________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः
५६७ प्रज्ञाद्यणि बाहः फलबञ्चितीने बर्हिणः बार्हिणः । बल्हि बल्हते बबल्हे बल्हिता 'हान्तस्थ०' (२।१८१) इति अद्यतन्यां धस्य वा ढत्वे अबल्हिट्वम् अबल्हिध्वम् उणादौ सृणीक० (५०) इतीके निपातनात् बाल्हीकः । पदिपठि० (६०७) इति इ. बल्हिः । बाहुलकाद्दीधै बाल्हयः । स्वार्थिके के बाल्हिका देशः क्षत्रियाश्च । 'वेहडू जेह वाह प्रयत्ने' वेहते विवेहे वेहिता अविवेहत् वेहदिति तु हन्तेः। विहन्ति गर्भमिति वेहद्गर्भनी गौः संश्चद्वेहत्० (८८२) इति निपातनात् । जेहङ् जेहते अजि-५ जेहत् । वाहृङ् वाहते अववाहत् 'क्षुब्धविरिब्धः' (४।४७०) इति क्ते निपातनादिडभावे बाढं भृशम् वाहितमन्यत् । 'द्रा निक्षेपे' निद्राक्षेपे इत्येके । दाहते दद्राहे द्राहिता अदद्राहत् । 'अहि वितर्के' ऊहते 'उपसर्गादस्योहो वा' (३।३।२५) उपसर्गात्पराभ्यामस्यत्यूहिभ्यां कर्त्त
र्यात्मनेपदं वा स्यात् विपर्यस्यते विपर्यस्यति । अस्येति स्यनिर्देशोऽस्त्यसतिनिवृत्त्यर्थः, इति वात्मनेपदे समूहति समूहते 'उपसगोंदूही हखः' (४।३।१०६) उपसर्गात् परस्य ऊहतेरूकारस्य १० क्लिति यकारादौ परे हवो भवति । इति किति यि हवे अभ्युह्यात् समुह्यात् । अभ्युह्यते । समुह्यते 'गुरुनाम्यादे०' (३।४।४८) इति परोक्षाया आमि ऊहाञ्चक्रे । सनि 'स्वरादे' (४।१।४ ) इति हेर्द्वित्वे ऊजिहिषते । क्ते अहितम् 'क्तेट.' इत्यः ऊहा । घनि उहः । गाह्धातुं वक्ष्यति । 'ग्लहौ ग्रहणे' ग्लहते जग्लहे औदित्त्वाद्वेट् ग्लाढा अत्र 'ढस्तड्डे' (१।३।४२) इति ढो लुक् पूर्वस्यातो दीर्घश्च, इटि ग्लहिता वेट्त्वात् क्तयोर्नेट् ग्लाढः ग्लाढवान् 'सृग्लहः प्रजनाक्षे (५।३।३१) इत्यलि अक्षाणां १५ ग्लहः पणः । अक्षविषयादन्यत्र पनि ग्लाहः । अयं गृहौ इत्येके । गर्हते गर्हिता गर्दा गृढः गृढिः गृहं गृहाः । 'बहु महुङ् वृद्धौ' उदित्त्वान्ने बहते उणादौ स्थावकिबंहि० (४८६) इति कित्युले नलुकि च बहुलः कृष्णपक्षः । बंहिवृहेर्नलुक् च (९९०) इतीसि बहिः। बहुः बाहुरिति तु मिवहि० ( ७२६) इति वा णित्यौ वहेः। महुङ् मंहते ममंहे मंहिता । महानिति तु महेः द्रुहिवृहि० (८८४) इति कर्तरि । महीत्यप्यस्यैव पदिपठि० (६०७) इति इप्रत्ययेऽजन्तस्य वा ड्याम् । 'बहुण महुण् २० भासार्थों बंयति । इति हान्ता अष्टादश सेटश्च । 'दक्षि शैघ्ये च' शैघ्यं शीघ्रता चकाराद्वृद्धौ, दक्षते अचि दक्षः उणादौ द्रुहि० (१९४ ) इति इणे दक्षिणः दक्षिणा । श्रुदक्षि० (३७३ ) इत्याय्ये दक्षाय्यः गरुडः । 'धुक्षि धिक्षि सन्दीपनक्लेशनजीवनेषु' । धुक्षते । मनि सुधुक्ष्मा । किप लुकि 'संयोगस्यादौ०' (२।११८८) इति को लुकि सुधुट क्ते सन्धुक्षितः । धिक्षि धिक्षते मनि सुधिक्ष्मा विपि सुधिट् । 'वृक्षि वरणे' वृक्षते ववृक्षे ( यङि ऋमतामिति री ) वरीवृक्ष्यते । अचि घधि वा वृक्षः । २५ मन्नादिषु धुक्षिवत् । शिक्षि विद्योपादाने' शिक्षते शिशिले शिक्षिता क्ते शिक्षितः 'क्तेट.' इत्यः । शिक्षा, णके शिक्षकः शिक्षयतीति तु शकेः सन्नन्तस्याजिज्ञासायां रूपम् , जिज्ञासायां तु शकेरप्यात्मनेपदमेव विद्यासु शिक्षते । 'भिक्षि याज्जायाम्' भिक्षते गां राजानम् । बिभिक्षे भिक्षिता 'सन् भिक्षा.' (५।२।३३) इत्युः भिक्षणशीलो भिक्षुः । वृभिक्षीति टाके भिक्षाकः भिक्षाकी । क्ते भिक्षितः । 'क्तेट०' इत्यः भिक्षा । घधि भिक्षः। केचिदलाभेलाभे चेत्याहुः। 'दीक्षि मौण्ड्येज्योपनयननिय-३० मव्रतादेशेषु' । मौण्ड्यं वपनम् । इज्या यजनम् । उपनयनं मौजीबन्धः । नियमः संयमः । व्रतादेशः संस्कारादेशः । दीक्षते दिदीक्षे 'इडित०' (५।२।४४) इत्यनस्य 'न णिज्य०' (५।२।४५) इति प्रतिषेधात्तृनि दीक्षिता ते दीक्षितः 'क्तेट ०' इत्यः दीक्षा। केचित्त 'दीक्षि मौण्ड्ये' 'ज्यो (s?)पनयनादिषु च' इति वृद्धपाठं भिन्दन्ति ज्यवते जीतः । ईक्षिधातुं वक्ष्यति । इत्यष्टौ क्षान्ताः सेटश्च । एतेषां च षान्तेषु पाठो युक्तो(पि) क्रमवैचित्र्यार्थं त्विह कृतः ।। ११७ ॥
इत्यात्मनेपदिनः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org