________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः
५५७ प्रथ्यते वा । श्रन्थग्रन्थो न लुक् च' इति वा एत्वे नलुकि च श्रेथतुः शश्रन्थतुः ग्रेथतुः जग्रन्थतुः । 'श्रन्थ ग्रन्थः सन्दर्भ' श्रन्थयति श्रन्थति ग्रन्थयति ग्रन्थति । श्रेथतुः शश्रन्थतुः ग्रेथतुः जग्रन्थतुः । एकधातावित्यात्मनेपदे भूषार्थेति विक्ययोरभावे च कर्मकर्तरि त्रयाणामपि श्रन्थते श्रथनीते अश्रन्थिष्ट ( वा स्वयमेव एवं) 'ग्रन्थते प्रथ्नीते अग्रन्थिष्ट उणादौ पदिपठि० (६०७) इति इ. श्रन्थिन्थिश्च पर्वसन्ध्यादिः । 'कत्थि श्लाघायाम्' श्लाघा गुणारोपः कत्थते चकत्थे इडित इत्यने ५ कत्थनः । इति थान्ताः षट् सेटश्च ॥ ६ ॥ श्विदुङ श्वैये श्वैत्यं श्वेतगुणक्रिया श्विन्दते कोऽर्थः स यदि सकर्मकस्तदा श्वेतीकरोतीति अथाकर्मकस्तदा श्वेतीभवतीति । श्वेतगुणः सिद्धोऽप्याख्यातेन साध्यैकरूप उच्यते कृतानुसाध्योऽपि सिद्धतयां पाकादिवच्छब्दशक्तिखाभाव्यात् । क्ये श्विन्द्यते ते श्विन्दितः । वदुङ् स्तुत्यभिवादनयोः स्तुतिर्गुणैः प्रशंसा, अभिवादनं पादयोः प्रणिपातः, वन्दते देवान् स्तोतीत्यर्थः, ववन्दे गुरून्-अभिवादितवानित्यर्थः । वन्दिता (अचि ) वन्दी हठाकृष्टा स्त्री ।१० ग्रहादित्वाणिनि वन्दी मङ्खः । 'शृवन्देरारुः' (५।२।३५) वन्दनशीलो वन्दारुः कामवृक्षश्च । (न)णिङयेत्यत्र दीपिग्रहणात् असरूपे ने वन्दनः 'णिवेत्त्या०' (५।३।१११) इत्यने वन्दना उणादौ पदिपठि० (६०७) इति इ: वन्दिः ग्रहणिः । 'भदुङ् सुखकल्याणयोः' सुखं सद्वेद्यकर्मोदयाच्छुभानुभवनम् , कल्याणं श्रेयः, प्रीतावप्यन्ये, प्रीतिर्मोहनीयविपाकः । भन्दते बभन्दे 'इङित०' (५।२।४४) इत्यने भन्दनः उणादौ सीमन्तहेमन्त० (२२२) इत्यन्ते निपातनात् भदन्तः । १५ भन्देवा ( ३९१ ) इति रे वा नलुकि च, भद्रं भन्द्रं च सुखकल्याणे । चुरादौ 'भडुण् कल्याणे' दान्त इत्येके भन्दयति । 'मदुङ् स्तुतिमोदमदस्वप्नगतिषु' मोदो हर्षः मदो दर्पः स्वप्नेनालस्यमपि लक्ष्यते । चन्द्रस्तु मदि जाड्ये इत्येवाह । मोदमदस्खमेष्वकर्मकोऽयम् , स्तुतिगत्योः सकर्मकः । मन्दते ममन्दे अचि मन्दः स्त्रियां 'जातेरयान्त०' (२।४।५४) इति, यौवनावस्थावृत्तौ तु 'वयस्यनन्त्ये' (२।४।२१) इति, ङीप्राप्तावजादेरित्यपि मन्दा स्त्रीजातिः, युवतिर्वा । 'उणादौ २० शलिवलि. (३४) इत्याके मन्दाकः । मत्वर्थीये नि मन्दाकिनी । भीवृधि० (३८७) इति रे मन्द्रं गम्भीरम् । मद्रमिति तु माद्यतेः । (३८७ ) ऋच्छिचटि० (३९७ ) इत्यरे मन्दरः शैलविशेषः । अम्यङ्गि० (४०५) इत्यारे मन्दारो देववृक्षः। मदिमन्दि० (४१२) इतीरे मन्दिरं सद्म । मदिरेति तु माद्यतेः (४१२) । वाश्यसि० (४२३) इत्युरे मन्दुरा वाजिशाला (४२३)। 'स्पदुङ् किञ्चिच्चलने' स्पन्दते पस्पन्दे णिगन्तात्फलवत्कर्त्तर्यपि चल्याहारार्थेऽङिति २५ परस्मैपदम् स्पन्दयति । घनि स्पन्दः चालशब्दार्थादित्यने स्पन्दनः वृक्षविशेषः । क्लिदुङ् परिदेवने परिदेवनं शोचनम् । क्लिन्दते 'क्लिदु परिदेवने' क्लिन्दति । गित्त्वमकृत्वोभयत्र पाठस्तु फलवत्यपि कर्त्तरि परस्मैपदार्थः अफलेप्यात्मनेपदार्थश्च । 'मुदि हर्षे' अकर्मकोऽयम् मोदते मुमुदे मोदिता क्ते मोदितः 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्वासनोर्वा कित्त्वे मुदित्वा मोदित्वा मुमुदिषते मुमोदिषते णौ मोदयति चैत्रम् , अत्राणिगीति फलवत्कर्त्तर्यपि परस्मैपदम् ‘गतिबोधाहारार्थ०' (२।२।५) इत्यणि ३० कर्तुः कर्मत्वं च, मूलविभुजादित्वात् के कुमुदम् 'तिकृतौ नाम्नि' (५।११७१) इत्यानशि मोदमानः कोऽपि ग्रामः, णके मोदयतीति मोदकः 'नाम्युपान्त्य०' (५।१।५४ ) इति के मुदः । 'इङित०' (५।२।४४) इत्यने मोदनः उणादौ पूमुदिभ्यां कित् (९३) इति किति गे मुद्गः । 'ऋत्यजि.' (३८८) इति रे मुद्रा। 'मुदिगूरिभ्यां टिद्गजो चान्तौ (४०४) मद्गरः मुद्गरी । शुषीषि० (४१६) इति कितीरे मुदिरो मेघः 'मुदण् संसर्गे' मोदयति । 'ददि दाने' धारणे इति कौशिकः, ददते ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org