________________
५६८
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोप हैमलघु
अथ द्युतादयः कृपौङ्पर्यन्तात्रयोविंशतिरात्मनेदिनः सेटश्च वर्णक्रमेण वर्ण्यन्ते । तत्र पूर्वाचार्यानायानुरोधात्पूर्वं द्युतेः पाठः । द्युति दीप्ताविति इवित्त्वादात्मनेपदम् । विभक्तिचतुष्टयं स्पष्टम् । अद्यतन्यां सूत्रम्
युद्धयोऽयतन्याम् ॥ ११८ ॥ [ सि० ३।३।४४ ]
५ द्युतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा स्यात् । अद्योतिष्ट । पक्षे लदिद्युतादिपुष्यादेः परमै इत्यङ् । अतत् अद्योतिषाताम् अश्रुतताम् - अद्योतिषत - अद्युतन् । अद्योतिष्ठा:-अद्युतः अद्योतिषाथाम् अद्युततम् अद्योतिध्वम् २ अद्युतत । अद्योतिषम् अद्युतम् अद्योतिष्व - अद्युताव अद्योतिष्म - अद्युताम ५ ॥ ११८ ॥
यो बहुवचनं गणार्थम् । अद्योतिष्टेति पक्षे शेषात्परस्मायिति परस्मैपदे 'लदिद्युतादि०' १० ( ३।४।६४ ) इत्यङि अद्युतत् । एवं सर्वत्र रूप पद्धतिज्ञेया । अद्योतिध्वमित्यत्र परोक्षाद्यतन्याशिषो धो ढ इति धस्य ढत्वे अद्योतितमिति द्वितीयं रूपं द्विकेनाङ्केन सूचितमेवमन्यत्रापि ज्ञेयम् ॥ ११८ ॥ परोक्षायां सूत्रम् —
तेरिः ॥ ११९ ॥ [ सि० ४ ||४१ ]
तेर्द्वित्वे पूर्वस्य उत इः स्यात् । दिद्युते दिद्युताते दिद्युतिरे । दिद्युतिषे इत्यादि ६ । द्योतिषीष्ट १५७ । द्योतिता ८ | द्योतिष्यते ९ । अद्योतिष्यत १० । 'रुचि अभिप्रीत्यां च । रोचते इत्यादि । एवं द्युतादयस्त्रयोविंशतिस्तत्र वृतादिपञ्चतो विशेषः । ' वृतूङ् वर्त्तने' । वर्त्तते ४ | अवर्त्तिष्ट अवृतत् ५ । ववृते ६ | वर्त्तिषीष्ट ७ । वर्त्तिता ८ ॥ ११९ ॥
( ५।२।८३ )
० पूर्वस्य उतइति पूर्वावयवसम्बन्धिन उकारस्य इः स्यादित्यर्थः । शेषं स्पष्टम् । यङि त्यते लुप देतीति देद्योन्ति देयोन्तः देद्युतति । णौ ङे अदिद्युतत् । 'इङित ० ' ( ५|२| ४४ ) २० इत्यने द्योतनशीलो द्योतनः । किपि विद्युत् । ' दिद्युद्ददृद् ० ' इति निपातनात् दिद्युत् आयुधम 'वौ व्यञ्जनादे:' ( ४।३।२५ ) इति क्त्वासनोर्वा कित्त्वे द्युतित्वा द्योतित्वा । दिद्युतिप दिद्योतिषते । उणादौ तेरादेश्व जः (९९१) इतीसि ज्योतिः । स्वार्थिके (के) ज्योतिषका : सूर्यादयः । 'रुचि अभिप्रीत्यां च ' चकाराद्दीप्तौ अभिप्रीतिरभिलाषः । मैत्राय रोचते दधि । अत्र ' रुचि - कृप्यर्थ ० ' (२।२।५५ ) इति चतुर्थी । द्युतादित्वादङि अरुचत् अरोचिष्ट फलवत्कर्त्तरीगित इत्यात्मने - २५ पदेऽणिगि प्राणीति परस्मैपदेन बाधिते परिमुहेति पुनर्विहिते परिरोचयते मित्रं चैत्राय ' रुच्याव्यथ्य० ' ( ५।१।६ ) इति कर्त्तरि निपातनात् क्यपि रुच्यम् । भावे ध्यणि ते सेट्त्वात् कत्वाभावे रोच्यम् । क्ते रुचितः । 'भ्राज्यलङ्कृग' ( ५/२/२८ ) इतीष्णौ रोचनशीलो रोचिष्णुः । ' इङित ० ' इत्यनेन रोचनः । घञि न्यङ्कादित्वात् कत्वे रोक: । 'करणाधारे' ( ५|३ | १२९ ) इत्यनटि रोचनी दृषत् । यन्तान्नन्द्याद्यने रोचना वर्णजातिः । उणादौ य्वसिरसि ० (२६९) इत्यने रोचनः चन्द्रः । विरोचनः ३० सूर्यो दानवच । रोचना गोपित्तम् । रुक्मग्रीष्म ० ( ३४६ ) इति निपातनात् रुक्मं हिरण्यम्, रुक्मो वर्णः सोऽस्यास्तीति रुक्मिणी 'नाम्युपान्त्य ० ' ( ६०९) इति कि: रुचिः मत्वर्थे रे रुचिरम् । रुच्यर्चि ० ( ९८९ ) इतीसि रोचिः । वसुभी रोचते वसुरोचिः आदित्यः । अथ टान्तास्त्रयः । ' घुटि परि३३ वर्त्तने' घोटते जुघुटे अघुटत् अघोटिष्ट | णके घोटक: 'नाम्युपान्त्य ० ' ( ५।१।५४ ) इति
घुटः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org