________________
५६२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुउल्लम्बते विलम्बते इत्यनेकार्थत्वमुपसर्गयोतितमन्यत्राप्युदाहार्यम् । णके लम्बिका त्रिकटा। विलम्बिका शकृद्विलम्बः । अचि लम्बः । उणादौ नबो लम्बेर्न लुक च (८३८) इति णिदूः अलाबूः । अलम्बुसेति त्वलतेरम्बुसे (५८५) अलम्बुसा नाम शाकम् । 'कबृङ् वर्णे' वः वर्णनं शुक्लादिश्च । कबते चकबे कविता। ऋदित्त्वाद् डे न हवः अचकावत् । ध्यणि काव्य(ब्य?)म्। उणादौ जठर० (४०३) ५इत्यरे कबरः कबरी । पदिपठि० (६०७) इति इः कविः । कर्बुर इति तु कर्बेरोष्ट्यान्त्यस्य वाश्यसि० (४२३) इत्युरे । 'कीबृक अधाय' क्लीबते चिल्लीबे । डे अचिक्लीबत् 'नाम्युपान्त्य०' (५।१।५४) इति के क्लीबम् । 'क्षीबृङ् मदे' क्षीबते चिक्षीबे अचिक्षीबत् 'नाम्युपान्त्यः' इति के क्षीबः प्रक्षीवः । क्तयोः 'अनुपसर्गाः क्षीब०' (४।२।८०) इति निपातनात् क्षीबः क्षीबवान् , उपसर्गात्तु प्रक्षीबितः प्रक्षीवित
वान् । एते च कबृङादयो यद्यपि दन्त्यौष्ठ्यान्ता अपि काव्यादिशब्देषु श्रूयन्ते तथापि वृद्ध१० ठ्यान्त्यमध्ये पठितत्वादस्माभिस्तथैव पठिताः । इति बान्ताः षट् सेटश्च ॥ ६ ॥ 'शीभृङ् वीभृङ
शल्भि कत्थने' शीभते अशिशीभत् ऋच्छिचटि० (३९७) इत्यरे शीभरः हस्तिहस्तमुक्तो जललवः । वीभृङ् वीभते । शल्भि शल्भते अशशल्भत् । त्रयोऽपि क्ते सेट इति 'क्तेट०' ( ५।३।१०६) इत्यः शीभा वीभा शल्भा । 'वल्भि भोजने' वल्भते घबि वल्भः 'क्तेट.' इत्यः वल्भा । 'गल्भि धार्चे गल्भते अचि प्रगल्भः 'क्तेट०' इत्यः प्रगल्भा। प्रगल्भ इवाचरतीति गल्भक्लीबहोडात्त्विति ङिति १५ किपि 'धातोरनेकखरात्०' (३।४।४६) इति परोक्षाया आमि प्रगल्भाञ्चक्रे किपो ङित्त्वादात्मने
पदम् ॥ 'रेभृङ् अभुङ् रभुङ् लभुङ् शब्दे' रेभते 'क्षुब्धविरिब्ध०' (४।४७०) इति निपातनात् विरिब्धः स्वरः, विरेभितमन्यत् । ऋदित्त्वाण्णौ डे ह्रस्वाभावे' अरिरेभत् । अभुङ् अम्भते 'अनात.' (४।१।६९) इति आनम्भे । अम्भ इति अमेर्भही चान्तावित्यमते रूपम् । रभुङ् रम्भते
अचि रम्भा कदली । करम्भः दधिसक्तवः । ते रम्भितः । लभुङ लम्भते ललम्भे ते लम्भितः अचि २० पनि वा लम्भः ॥ 'ष्टभुङ् स्कमुष्टुभूङ् स्तम्भे' । स्तम्भः क्रियानिरोधः 'षः स.' (२।३।९८) इति सत्वे उदित्त्वाने च स्तम्भते तस्तम्भे अचि घनि वा स्तम्भः। अङप्रतिस्तब्धनिस्तब्ध इति षत्वे विष्टम्भः। 'अवाञ्चाश्रयोर्जाऽविदूरे' (२।३।४२) अवष्टम्भते दण्डम् अवष्टम्भते शूरः । अवष्टब्धे सेने 'उदः स्था०' (१।३।४४) इति सलुकि उत्तम्भते । णौ सनि षत्वे तिष्टम्भयिषते । टपरः षकारोऽयमित्येके, तन्मते टिष्टम्भयिषते टाष्टम्भ्यते विष्टम्भ्यते । स्तभ्यते इति तु स्तनातेः ॥ स्कभुङ २५स्कम्भते स्कम्भ्यते चस्कम्भे स्कम्भिता । विष्कभ्यते इति तु स्कनातेः । 'स्तम्भू स्कम्भू सौत्रौ स्तः' स्तनाति स्तनोति 'स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोःभा च' (३।४।७८) स्तम्भ्वादिभ्यः सौत्रेभ्यो धातुभ्यः स्कुगश्च कर्तरि विहिते शिति स्ना नुश्चप्रत्ययौ पर्यायेण भवंत इति द्वैरूप्यम् । एवं स्कन्नाति स्कन्नोतीत्यपि । वेः 'स्कन्नः' (२।३।५५) इति षत्वे विष्कन्नः। ष्टुभूङ् 'षः स०' (२।३।९८) इति षत्वे स्तोभते दोषः। षोपदेशात्पत्वे तुष्टुभे 'उपसर्गात्सुग्०' (२।३।३९) इति षत्वे अभिष्टोभते । ऊदित्त्वादू३० दितो वेति क्त्वि वेट् स्तुब्ध्वा । इटि 'वौ व्यञ्जनादेः' (४।३।२५) इति वा कित्त्वे स्तुभित्वा स्तोभित्वा । वेट्त्वात् क्तयोर्नेट् स्तुब्धः स्तुब्धवान् । घनि स्तोभः । उणादौ ककुप्० (९३२) इति कर्मणि क्विपि त्रिष्टुप् अनुष्टुप् । स्तम्भू इति सौत्रस्य स्तुनाति स्तुभ्नोति । 'जभुङ् जभैङ् जुभुङ् गात्रविनामे' जभुङ् जम्भते जम्भ्यते जजम्भे ते जम्भितः अने जम्भनः । जभैङ् 'जभः स्वरे' (४।४।१००) इति ने जम्भते । ऐदित्त्वात्क्तयोर्नेट जब्धः जब्धवान् । जुभुङ् जृम्भते जजृम्भे जृम्भिता ३५जम्भितः जृम्भितवान् क्ते सेट्त्वात् 'क्तेट०' (५।३।१०६) इत्यः जृम्भा । घनि जुम्भः । 'रभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org