SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५५८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'अनादेशादे' (४।१।२४) इत्येत्वस्य 'न शसदद०' (४।१।३०) इति प्रतिषेधात् दददे ददिता । 'ध्वदि खर्दि खादि आखादने आयः षोपदेशोऽयम, नेतरौ। यत्स्मृतिः स्वरदन्त्यपराः षोपदेशाः स्मि-खिदि-स्वदि-खञ्जि-स्वपयश्च, सृपि-सृजि-स्तृ-स्तृ-स्त्या-सेक-मृवर्जम् । आस्वादनं जिह्वया लेहः । चैत्राय स्वदते 'रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु०' (२।२।५५) इति चतुर्थी । सस्वदे षोपदेशा५त्पत्वे असिष्वदत् सनि षत्वापन्ने 'णिस्तोरेव.' (२।३।३७) इत्यत्र वर्जनात्तस्य षत्वाभावे सिखादयिषति, णिस्तोरेवेति नियमात्सनि षत्वाभावे सिखदिषते । 'इडित०' इत्यने स्वदनः उणादौ कृवापाजि० (१) इत्युणि स्वादुः 'ध्वदण् आस्वादने' स्वादयति । स्वर्दि स्वर्दते अषोपदेशत्वात्षत्वाभावे सिखर्दयिषति असिखर्दत् । स्वादि स्वादते सस्वादे अपोपदेशत्वात्पत्वाभावे असिस्वदत् सनि सिखा दिषते । 'उर्दि मानक्रीडनयोश्च' चकारादास्वादने । मानं मितिः । 'भ्वादेः०' (२।१।६३) इति १० दीर्घे ऊर्दते 'गुरुनाम्यादे.' (३।४।४८) इति परोक्षाया आमि ऊर्दाश्चक्रे 'अयि रः' (४।१।६) इति रस्य प्रतिषेधात् 'स्वरादे०' (४।१।४) इति देरेव द्वित्वे सनि ऊर्दिदिषते अचि स्त्रियां गौरादित्वात् ब्यां ऊर्दी विमानम् । 'कुर्दि गुर्दि गुदि क्रीडायाम्', 'भ्वादे.' इति दीर्घे कूदते चुकूर्दे । गुर्दि जुगर्दै । गुर्दिस्थानेऽन्ये खुदि पेठुः खुर्दते । 'गुर्दण् निकेतने' गूर्दयति । गुदि गोदते जुगुदे 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्त्वासनोर्वा कित्त्वे गुदित्वा गोदित्वा जुगुदिषते जुगोदिषते 'नाम्यु१५पान्त्य० (५।११५४) इति के गुदं स्त्रीणामपाङ्गम् । कल्याणं गुदमस्याः क्रोडादित्वाद् ज्यभावे कल्याणगुदा । गुदिस्थाने गुधिमेकेऽध्यैषत । 'दि क्षरणे' क्षरणं निरसनं 'षः स.' (२।३।९८) इति सत्वे सूदते सुषूदे डे असुषूदत् ते निषूदितः नन्द्यादित्वादने सूदनः अचि सूदः स्त्रियां गौरादित्वात् ब्यां सूदी शीलाद्यर्थविवक्षायामिङित० इत्यनस्य 'न णिज्य०' (५।२।४५) इति प्रतिषेधात्तृनि सूदनशीलः सूदिता 'दण् आश्रवणे' सूदयति । 'हादि शब्दे' अव्यक्ते शब्दे इत्यन्ये, अव्यक्तोऽ२० परिस्फुटवर्णः, हादते जह्वादे घनि हादः अचि हृदः पृषोदरादित्वात् ह्रस्वः । 'ह्लादैङ् सुखे च' चकाराच्छब्दे हादते जहादे ऐदित्त्वात् क्तयोर्नेट् प्रहन्नः । अत्र 'हादो हृद् क्तयोश्च' (४।२।६७) इति हृद् , तो न श्च । णौ क्ते आह्लादितः क्तौ प्रहत्तिः 'मनयवलपरे हे' (१।३।१५) इत्यनुस्वारानुनासिकयोः किंहादते किल्हादते । 'पदि कुत्सिते शब्दे' पायुध्वनौ वर्तते । अन्ये तु निःशब्दमधोवातं पर्दनं मन्वाना अशब्द इत्याहुः । पर्दते पपर्दे 'इडित०' (५।२।४४) इत्यने पर्दनः । पृदाकुरिति पिपर्ते२५र्दाकुकि (७५६) 'स्कुदुङ् आप्रवणे' आप्रवणमुत्प्लुत्य गमनमास्कन्दनं वा । उद्धरणमित्यन्ये । उदित्त्वान्ने स्कुन्दते चुस्कुन्दे सनि चुस्कुन्दिषते यङि चोस्कुन्द्यते यङ्लुपि चोस्कुन्दीति । कुन्द इति तु कवतेर्दे नेऽन्ते च रूपम् । (२४०) इत्येकविंशतिर्दान्ता हर्दिवर्जाः सेटश्च ॥ २१ ॥ 'एधि वृद्धौ' शवि एधते धर्मतः सुखम् । अथ धान्तेषु एधिधातुं कण्ठतो निर्दिशति एधते इति । उपसर्गान्निषेधे (१।२।१९) इत्यत्रैधि३० वर्जनादुपसर्गावर्णलुगभावे प्रैधते परैधते । द्विवचने सूत्रम् आतामाते आथामाथे आदिः ॥ ११३ ॥ [सि० ४।२।१२१] आत्परेषामेषां चतुर्णामात इ. स्यात् । एघेते एधन्ते । एधसे एघेथे एधध्वे । एधे एधावहे एधामहे १। एघेत एधेयाताम् एधेरन् । एघेथाः एधेयाथाम् एधेध्वम् । एधेय एधेवहि एधे३४ महि २ । एधताम् एघेताम् एधन्ताम् । एवख एघेथाम् एधध्वम् । एधै एधावहै एधामहै ३ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy