________________
५५६ महामहोपाध्यायश्नीविनयविजयगणिविरचिते खोपज्ञहैमलघुहोड अनादरे' हेडते जिहेडे अजिहेडत् घलि हेडः 'हेडप्रसादौ प्रभोः' । क्ते सेटत्वात् क्तेट इत्यः ऋफिडादित्वाल्ले हेला घटादौ 'हेड वेष्टने' हेडति णौ ह्रखे हिडयति । होड होडते जुहोडे डे ह्रस्वाभावे अजुहोडत् 'केटो' (५।३।१०६) इत्यः होडा अचि होडः। 'हिडङ् गतौ च' चकारादनादरे, हिण्डते जिहिण्डे यङि जेहिण्ड्यते यङ्लुपि जेहिण्डीति 'तवर्गस्य०' (११३।६०) ५ इति तस्य टत्वे 'धुटो धुटि०' (११३।४८) इति धुटो लुकि जेहिण्टि 'इङित०' (५।२।४४) इत्यने हिण्डनः । गत्यर्थात्कतरिक्ते हिण्डितः उणादौ किलिपिलि० (६०८) इति हिण्डिः रात्रौ रक्षाचारः । इति डान्तास्त्रयोविंशतिः सेटश्च । 'घिणुङ् घुणुङ् घृणुङ् ग्रहणे' उदित्त्वान्ने घिण्णते जिघिण्णे घिण्णिता । घुण्णते जुघुण्णे घुण्णिता । घृण्णते जघृण्णे घृणिता । यडि जरीघृण्यते वनि 'वन्याङ् पञ्चमस्य' (४।२।६५) इत्यत्र पञ्चमस्येति जातिपरिग्रहणाद् ण-द्वयस्थाप्याङादेशे आङो ङित्त्वा१० गुणाभावाद्यत्वे सुघ्यावा, व्यक्तिपरिग्रहे त्वन्त्यस्यैवात्वे सुधिनावा, एवं शेषयोरपि । विपि 'पदस्य' (२।१।
८१) इति संयोगान्तलोपे सुपिन्नित्यादि । 'घुणि घूर्णि भ्रमणे' घोणते जुघुणे घोणिता लिहाद्यचि घोणा 'नाम्युपान्त्यः' (५।१६५४) इति के घुणः वनि वन्यापञ्चमस्येत्याङादेशे ङित्त्वाद्गुणाभावे ध्वावा । घूर्णते जुघूर्णे वन्याङि घूरावा 'घुण घूर्णत् भ्रमणे' घुणति । घूर्णति । 'पणि व्यवहारस्तुत्योः'
गुपौधूपेत्याये पणायति । आयान्तस्येङित्त्वाभावाच्छेषात्परस्मायिति परस्मैपदम् । विनिमेयद्यूतपणं० (२॥ १५२।१६) इति कर्मणो वा कर्मत्वे 'शेषे' (२।२।८१) इति षष्ठ्याम् शतस्य पणायति । स्वार्थिकप्रत्ययान्तस्य
प्रकृतिवद्हणात्पणिरेवायम् । ये तु स्तुत्यर्थादेव पणेरायमिच्छन्ति तन्मते व्यवहारार्थाच्छव्यप्यायाभावे शतस्य पणते । 'अशवि ते वा' (३।४।४) इति वा आये पणायाञ्चकार पेणे पणायिता पणिता । 'न चोपलेभे वणिजां पणायाः'। अत्र शंसिप्रत्ययादित्यः । वोपसर्येति निपातनाद्ये पण्यं विक्रेयम् । अन्यत्र
ध्यणि पाण्यः साधुः । पर्माने इति घरपवादेऽलि शाकपणः । गोचरसञ्चरेति आधारे घबपवादे वे २० एत्य तत्र पणायन्तीत्यापणः उणादौ आङः पणि० (३९) इति के आपणिकः पत्तनवासी । प्राङः पणि० (४२) इति के प्रापणिको वणिक् कमिवमि० (६१८) इति णिदिः पाणिः भृपणिभ्यामिज भुरवणौ च (८७५) वणिक् प्रज्ञाद्यणि वाणिजः । इति णान्ताः षद सेटश्च ॥ ६ ॥ 'यतैङ् प्रयत्ने' यतते ऐदित्त्वाक्तयोर्नेट् यत्तः आयत्तः यजिस्वपीति ने यत्नः । उणादौ पदिपठि० (६०७ ) इति इः यतिः ।
यतिननन्दिभ्यां दीर्घश्च (८५६) इत्यू याता देवरभार्या । तृस्वस्रित्यत्र तुः सार्थकस्य ग्रहणादारभावे २५ यातरौ । 'यतण निकारोपस्कारयोः' यातयति । युतृङ् जुतुङ् भासने योतते युयुते ऋदित्त्वा
द्ढे अयुयोतत् । जोतते जुजुते अजुजोतत् 'जृत भासने' जोतति ऋदित्त्वाद्वाङि अजुतत् अजोतीत् । कौशिकस्तु ज्योतिःसिद्धये जुतिस्थाने ज्युतिमधीते । तदसत् झुतेरादेश्च ज इति सिद्धत्वात् । इति तान्तात्रयः ॥ ३ ॥ 'विशृङ् वेशृङ् याचने' वेथते विविथे ऋदित्त्वाद् डे अविवेथत् 'वेथङ्
वेथते विवेथे डे अविवेथत् । कौशिकस्तु विधुरसिद्धये धान्तं इत्याह । तन्न व्यथेरेव 'श्वशुर' ३० (४२६) इत्युरे निपातनात्सिद्धेः । नाङ पुरस्ताद्वक्ष्यते । 'श्रथुङ् शैथिल्ये' तालव्यादिः, शैथिल्यमगाढता, उदित्त्वान्ने श्रन्थते शश्रन्थे अत्र 'वा श्रन्थग्रन्थो न लुक च' (४।१।२७) इत्यत्रौपदेशिकस्य श्रन्थो ग्रहणाद्वा एत्वनलुकौ न भवतः । अन्ये त्वत्रापीच्छन्ति । 'दशनाऽवोदैधौ०' (४।२।५४ ) इति घनि निपातनात् प्रश्रथः हिमश्रथः णिवेत्त्यने श्रन्थना । उणादौ श्रन्थेः शिथ च
(४१४) इतीरे शिथिरम् लत्वे शिथिलम् । 'ग्रथुङ् कौटिल्ये' कौटिल्यं कुमृतिबन्धश्च । ग्रन्थते ३५ जग्रन्थे णिवेत्त्यने ग्रन्थनेत्येके । 'श्रन्थश् मोचनप्रतिहर्षयोः' 'ग्रन्थश् सन्दर्भे' श्रश्नाति अथ्यते प्रश्नाति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org