऽयमित्येके क्ष्वेडो विषः, क्ष्वेडा रवः । 'बिक्ष्विदाच मोचने च' विद्यति । बिष्विदाङ् 'पः स.' (२।३।९८) इति सत्वे वेदते 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिष्विदे द्युताद्यडि १५ अस्विदत् अस्वेदिष्ट जीत्त्वात् सति क्ते स्विन्नः अत्रादित्त्वान्नेट् 'नवा भावारम्भे' (४।४।७२) इति स्विन्नमनेन (स्वेदितमनेन) प्रस्विन्नः प्रस्वेदितः । 'वौ व्यञ्जनादेः' (४।३।२५) इति क्त्वासनोर्वा कित्त्वे स्विदित्वा स्वेदित्वा सिस्विदिषते सिस्वेदिषते अत्र 'णिस्तोरेव.' (२।३।३७) इति नियमान्न पत्वम् ‘णिस्तोरेवेति स्विदेर्वर्जनाण्णौ सनि षत्वाभावे सिस्वेदयिषते । घबि स्वेदः । 'स्विदांच् गात्रप्रक्षरणे' खिद्यति । अथ भान्ताः पञ्च । 'शुभि दीप्तौ' शोभते अशुभत् अशोभिष्ट 'नाम्युपान्त्य०'२० (५।१।५४ ) इति के शुभम् । ( णौ) नन्द्यादित्वादने शोभनः । 'इङित०' (५।२।४४ ) इत्यने शोभनशीलो शोभनः । भिदादिनिपातनादङि शोभा । उणादौ ऋज्यजि० ( ३८८) इति किति रे शुभ्रः । 'शुभत् शोभार्थे' शुभति अत्र मुचादीति नः । 'क्षुभि सञ्चलने' सञ्चलनं रूपान्यथात्वम् । क्षोभते अक्षुभत् अक्षोभिष्ट 'क्षुब्धविरिब्धः' (४।४।७०) इति निपातनादिडभावे क्षुब्धो मन्थः क्षुभितोऽन्यः 'क्षुभच् सञ्चलने' क्षुभ्यति 'क्षुभश् सञ्चलने' क्षुम्नाति क्षुघ्नादित्वाण्णत्वाभावः । 'णभितुभि हिंसायाम्' 'पाठे.'२५ ( २।३।९७) इति नत्वे नभते णोपदेशत्वाद् ‘अदुरुपसर्ग०' (२।३।७७ ) इति णत्वे प्रणभते। अनभत् अनभिष्ट । उणादौ अस्० (१५२) इत्यसि नभः । अणोपदेशोऽयमित्येके । तुभि तोभते अतुभत् अतोभिष्ट ‘णभ तुभच हिंसायाम्' नभ्यति प्रणभ्यति तुभ्यति । 'णम् तुभश् हिंसायाम्' नन्नाति प्रणश्नाति तुम्नाति । 'सम्भूङ् विश्वासे' दन्त्यादिः । सम्भते सस्रम्भे अस्रभत् अस्रम्भिष्ट । ऊदित्वात् क्त्वि वेट स्रब्ध्वा सम्भित्वा । क्त्वेति सेटः कित्वात् 'नो व्यञ्जनस्य.' (४।२।४५) इति नलोपा-३० भावः । वेट्त्वात् क्तयोर्नेट विस्रब्धः विस्रब्धवान् । 'वेर्विच०' (५।२।५९) इति घिनणि विस्रम्भशीलो विस्रम्भी । घनि विस्रम्भः । हान्तोऽयमिति कौशिकः संहते । अथ शान्तः भ्रंशू संसूङ अवस्रंसने' । 'शिड्हे.' (१।३।४०) इत्यनुस्वारे भ्रंशते बभ्रंशे अभ्रशत् अभ्रंशिष्ट क्त्वि वेट भ्रष्ट्वा भ्रंशित्वा । वेट्त्वात् क्तयोर्नेट भ्रष्टः । संज्ञायां 'कुत्सित्०' (७।३।३३) इति कपि भ्रष्टकः भ्रष्टवान् । यङि 'वञ्चस्रंस' (४।१।५०) इति पूर्वस्यान्तो नीः बनीभ्रश्यते । तेऽनिट्वात् ३५
है. प्रका० उत्त० ७२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org