________________
प्रक्रियावृतिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः 'कठुण शोके' 'युजादेर्नवा' (३।४।१८) इति वा णिचि उत्कण्ठयति उत्कण्ठति । 'मुठा पलायने' मुण्ठते मुमुण्ठे मुण्ठिता । 'वठुङ एकचर्यायाम्' एकस्यासहायस्य चर्या गतिस्तस्यां वण्ठते ववण्ठे अचि वण्ठः । 'अठुङ पडुङ् गतौ अण्ठते आनण्ठे इति ठान्ताः सप्त सेटश्च ॥ ७ ॥ पडुङ् पण्डते पपण्डे गत्यर्थात्कर्तरि क्ते पण्डितः अचि पण्डः ते सेट्त्वात् 'क्तेट०' इत्यः पण्डा उणादौ जठरक्रकर० (४०३) इत्यरे निपातनात्पाण्डरः पाण्डुरिति पनेर्दीर्घश्चेति डौ पनतेः (७६६)५ मध्वादित्वाद्रे पाण्डुरः । 'हुडुडू पिडुडू' सङ्घाते हुण्डते जुहुण्डे अचि हुण्डं समन्ततो विषमं संस्थानम, नामकर्मभेदानां षण्णां संस्थानानामन्त्यस्य विपाको नरकभवनियतः ‘क्तेटः' इत्यः हुण्डा 'नाम्नि पुंसि च' (५।३।१२१) इति णके हुण्डिका 'उणादौ किलिपिलि.' (६०८) इति इ: हुण्डिः पिण्डित ओदनः । पिडुङ् पिण्डते पिपिण्डे पनि पिण्डः पिडुण् सङ्घाते' पिण्डयति । 'शडुङ् रुजायां च' चकारात्सङ्घाते तालव्यादिः शण्डते शशण्डे अचि शण्डः उत्सृष्टपशुः ऋषिश्च । षण्डश्च १० इति सनतेरौणादिके डे (१६८) बाहुलकात्षत्वम् । 'तडुङ् ताडने' तण्डते ततण्डे तण्डिता 'क्तेट' इत्यः वितण्डा 'उणादौ हृषिवृति० (४८५) इत्युले तण्डुलः' तण्डुरिति तु तनोतेडौँ (७६५) तण्डुना प्रोक्तमित्यणि ताण्डवम् । 'कडुङ् मदे' कण्डते चकण्डे कण्डिता अचि कण्डं उणादौ जठरक्रकर० (४०३ ) इत्यरे कण्डरा स्नायुसङ्घातः कटिपटि० (४९३) इत्योले कण्डोलः विदलभाजनविशेषः कण्डुरिति कणेडौँ (७६५) 'कडुण खण्डने' च कण्डति । 'खडुङ् मन्थे' खण्डते चखण्डे १५ खण्डिता घलि खण्डः 'खडुण् भेदे' खण्डयति । 'खुडुङ् गतिवैकल्ये' खुण्डते चुखुण्डे चुरादेराकृतिगणत्वात् 'खुडुण् खण्डने' खुण्डयति । 'कुडुङ् दाहे' कुण्डते आधारे 'व्यञ्जनात्' (५।३। १३२ ) इति घबि कुण्डम् स्त्रियां भाजगोण.' ( २।४।३०) इति ङयां कुण्डी 'क्तेट०' इत्यः कुण्डा उणादौ मृदिकन्दि० (४६५) इत्यले कुण्डलम् 'कुडुण रक्षणे' कुण्डयति । 'वडुङ् मडुडू वेष्टने' विभाजनेऽप्यन्ये । विभाजनं विभागीकरणं चर्माभावश्च । वण्डते अचि घधि वा वण्डः । मडुङ् २० मण्डते अचि घबि वा मण्डः रसायम् णके मण्डकः उणादौ मृमन्यञ्जि० (५८) इत्यूके मण्डूकः मृदिकन्दि० (४६५) इत्यले मण्डलम् स्त्रियां गौरादित्वात् ङयां मण्डली मीमसि० ( ४२७) इत्यूरे मण्डूरं लोहमलम् हृषिपुषि० (७९७) इति ण्यन्तादिनौ मण्डयित्नुः 'मडु भूषायाम्' मण्डति 'मडुण् भूषायाम्' मण्डयति । 'भडुङ् परिभाषणे' भण्डते अचि भण्डः भाण्डमिति तु भामेर्डेः (१६८) 'भडुण् कल्याणे' भण्डयति 'णिवेत्ति०' ( ५।३।१११) इत्यने २५ भण्डना । 'मुडुङ् मजने' मजनं शोधनं न्यग्भावश्च मुण्डते मुमुण्डे मुण्डिता घनि मुण्डः 'मुडु खण्डने च' मुण्डति । 'तुडुङ् तोडनें तोडनं हिंसा तुण्डते अचि घत्रि वा तुण्डम् उणादौ किलिपिलि० (६०८) इति इ: तुण्डिः प्रवृद्धा नाभिः । 'भुडुङ् वरणे' वरणं स्वीकरणं भुण्डते अचि भुण्डः । 'चड्डुङ् कोपे' चण्डति अचि चण्डः स्त्रियां शोणादित्वाद्वा ज्यां चण्डी चण्डा 'उणादौ ऋकृमृ० (४७५) इत्याले चण्डालः 'चडुण् कोपे' चण्डयति । 'द्राहक ध्राट्टङ् विश-३० रणे' द्राडते दद्राडे धाडते दध्राडे ऋदित्त्वात् डे हवः अदद्राडत् अध्राडत् । 'शाट्टङ् श्लाघायाम्' तालव्यादिः । शाडते ऋफिडादित्वाड्डस्य लत्वे शालते ऋदित्त्वात् डे ह्रस्वाभावे अशशाडत् अचि शाला 'अजाते:०' (५।१।१५४) इति णिनि गुणशाली शालिरिति तु कुशलेरौणादिके णौ (६१८) रूपम् शालूकमित्यपि शलतेणूंके (५९) 'वाट्टङ् आप्लाव्ये' आप्लाव्यं आप्लावनम् , वाडते अचि ऋफिडादित्वात् डस्य लत्वे वालः वडवेति तु वडेः सौत्रस्याचि रूपम् । ( उणादौ ५१५) 'हेट्टङ् ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org