________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादय आत्मनेपदिनः
५५९ खरादेस्ताखिति वृद्धौ ऐधत ऐघेताम् ऐधन्त । ऐधथा ऐघेथाम् ऐषध्वम् । ऐधे ऐधावहि ऐधामहि ४ । ऐधिष्ट ऐधिषाताम् ॥ ११३॥ _ 'आता.' एषां चतुर्णामिति । आत्मनेपदे अद्यतनीपञ्चम्योः प्रथमत्रिकस्य द्विवचनम् आताम् , वर्तमानायाः प्रथमत्रिकस्य द्विवचनम् आते, अद्यतनीपञ्चम्योतिीयत्रिकस्य द्विवचनं आथाम् , वर्तमानाया द्वितीयत्रिकस्य द्विवचनं आथे इति । आदिति किम् ? मिमाताम् मिमाते मिमाथाम्५ मिमाथे ॥ ११३ ॥ अद्यतनीप्रथमत्रिकबहुवचने सिजागमे इडागमे सूत्रम् ।
अनतोऽन्तोऽदात्मने ॥ ११४ ॥ [सि० ४।२।११४ ] अनतः परस्यात्मनेपदस्यान्तोऽत्स्यात् । ऐधिषत । ऐधिष्ठाः ऐधिषाथाम् ॥ ११४ ॥ 'अन०' अन्त इति षष्ठयेकवचनान्तम् । ततश्च आत्मनेपदसम्बन्धिनोऽन्त इत्यस्यावयवस्य अत् इत्ययमादेशः । अनत इति किम् ? पचन्ते पच्यन्ते । आत्मनेपदस्येति किम् ? चिन्वन्ति ॥ ११४ ॥१० द्वितीयत्रिकबहुवचने सिजागमे इडागमे च सूत्रम् ।
सो धि वा ॥ ११५॥ [सि० ४।३।७२] धातोर्धादौ प्रत्यये (सो) लुग् वा स्यात् । ऐधिध्वम् । पक्षे नाम्यन्तस्थेति सिचा पत्वे तस्य तृतीयस्तृतीय इति डत्वे तवर्गश्चवर्गश्चेति धस्य ढत्वे ऐधिदम् । ऐधिषि ऐधिष्वहि ऐधिष्महि ॥ ११५॥
'सो धि०' सिच्यनुवर्तमाने सग्रहणं सामान्यसकारपरिग्रहार्थम् , तेन प्रकृतिसकारस्यापि वा लग् भवति यथा चकाधि चकाद्धि आशाध्वम् आशाद्धम् । विकल्पं नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति ॥ ११५ ॥ परोक्षायां सूत्रम्
. गुरुनाम्यादेरनृच्छ्रर्णोः ॥ ११६ ॥ [ सि० ३।४।४८] गुरु म्यादिर्यस्य तस्माद्धातो अच्छृणुवर्जात्परस्याः परोक्षाया आम् स्यात् । आमन्ताच परे२० कुम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । अनुर्विपर्यासव्यवहितनिवृत्यर्थः । एधाम्बभूव एधाम्बभूवतुः एधाम्बभूवुः इत्यादि प्राग्वत् ॥ ११६ ॥
'गुरु०' गुरुग्रहणं किम् ? इयेष । नामिग्रहणं किम् ? आनर्च । आदिग्रहणं किम् ? निनाय । 'ईच् गतौ' इत्यस्य तु व्यपदेशिवद्भावाद्भवति । अयाचके । आमं नेच्छन्त्येके तन्मते आमभावे ईये ईयाते ईयिरे इत्येव भवति । ईषतुः ईषुरित्यत्र सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति २५ न भवति । अनृच्छूोरिति किम् ? आनछे प्रोणुनाव । अत एव ऋच्छप्रतिषेधात्संयोगे परे पूर्वो गुरुरिति ज्ञायते।
ओणे;दित्करणान्नित्यमपि द्विर्वचनं ह्रखो बाधते 'तेन णौ डे पूर्व हवे ततो द्वित्वे मा भवानिदिधत् । सनि एदिधिषते, आनशि एधमानः, घबि एधः, उणादौ अस् (९५२) इत्यसि एधः एधसी 'इन्धेरपि 'दशनावोदै०' (४।२।५४) इति ये 'येन्धिभ्यां यादेधौ च (९६८) आभ्यां ३० मस् इमौ चादेशौ भवत इति वचनादेधसोः सिद्धिः । आमन्तादनुप्रयुक्तस्य कृग आत्मनेपदादिव्यवस्थामाह ॥ ११६ ॥
आमः कृगः ॥ ११७ ॥ [ सि० ३३३७५]
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org