________________
५६०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु___ आमः परादनुप्रयुक्तात्कृग आम एव प्राग् यो धातुस्तसादिव कर्तर्यात्मनेपदं स्यात् । स चेदात्मनेपदार्हस्तसात्तत्प्रयोज्यमन्यथा परस्मैपदमिति । एधाञ्चके । एधामास ६ । एधिषीष्ट एधिषीयास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधिषीय एधिषीवहि एधिषीमहि ७ । एधिता एधितारौ एधितारः । एधितासे एधितासाथे एधिताध्वे । एधिताहे एधि५तास्वहे एधितामहे ८। एधिष्यते एधिष्येते एधिष्यन्ते । एधिष्यसे एधिष्येथे एधिष्यध्वे । एधिष्ये एधिष्यावहे एधिष्यामहे ९ । ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्त । ऐधिष्यथाः ऐधिष्येथाम् ऐधिष्यध्वम् । ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि १० । 'द्युति दीप्तौ । लघोरुपान्त्यस्येति गुणे योतते १ । द्योतेत २ । द्योतताम् ३ । अद्योतत ४ ॥ ११७॥
'आम' कर्त्तर्यात्मनेपदं स्यादिति भवति न भवति चेति विधिप्रतिषेधावतिदिश्यते। ईहाञ्चके ईक्षा१० श्चक्रे इत्यफलवत्यपि भवति, बिभराञ्चकार जागराञ्चकारेति फलवत्यपि न भवति, यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवति बिभराञ्चक्रे बिभराञ्चकार (पाचयाञ्चक्रे पाचयाञ्चकार)। कृग इति किम् ? करोतेरेव यथा स्यात् इह माभूत् ईक्षामास ईक्षाम्बभूव । 'स्पर्द्धि सङ्घर्षे' सङ्घर्षः पराभिभवेच्छा। स्पर्द्धते भ्रातुः-भ्रात्रा सह स्पर्द्धा करोतीत्यर्थः । पस्पर्द्ध । सनि पिस्पर्द्विषते यङि पास्पयते यङ्
लुपि पास्पर्द्धाति । दिवि 'या तुरुस्तो०' (४।३।६४) रितीति अपास्पर्धीत् । सिचि 'स्तेः सुद्धां च रुवा' १५ (४।३।७९) इति सिचो लुकि धस्य रुत्वे रो रे लुगिति से कि अस्य दीर्घ च अपास्पाः 'इडित.'
(५।२।४४) इत्यने स्पर्धनः अकर्मकोऽयम् । स्पर्द्धयति मैत्रमित्यत्राणिगि प्राणिकर्तृकोऽपि परस्मैपदम् , 'गतिबोध०' (२।२।५) इत्यणिकर्तुः कर्मत्वं च । स्पर्द्धमानः स कृष्णमिति तु कृष्णं प्राप्येत्यध्याहारः। बहुलमितीष्णौ मेरुं स्पार्द्धष्णुनेवान्यो धृतो नाको हिमाद्रिणा । 'क्तेटो०' (५।३।१०६) इत्यः स्पर्धा घत्रि स्पर्द्धः । 'गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु' प्रतिष्ठा आस्पदम् , लब्धुमिच्छा लिप्सा, ग्रन्थनं ग्रन्थः, २० प्रतिष्ठायामकर्मकोऽयम् , लिप्साग्रन्थयोः सकर्मकः । गाधते जगाधे ऋदित्त्वाद् डे न ह्रस्वः अजगाधत्
सनि जिगाधिषते यङि जागाध्यते यङ्लुपि जागाधीति अचि अगाधमतलस्पर्शम् 'इडित०' इत्यने गाधनः उणादौ 'पदिपठि०' (६०७ ) इति इ. गाधिः विश्वामित्रपिता । 'बाधृङ् रोटने' रोटनं प्रतिघातः बाधते जे अबबाधत् 'इङित०' इत्यने बाधनः 'क्तेट ०' इत्यः बाधा घनि बाधः बाहुरिति तु मिवहीति (७२६) णित्यौ वहेः । 'दधि धारणे' दाने इति कौशिकः दधते देधे दधिता यङ्लुपि २५ दादधीति दादद्धि । णौ डे अदीदधत् अचि दधः । उणादौ पदिपठि० (६०७ ) इति इः धिः । 'बधि बन्धने वैरूप्ये' 'शान्दान्' (३।४।७) इति सनीतो दीर्घ च बीभत्सते अर्थान्तरे तु बधते । 'न जनवधः' (४।३।५४) इति वृद्ध्यभावे अबधि बधकः उणादौ पदिपठि० इति इः बधिः 'बधण् संयमने बाधयति' । नाधृ नाथूवत् । उपताश्वर्याशी-जास्वर्थेषु नाथूङ् वदयं वर्तते,
लाघवार्थमेवं निर्देशः । वर्णक्रमानुसारेण नैकत्राधीतौ। नाधते । (येषां तु णोपदेशोऽयं तन्मते प्रणाधते ३० परिणाधते ) ननाघे नाधिता इति धान्ताः सप्त सेटश्च । 'पनि स्तुतौ' 'गुपौधूप०' (३।४।१)
इत्याये पनायति जिनम् । इङित्त्वाभावादत्र शेषात्परस्मैपदम् । ये तु स्वार्थिकप्रत्ययस्य प्रकृतिवद्हणाद्यथा यप्रत्ययान्तस्य प्रकृत्यर्थवाचित्वं तथेदित्त्वमपीति प्रतिपन्नास्तन्मते 'इडितः कर्त्तरि' ( ३।३।२२) इत्यात्मनेपदे पनायते जिनम् । एवं पणायते 'अशवि ते वेति वाये पनायिष्यते पनिष्यते उणादौ
तप्यणि० (५६९) इत्यसे पनसः फलवृक्षः, फणस इति फणेः फनसतामरसादयः । (५७३) ३५ इत्यसे निपातनात् । 'मानि पूजायाम् विचारे' 'शान्दान्मानिति' सनि पूर्वस्येतो दीर्ने च मीमांसते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org