________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादय आत्मनेपदिनः धर्मम् 'शंसिप्रत्ययात्' (५।३।१०५) इत्यः मीमांसा । अर्थान्तरे घनि मानः । अनटि माननम् । णौ मानयति । उणादौ मावावदि० (५६४) इति मांसम् मानिभ्राजे क् च ( ८५९) इति तृः माता 'मानण् पूजायाम्' 'युजादेर्नवा' (३।४।१८) इति वा णिचि मानयति मानति । इति नान्तौ द्वौ सेटौ २ । 'तिपृ ष्टिपङ ष्टेपृङ्ग क्षरणे तेपते तितेपे । तेपिता, आगमशासनमनित्यमितीडभावे तेप्ता । णौ डे अतितेपत् 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्त्वासनोर्वा कित्त्वे तिपित्वा तेपित्वा, ५ तितिपिषते तितेपिषते । ष्टिपृङ् ष्टेपृङ् ‘घः स०' (२।३।९८) इति सत्वे स्तेपते २ । पोपदेशात्पत्वे तिष्टिपे तिष्ठेपे । णौ डे अतिष्टिपत् अतिष्टेपत् । क्ते स्तिपितः स्तेपितः । 'तेपृङ कम्पने च' चकारात्क्षरणे तेपते तितेपे तेपिता अतितेपत् 'टुवेपृङ् केपृङ्गे पङ कपुङ चलने' वेपते विवेपे अविवेपत् ट्वित्त्वादथौ वेपथुः 'न ख्यापूगभूभाकमगमप्यायवेपो णेश्च' (२।३।९०) इति वक्ष्यमाणप्रतिषेधाण्णस्वाभावे प्रवेपनम् । उणादौ विपिनाजिनादयः ( • ८४ ) इतीने निपातनात् विपिनं गहनम् । केपृङ् १० केपते चिकेपे अचिकेपत् । गेपृङ् गेपते जिगेपे अजिगेपत् । कपुङ् उदित्त्वान्ने 'म्नां धुड्वर्गे.' ( १।३।३९) इति मत्वे कम्पते चकम्पे कम्पिता 'चल्याहारार्थे ' ( ३।३।१०८) इति फलवत्कतैर्यपि ण्यन्तात्परस्मैपदम् कम्पयति शाखाम् 'गतिबोध०' (२।२।५) इत्यणिक रत्र कर्मत्वम् भीष्यादिभ्योऽप्रत्ययेनैव भीषादिसिद्धावविधानं णिलुकोऽनित्यत्वज्ञापनार्थम् , तेनाचि णेर्गुणे कम्पया 'लङ्गिकम्प्यो०' (४।२।४७) इति नलुकि विकपितः । अङ्गविकृतेरन्यत्रेदित्त्वान्नलोपाभावे कम्पितः१५ शीलाद्यर्थविवक्षायां चालशब्दार्थादित्यने कम्पनः 'स्म्यजस.' (५।२७९) इति रे कम्प्रः । 'क्तेट०' (५।३।१०६) इत्यः कम्पा । उणादौ अम्भिकुण्ठि० (६१४ ) इति इनलुक् च कपिः । कपोल इति कपेः सौत्रस्यौले (४९३)। 'केपृगपृङौ गतावपि' । 'ग्लेपृङ् दैन्ये च' चकाराञ्चलने, गतावप्यन्ये । ग्लेपते जिग्लेपे ग्लेपिता । ऋदित्वात् डे न ह्रस्वः अजिग्लेपत् । 'मेप रेपक लेपृङ्ग गतौ' मेपते मिमेपे डे अमिमेपत् एवं रेपते रिरेपे डे अरिरेपत् रेपः शब्देऽपीत्येके। 'लेपते लिलेपे अलिलेपत् ।२० देशान्तरप्राप्तिहेतुर्गतिस्तत्रैव स्थितस्य स्यन्दनं चलनमिति पृथगेषां पाठः । हेपृङ्ग चेति कौशिकः। त्रपौषि लज्जायाम् । त्रपते 'तृत्रपफल.' (४।१।२५) इत्येत्वे द्वित्वाभावे च त्रेपे । औदित्वाद्वेट् त्रप्ता त्रपिता 'वेटोऽपतः' (४.४।६२) इति क्तयोर्नेट त्रप्तः त्रप्तवान् 'आसुयुवपि०' (५।१।२०) इति यापवादे ध्यणि अपत्राप्यम् । 'भ्राज्यलग्०' (५।२।२८) इति इष्णावपत्रपाशीलादिः अपत्रपिष्णुः । षित्वादडि त्रपा अपनपा । उणादौ भृमृतृ० (७१६) इत्युः त्रपुः । 'गुपि गोपनकुत्सनयोः' २५ गर्हायां सनि जुगुप्सते । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति, यं समुदायं सोऽवयवो न व्यभिचरति । न व्यभिचरति च गुपिर्गर्हायां सन्नन्तसमुदायमितीडित इत्यात्मनेपदम् 'स्वार्थ' (४।४।६०) स्वार्थे विहितस्य सन इड् न भवति इतीडभावः । इच्छासन्नन्तादेव सनो निषेधात् 'तुमर्हात्' (३।४।२१) इति जुगुप्सिषते 'शंसिप्रत्ययात्' (५।३।१०५) इत्यः जुगुप्सा । गर्हाया अन्यत्र सनोऽभावे अर्थान्तरेऽपि प्रायेण त्यादयो नाभिधीयन्ते इत्यत्र प्रायोग्रहणात् गोपते। अनटि ३० गोपनम् । क्तौ गुप्तिः। 'गुपौ रक्षणे' गोपायति। 'गुपच् व्याकुलत्वे' गुप्यति । 'गुपण भासार्थः' गोपयति । इति पान्ताश्चतुर्दश सेटश्च ॥ १४ ॥ 'अबु रवु शब्दे' अम्बते 'अनात०' (४।१।६९) इति पूर्वस्यात्वे ने च आनम्बे, अचि कर्मणि घनि वा अम्बा । उणादौ शामाश्य० (४६२ ) इति अम्ब्लो रसः ॥ रबुङ् रम्बते ररम्बे रम्बिता । के रम्बते इत्यचि करम्बः । कृगो वा 'कृकडिकटि०' (३२१) इत्यम्बे करम्बः । 'लबुङ् अवलंसने च' चकाराच्छब्दे, लम्बते प्रलम्बते अवलम्बते आलम्बते ३५
है. प्रका० उत्त० ७१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org