________________
५६६
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
इत्यत्र ध्वंसिसहचरितस्य द्युतादिसंसेर्ब्रहणादस्य यङि न्यभावे सास्रस्यते ' संसध्वंस ० ' (२|१|६८ ) इत्यत्र साहचर्यानाश्रयणादुभयोरपि ग्रहणात् किपि दत्वे उखास्रत् 1 भान्तोऽयमित्येके विस्रम्भते विस्रभ्यते । 'कासृङ् शब्दकुत्सायाम्' शब्दस्य कुत्सा रोगः । कासते 'दयायास् ० ' ( ३।४।४७ ) इति परोक्षाया आमि कासाञ्चक्रे ऋदित्वात् ङे हस्वाभावे अचकासत् । क्ते कासितम् । ५‘क्तेट०' इत्यः कासा । घञि कास: । विकास इति तु कसतेर्धनि । 'भासि हुआासि हुलासृड् दीप्त' भासते बभासे णौ ङे 'भ्राजभास ० ' ( ४। २ । ३६ ) इति वा हस्खे अबीभसत् अबभासत् महादित्वाणिनि उद्भासी । 'भञ्जिभासि ० ' ( ५/२/७४ ) इति घुरे भासनशीलो भासुरः । 'स्थेशभास ० (५/२८१ ) इति वरे भाखरः । ' दिद्युद्दहद् ० ' ( ५/२/८३ ) इति क्विपि भाः भासौ भासः । भेति तु मृगयेच्छेति निपातनादङि आपि च भातेः । क्ते भासितः । 'क्तेट ० ' इत्यः भासा । घनि १० उद्भासः । उणादौ तृजिभूवदि० (२२१ ) इत्यन्ते भासन्तः । णौ आमन्तेत्ययि भासयन्तश्च सूर्यः ।
/
I
सि 'सभ्लास ०' (३।४।७३ ) इति वा श्ये भ्रास्यते भ्रासते 'भ्रम ० ' ( ४।१।२६ ) इति वा स्वरस्यैत्वे द्वित्वाभावे च से बभ्रासे । णौ ङे 'भ्राजभास ०' इति बहुवचनाद्वा हस्खे अबिभ्रसत् अबभ्रासत् । द्वित्त्वादथौ भ्रासथुः । एवं दुभ्लासृड् भ्लास्यते भ्लासते भ्लेसे बभ्लासे णौ ङे न ह्रस्वः अबभ्लासत् । भ्लासथुः ॥ 'रासृङ् णासृङ् शब्दे रासते ररासे । ङे अररासत् 'नानि पुंसि च ' १५ ( ५।३।१२१ ) इति णके रासकः । उणादौ कृगृ० ( ३२९ ) इत्यभे रासभः । रास्ना रस्नेति रसेर्णिद्वेति ने रसते: (२६०) । णासृङ् 'पाठे धात्वादे० ' ( २।३।९७ ) इति नत्वे नासते । णोपदेशत्वात् 'अदुरुपसर्ग०' (२।३।७७ ) इति णत्वे प्रणासते, ननासे । ऋदित्वात् अननासत् अचि नासा के नासिका। ‘भ्यसि भये' भ्यसते बभ्यसे । भेषृ इति चन्द्रः । भेषते । 'आङः शसुङ् इच्छायाम्' । आङः इति, आङः पर एवायं प्रयुज्यते, नान्योपसर्गान्नापि केवल इति ज्ञापनार्थम् । उदित्वान्ने आशंसते २० आशंस्यते आशशंसे । 'केट ० ' इत्यः आशंसा । सनभिक्षेत्युः आशंसुः । प्रशस्यते शस्त्रम् (प्रशस्तम् ? ) । प्रशंसेति तु शंसू स्तुतावित्यस्य । 'ग्रसूङ् ग्लसूङ् अदने' प्रसते जसे । यङि जाग्रस्यते । यङ्लुपि जाग्रसीति जाग्रस्ति । ऊदित्त्वात् क्त्वि वेट् ग्रस्त्वा ग्रसित्वा । वेदत्वात् क्तयोर्नेट् ग्रस्तः प्रस्तवान् । घनि नासः । उणादौ प्रसिहाग्भ्यां प्राजिहौ च ( ३३९ ) इति मे ग्रामः । रुक्मग्रीष्म ० ( ३४६ ) इति निपातनात् प्रीष्मः । एवं ग्लसूङ् ग्लसते जग्लसे ग्लस्त्वा ग्लसित्वा । वेदत्वात् क्तयोर्नेट् ग्लस्तः २५ ग्लस्तवान् । घनि ग्लासः । 'घसुङ् करणे' उदित्वाने घंसते जघंसे । मूर्द्धन्योऽयमिति चन्द्रः घषते । इति सान्तास्त्रयोदश सेटञ्च ॥ १३ ॥ ईहि धातुं वक्ष्यति । 'अहुङ् प्लिहि गतौ' अंह आनं अंहिता । उणादौ अम्भिकुण्ठि० ( ६१४ ) इति इर्न लुक् च अहिः । तङ्किवङ्कि० (६९२ ) इति रौ अंह्निः । अस् ( ९५२ ) इत्यसि अंहः पापम् अमेर्वा, अमेर्भहौ चान्तौ ( ९५२।६२ ) इत्यसि । `अह्रुण् भासार्थः' अंहयति । लिहिलेह पिप्ले । उणादौ श्वन ० ( ९०२ ) इत्यनि निपातनात् ३० प्लीहा । 'गर्हि गल्हि कुत्सने' गर्हते जगर्हे गर्हिता जागर्ह्यते । मनि सुगा । वनि सुगर्खा । स्त्रियां “क्तेट०' इत्यः गर्हा । श्र्वादिभ्य इति क्तौ गर्दिः । घञि गर्हः । विपि 'रात्सः ' (२।१।९० ) इति नियमात् संयोगान्तलोपाभावे सुघर्ट् 'गर्हण विनिन्दने' युजादित्वाद्वा णिचि गर्हति गर्हयति । गल्हि गल्हते जगल्हे यङि जागल्ह्यते मन्नादिषु पूर्ववत् । 'वर्हि वल्हि प्राधान्ये' वर्हते व अचि वर्हः प्रधानभूतः मुनिप्रवर्हः । वल्हि वल्हते ववल्हे चुरादौ वर्हयति वल्हयति । 'बर्हि बल्हि परिभाषण३५ हिंसाच्छादनेषु' । दानेऽप्यन्ये । ओष्ठयादी एतौ । पूर्वौ तु दन्त्यौष्ट्यादी बर्हते बबर्हे बर्हिता पनि बर्हः
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org