________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुठ्यादिरयम् । 'बल प्राणनधान्यावरोधयोरिति त्वौष्ठ्यादिः बलति' । 'वर्षादयः क्लीबे' (५।३।२९) इत्यलि बलम् । वा ज्वलादीति णे बालः अचि बलः । उणादौ शलिबलि. (३४) इत्याके बलाका । बलेर्वोन्तश्च वा (१३३) इत्यजे बल्वजः उलपः । बल्वजा सबुसो धान्यविशेषः । विष्टपोलप० (३०७) इत्यपि निपातनात् उलपः । 'वलण् प्राणने' घटादिश्चेत्येके वलयति । वल्लि वल्लते ववल्ले ५वल्लिता ते वल्लितः क्ते सेट्त्वात् 'क्ट' (५।३।१०६) इत्यः वल्ला अचि वल्लः कृशग० (३२९) इत्यभे वल्लभः मीमसि० (४२७) इत्यूरे वल्लूरं शुष्कमांसम् । वडिवटि० (५१५) इत्यवे वल्लवो गोपालः । पदिपठि० (६०७) इति इ. वल्लिः लता नदिवल्लि० (६९८) इत्यरौ वल्लरिः मञ्जरी । 'शलि चलने च' चकारात्संवरणे । तालव्यादिः । शलते शेले शलिता उणादौ भीण्शलि.
(२१) इति के शल्कः शरणम् शलिवलि० (३४) इत्याके शलाका शल्यर्णित् (५९) इति उके १० शालूकः बलवान कृशग० (३२९) इत्यभे शलभः । स्थाछामा० (३५७ ) इति ये शल्यम् यावादि
त्वात्के शल्यकः । मृदिकन्दि० (४६५) इत्यले शललं श्वावित्सूची । शलमिति त्वचि । कमिवमि० (६१८ ) इति णिदिः शालिः शलेराटुः ( ७६३ ) शलाटुः ( कोमलं फलम् लजीयिशलेरालुः (८२२) शलालुः ) वृक्षावयवः । 'शल गतौ' तालव्यादिः ज्वलादिः शलति । वा ज्वलादीति णे शाला । अचि
शलं श्वाविद्रोम । 'मलि मल्लि धारणे' मलते मेले मलिता अचि मलः । कर्मणि घत्रि माला उणादौ १५ कुगुवलि० (३६५) इत्यये मलयो गिरिः । महिकणि० (४२८) इत्यूरे मालूरः बिलवः । चुरादे
राकृतिगणत्वाधुरादावदन्तः मलयति अचि परिमलः । मल्लि मल्लते ममल्ले अचि मल्लः गौरादित्वात् ड्यां मल्ली विचकिलः । णके मल्लकः स्त्रियां मल्लिका उणादौ दृकृनु० (२७) इत्यके मल्लकः शरावः मल्लिका विच किलः शरावश्च । “भलि भल्लि परिभाषणहिंसादनेषु' भलते बभले भलिस्थाने
ओष्ठ्यादि बलिमेके पठन्ति । बलते 'अनादेशादे०' (४।१।४) इत्येत्वद्वित्वाभावयोः बेले । २० भलिण आभण्डने' निभालयते उणादौ मृमन्यञ्जि० (५८) इत्यूके भालूकः ऋक्षः । भल्लि भल्लते
बभल्ले करणे 'व्यञ्जनाद्' (५।३।१३२) इति घनि भल्लः क्षुरप्रः । उणादौ कणिभल्लेर्दीर्घश्च वा (६०) इत्यूके भल्लूको भाल्लूकश्च ऋक्षः । पदिपठि० (६०७) इति इ: भल्लिः । 'कलि शब्दसयानयोः' कलते आकलते सङ्कलते परिकलते प्रत्याकलते विकलते । चकले । अचि कलः । कर्मणि
घत्रि कालः । 'तिकृतौ नाम्नि' (५।११७१) इत्यके कलिका उणादौ भीण्शलि. (२१) इति के २५ कल्कः दम्भः क्रीकलि० (३८) इतीके कलिका कोरकम् उत्कलिकोम्मिः । कलम इति तु 'कडत् मदे' इत्यस्य सृपप्रथि० (३४७) इत्यमे डस्य लत्वे च सिद्धम् । स्थाछामा० (३५७) इति ये कल्यं प्रातः । कुलिलुलि० (३७२) इत्याये कुलायः त्रिपुटधान्यम् । मृदिकन्दि० (४६५) इत्यले कललं शुक्रशोणितमलः कल्यनिमहि० (४८१ ) इतीले कलिलं व्याप्तम् । ऋपूनहि० (५५७) इत्युषे कलुषं पापम् । कलेर्मषः (५६२) कल्मषं पापम् । कुलेश्वमाषक (५६३) कुल्माषः शबलः । 'कलिकु३० लिभ्यां मासक् (५८४ ) कल्मासः शबलः । पदिपठि० (६०७) इति इ. कलिः । 'कलण्
क्षेपे' कालयति अचि कालः, 'णिवे' (५।३।१११) इत्यने कालना। स्वरेभ्यः (६०६) इति इ: कलिः । कालिकेति तु कालाचौराद्यकत्रि । 'कलण सङ्ख्यानगत्योः' अदन्तः कलयति कलना । भीषीभूषीत्यत्र बहुवचनादडि कला । 'कल्लि अशब्दे' शब्दस्याभावोऽशब्दत्वं तूष्णीम्भावः शब्दार्थोऽयमित्येके ।
अव्यक्तशब्दार्थ इत्यपरे । कल्लते चकल्ले अचि कल्लः उणादौ पिछोलकल्लोल० (४९५) इत्योले कह .. ३५ इति लान्ता नव सेटश्च ॥ ९॥ 'तेवृङ् देवृङ् देवने' तेवते देवते ऋदित्त्वात् डे न ह्रस्वः अतितेवत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org