________________
५५४
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
अनात इत्यात्वे ने च आनृजे सनीटः कार्यित्वेन द्वित्वं प्रति निमित्तत्वाभावेन द्वित्वात्प्रागेव स्वरस्य - विधौ गुणे सति 'अयि र:' ( ४|१|६ ) इति रेफस्य द्वित्वाभावे 'स्वरादेर्द्वितीय:' ( ४|१|४ ) इति जेरेव द्वित्वं अर्जिजिषते णौ अर्जयति ऋदुपान्त्याद० (५/१1४१ ) इति क्यपि ऋज्यम् घनि उद्गादित्वाद्गत्वे अर्गः स्थानम्, शोभनोऽर्गः स्वर्गः उणादौ ऋचिऋजि० (४८) इति कितीके ऋजीकं ५ वज्रं बलं च ऋजिशृ० (५५४ ) इति कितीषे ऋजीषः अवस्करः ऋजीषं धनमुपहतं च । उद्रिक्तादिसिद्ध्यर्थं व्यञ्जनादिमेनं अन्ये मन्यन्ते । 'ऋजुङ् भृजै भर्जने' भर्जनं पाकप्रकारः ऋञ्जते आनृञ्जे ऋत्यारुपसर्गस्य इत्यारि उपार्जते ऋञ्जिता 'भूजैङ् भर्जने' बभृजे 'ऋवर्णस्य' (४/२/३७ ) इति ऋतो वा ऋत्वे णौ ङे अबीभृजत् अबभर्जत् सनि बिभर्जिषते ऐदित्त्वात् तयोर्नेट् भृक्तः भृक्तवान् तेऽनित्वात् 'केऽनिटश्वजोः ० ' ( ४।१।१११ ) इति घनि गत्वे भर्गो रुद्रः 'ऋदुपान्त्या - १० दिति क्यपि भृज्यम् उणादौ कृषिचमि० (८२९) इत्यूः भृजूः अभ्योषः । 'तिजि क्षमा निशानयोः ' निशानं तीक्ष्णीकरणं 'गुप्तिजो ० ' ( ३ | ४|५ ) इति सनि तितिक्षते कोपम् क्षान्तौ संविधानात्तेजने प्रत्ययान्तरम् णौ तेजयति करणाधारेऽनटि तेजनं तेजनी उणादौ 'भ्रूणतृण' (१८६ ) इति निपातना - तीक्ष्णः तिजियुजेर्गचेति ( ३४५ ) किति मे तिग्मम् अस् ( ९५२ ) इत्यसि तेजः । तेजणू निशाने उत्तेजयति । इति जान्ता नव सेटच । घट्टि चलने घट्टते जघट्टे अचि अरघट्टः घनि घट्टः १५ ‘'णिवेत्ति०' ( ५।३।१११ ) इत्यने घट्टना 'घट्टणू चलने' घट्टयति । 'स्फुटि विकसने' स्फोटते 'अघोषे शिट:' ( ४।१।४५ ) इति पूर्वस्य सस्य लोपे पुस्फुटे स्फोटिता 'वौ व्यञ्जनादे: ० ' ( ४।३।२५ ) इति क्त्वासनोर्वा कित्त्वे स्फुटित्वा स्फोटित्वा पुस्फुटिषते पुस्फोटिषते 'नाभ्युपान्त्य ० ' ( ५/१/५४ ) इति के स्फुटः । डान्तोऽयमुदिश्चेत्येके स्फुण्डते स्फुण्डिता । 'स्फट स्फुट्ट विशरणे' स्फटति वस्त्रं अस्फाटीत् पस्फाट । स्फोटति ऋदित्त्वादङि अस्फुटत् 'स्फुटत् विकसने' स्फुटति । 'चेष्टि चेष्टने' चेष्टा ईहा २० चेष्टते चिचेष्टे णौ डे ' वा वेष्टचेष्ट:' ( ४|१|६६ ) इति पूर्वस्य वात्वे अचचेष्टत् अचिचेष्टत् तेटः इत्यः
I
I
चेष्टा । 'गोष्टि लोष्टि सङ्घाते' गोष्टते जुगोष्टे गोष्टिता । लोष्टते लुलोष्टे कर्मणि घनि लोष्ट : उणादौ भृमृतत्सरि० (७१६ ) इत्युः लोष्टुः मृत्पिण्डः । 'वेष्टि वेष्टने' वेष्टनं ग्रन्थनं लोटनं परिहाणि वेष्टते विवेष्टे णौ ङे वा वेष्टेति पूर्वस्य वात्वे अववेष्टत् अविवेष्टत् यङि वेवेष्ट्यते यङ्लुपि वेवेष्टि हो घुट० इति हेर्धित्वे ' तवर्गस्येति धस्य ढत्वे 'धुटो धुटि० ' ( १|३|४८ ) इति ढस्य २५ लुकि 'तृतीयस्तृतीय० ' ( १।३।४९ ) इति षस्य डत्वे वेवेड्ढि अचि प्रवेष्टो बाहु: 'नानि पुंसि च '
( ५/३।१२१ ) णके वेष्टकः कर्णवेष्टकः । 'अदृट्टि हिंसातिक्रमयोः' अतिक्रम उल्लङ्घनं दोपान्त्योऽयम् तवर्गस्येति डत्वं न कृतमसन्देहार्थम् 'तवर्गस्य ० ' ( १।३।६० ) इति दस्य डत्वे 'अघोषे प्रथम ' (१।३।५०) इति टत्वे च अट्टते 'अनात ० ' ( ४|१|६९ ) इत्यात्वे ने च आनट्टे दोपान्त्यत्वात्सनीटि न वदनमिति दस्य निषेधात् ' स्वरादे० ' ( ४|१|४ ) इति द्वितीयांशस्य टेरेव द्विरुक्तौ 'तवर्गस्ये'ति डत्वे ३० 'अघोषे प्रथम ०' इति टत्वे अट्टिटिषते अचि घनि वा अट्टः क्विपि अद् अत् । तोपान्त्योऽयमित्येके तेषां सनि इटि अतिट्टषते येषां तु तान्तष्टोपान्त्यश्चायं तेषां द्वीति द्वित्वे अटिट्टिषते । इति टान्ताः सप्त च । 'एठि हेठि विबाधायाम्' एठते हेठते एठाञ्चक्रे जिहेठे । खरादेरिति द्वित्वे एटिठिषते णौ ‘णिवेत्ति०' ( ५।३।१११ ) इत्यने विहेठना शाठ्यम् । 'मठुङ् कटुङ् शोके' शोकोऽत्रार्त्तध्यानम्, उदित्वाने मण्ठते ममण्ठे । कठुङ् कण्ठते उत्कण्ठते उच्चकण्ठे घनि उत्कण्ठः के उत्कण्ठितः के ३४ सेट्त्वात् 'केट' ० ( ५।३।१०६ ) इत्यः उत्कण्ठा उणादौ हृषिवृति ० ( ४८५ ) इत्युले उत्कण्डुलः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org