________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादय आत्मनेपदिनः
५६३ राभस्ये' राभस्य कार्योपक्रमः 'रभोऽपरोक्षाशवि' (४।४।१०२) रभतेः स्वरात्परः परोक्षा शव्वर्जिते स्वरादौ प्रत्यये परे नोऽन्तः स्यात् । इति शवपरोक्षयोर्वर्जनान्नस्याभावे आरभते । अद्यतन्यां आरब्ध आरप्साताम् आरप्सन्त । आरेभे । अनुस्वारेत्वान्नेट् आरब्धा । 'रभलभ०' (४।१।२१) इति स्वरस्येत्वे द्वित्वाभावे च आरिप्सते । घषि आरम्भः, णौ आरम्भयति, णके आरम्भकः, 'साधौ' (५।१११५५) इति णिनि साध्वारम्भी 'रुणम् चाभीक्ष्ण्ये' (५।४।४८) इति णमि आर-५ म्भमारम्भं याति । अचि रम्भः स्त्रियां रम्भा अनटि आरम्भणम्। एषु रभोपरोक्षेति नः 'शकितकि०' (५।१।२९) इति ये रभ्यम् आरभ्यम् संरभ्यम् । 'शकधृष०' (५।४।९०) इति तुमि आरभते भोक्तुम् । उणादौ दिवादि० (५७२) इति कित्यसे रभसः निर्विचारा प्रवृत्तिः । लभूधातुं पुरस्ताद्वक्ष्यति । इति भान्ताः सप्तदश सेटश्च ॥ १७ ॥ "भामि क्रोधे' भामते बभामे भामिता यडि बाभाम्यते । अत्र अतःपरस्यानुनासिकस्याभावात् 'मुरत०' (४।११५१) इति मुरन्तो न भवति ये १० त्वत इति पूर्वस्य विशेषणं प्रतिपन्नास्तन्मते मौ बम्भाम्यते । यङ्लुपि वस्मसोर्मो न इति मस्य नत्वे बाभान्वः बाभान्मः बम्भान्वः बम्भान्मः किपि (पदान्ते) मो नत्वे प्रभान 'नानो नोऽनह्नः' (२।१।९१) इति न लुग् न भवति नत्वस्यासिद्धत्वात् । आवश्यके णिनि भामिनी । घबि भामः । उणादौ पञ्चमाडुः (१६८) इति डे भाण्डम् । 'क्षमौषि सहने' 'कमूडू कान्तौ' इमौ धातू वक्ष्यति । इति मान्तात्रयः सेटश्च ॥ ३॥ अयिप्रभृतीन सप्त वक्ष्यति । तयि णयि रक्षणे च' १५ चकाराद्गतौ, तयते तयिता 'णिन् चावश्यके' (५।४।३६) इति णिनि तायी। णयि 'पाठे धात्वादेः०' (२।३।९७) इति णस्य नत्वे नयते णोपदेशत्वाद् 'अदुरुपसर्गान्तरं०' (२।३।७७) इति णत्वे प्रणयते। नेये नयिता । मनादिषु पूर्ववत् । दयिधातुं वक्ष्यति । 'ऊयैङ्क तन्तुसन्ताने' ऊयते ऊयाश्चक्रे ऊयिता ऐदित्त्वाक्तयोर्नेट् ऊतः ऊतवान् , मनि यलुकि गुणे च खोमा। एवं वनादिष्वपि । 'पूयैङ् दुर्गन्धविशरणयोः' पूयते क्तयोर्नेट् पूतः पूतवान् अचि पूयः । खियां गौरादित्वात् डयां पूयी। क्तौ पूतिः । अत्र २० केऽनिट्त्वात् 'क्तेट०' (५।३।१०६ ) इत्यप्रत्ययो न भवति । उणादौ दृमृषि० (६५१) इति किति तौ पूतिः दुर्गन्धिः । 'नयैङ् शब्दोन्दनयोः' उन्दनं वेदनम् दुर्गन्धेऽपीयेके, क्रूयते चुक्तये नूतः नूतवान् णौ 'अर्ति०' (४।२।२१) इति पौ 'पुस्पौ' ( ४।३।३) इति गुणे च 'य्वोः०' (४।४।१२१) इति यलुकि च नोपयति । 'चेलार्थानोपेः' (५।४।५८) इति णमि चेलकोपं वृष्टो मेघः । 'न णिय.' (५।२।१५) इति प्रतिषेधादनाभावे तृनि नूयनशीलः लूयिता । 'क्ष्मायै विधूनने' क्ष्मायते २५ चक्ष्माये क्ष्मायिता (ऐदित्त्वात् ) क्तयोर्नेट क्ष्मातः मातवान् णौ 'अर्ती'ति पौ 'य्वो' रिति यलुकि क्ष्मापयति तृनि पूर्ववत् क्ष्मायिता । 'स्फायै ओप्यायैङ् तागृङ् एतान्पुरस्ताद्वक्ष्यति । इति यान्ताः सप्तदश सेटश्च ॥ १७ ॥ 'वलि वल्लि संवरणे वलते 'अनादेशादे' (४।१।२४) इत्येत्वद्वित्वाभावयोः 'नशस०' (४।१।३०) इति निषेधात् ववले वलिता क्ते उपोद्वलितः अचि वलः कुत्सितो वलः कुवलः स्त्रियां गौरादित्वात् ड्यां कुवली बदरी घमि वालाः केशाः । कल्याणा वाला३० यस्या इति क्रोडादित्वादसहनबिति ड्यभावे कल्याणवाला, श्वेतवालीति जातिवाचिनः 'पाककर्ण.' ( २।४।५५) इति ङयां सिद्धम् । उणादौ भीण्शलि० (२१) इति के वल्कम् । स्यमिकषि० (४६) इति ईके वलीकं नीव्रम् । सृणीकास्तीक० (५०) इति ईके निपातनात् वल्मीकः नाकुः । कुगुवलि.
(३६५) इत्यये वलयः कटकः । वलिपुषेः कलक् (४९६) वल्कलम् वलकं लातीति डे वा .. वल्कलम् । पदिपठि० (६०७) इति इ. वलिः । फलिवलि० (७५८) इति गौ वल्गुः । दन्यो-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org