________________
५६५
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः अदिदेवत् यङि तेतेव्यते यङ्लुपि तेतेवीति देदेवीति पक्षे 'अनुनासिके च०' (४।१।१०८) इति वस्योटि गुणे च तेतयो(वो)ति देदयो(वो)ति । कित्येवोङिति पक्षे 'य्वोः' (४।४।१२१) इति वलुपि तेतेति देदेति । मनि 'अनुनासिके च.' इति वस्योटि गुणे च सुतयोमा सुदयोमा । वनि 'वो'रिति वलुकि सुतेवा । क्विपि ऊटि सुतयूः। विचि 'वो'रिति वलुकि सुतेः । क्तेरपवादः 'क्तेटो' (५।३।१०६) इत्यः तेवा देवा । 'परेदेवि०' (५।२।६५) इति घिनणि परिदेवी । 'उपसर्गादेवृदेवि०' (५।२१६९) इति णके ५ आदेवकः । उणादौ ऋच्छिचटि० (३९७) इत्यरे देवरः मृदिकन्दि० (४६५) इत्यले देवलः ऋषिः । देवट इति तु ( दीव्यतेः ) दिव्यवि० (१४२ ) इयटे । पेवृप्रभृतीन दश वक्ष्यति । रेवृडू पवि गतौ' रेवृङ् प्लुतिगतावित्यन्ये, प्लुतिभिर्गतिः प्लुतिगतिः । रेवते डे अरिरेवत् 'नाम्युपान्त्य०' (५।१।५४) इति के रेवा नर्मदा । उणादौ तजि० (२२१) इत्यन्ते रेवन्तः सूर्यपुत्रः । रेवती तु रीयतेविचि मतौ ङ्यां रूपं भवति । पवि पवते 'इङित.' (५।२।४४) इत्यने पवनः ।१० इति वान्ताश्चतुर्दश सेटश्च ॥ १४ ॥ 'काशृङ्क दीप्तौ' काशते डे अचकाशत् अचि काशः आकाशः सङ्काशः प्रकाशः 'नामिनः काशे' (३।२।८७) इति दीर्घ प्रतीकाशः नीकाशः । घत्रि काशः । उणादौ वनिकणि० ( १६२) इति ते काष्ठम् । पदिपठि० (६०७) इति इः काशिः। 'क्लेशि विबाधने क्लेशते क्ते क्लेशितः ‘क्तेट' इत्यः क्लेशा घत्रि क्लेशः । इति शान्तौ द्वौ सेटौ च ॥ २ ॥ 'भाषि च व्यक्तायां वाचि' प्रकृतेः परश्चकारः प्रकृतिमनुकर्षति तेन क्लेशि भाषिश्च व्यक्तायां वाचि । क्लेशि-१५ रुदाहृत एव । भाषि भाषते । णौ डे 'भ्राजभास' (४।२।३६) इति वा हवे अबीभषत् अबभाषत् । क्ते भाषितः 'क्तेट०' इत्यः भाषा । घधि भाषः । ध्यणि भाष्यत इति भाष्यम् करणे वा बहुलमिति घ्यण् 'निन्दहिंस.' (५।२।६८) इति णके व्याभाषणशीलो व्याभाषकः । 'ईषि गतिहिंसादर्शनेषु' ईषते 'गुरुनाम्यादे.' ( ३।४।४८) इति ईषाश्चक्रे ईषितः 'क्तेट०' इत्यः ईषा 'नाम्युपान्त्य०' ( ५।१।५४ ) इति के वा रूपम् । उणादौ ऋच्य॒जि० (४८) इति ईके ईषीका काशः ।२० इषीकेति तु 'इषत् इच्छायाम्' इत्यस्य इषुरपीच्छतेः । पकाहृषि० (७२९) इति कित्यौ रूपम् 'ईष उन्छे' ईषति । 'गेष अन्विच्छायाम्' अन्विच्छा अन्वेषणम् । गेषते जिगेषते अजिगेषत् । 'येष प्रयत्ने' येषते अयियेषत् । 'जेङ णेष एष हेषङ्ग गतौ' जेषते अजिजेषत् । णेङ् 'पाठे धात्वादेः०' (२।३।९७) इति नत्वे नेषते । णोपदेशत्वात् 'अदुरुपसर्ग०' (२।३।७७) इति णत्वे प्रणेषते । निनेषे अनिनेषत् । नेष्टेति नयतेर्नियः पादादिरिति तृप्रत्यये रूपम् । एपृङ् एषते अन्वेषते एषा-२५ श्वके 'स्वरादेर्द्वितीयः (४।१।४) इति षेर्द्वित्वे अन्वेषिषते। ऋदित्त्वात् डे न ह्रस्वः मा भवानेषिषत् । अत्राप्योणेरेव ऋदित्करणेन नित्यस्यापि द्वित्वस्य हवेन बाधादहस्वस्य प्राप्तिः। क्ते अन्वेषितः । अन्विष्ट इति विच्छतेः । हृषङ् द्वेषते जिह्वेषे अजिह्वेषत् क्ते हृषितः क्तेट०' (५।३।१०६) इत्यः द्वेषा । 'रेषा हेष अव्यक्ते शब्दे' रेषते रिरेषे अरिरेषत् 'क्तेट०' इत्यः रेषा । हेषते जिहेषे। क्ते हेषितम् । अजिहेषत् हेषा । पर्षि स्नेहने पर्षते पपर्षे । क्विपि तल्लुकि 'रात्सः' (२।१।९०) इति नियमात् ३० 'पदस्य' (२।११८९) इति लोपाभावे सुपर्द । पाणिरिति तु पृषिहृषिभ्यां वृद्धिश्च (६३६) इति णौ । पर्षदित्यपि पृणातेः प्रासद् (८९७ ) इति सदि । परिषदिति तु परिपूर्वात् सीदतेः किपि । 'धुषुङ् कान्तीकरणे' उदित्वान्ने धुंषते जुपुंषे धूषिता । इति षान्ता द्वादश सेटश्च ॥ १२ ॥ 'रसुंडू प्रमादे' दन्त्यादिः प्रमादोऽवलेपः संसते सस्रंसे क्ये स्रस्यते ऊदित्त्वात् क्त्वि वेट स्रस्त्वा । इटि क्त्वेति कित्त्वाभावे संसित्वा । वेट्त्वात् क्तयोर्नेट् स्रस्तः सस्तवान् ‘वश्वस्रस्र०' (४।११५०)३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org