SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः 'लोचण भासार्थः' आलोचयति 'णिवेत्ति०' (५।३।१११) इत्यने आलोचना । 'पचि सेचने' सेचनं सेवनं भजनमिति यावत् । सेचते, सेचेः षोपदेशत्वात् असीषचत् ‘णिस्तोरेव० (२।३।३७) इति नियमात् षत्वापन्ने सनि षत्वाभावे सिसचिषति उणादौ 'पलिसचेरिवः' (५२२) सचिवः कृसिकमि० (७७३) इति तुनि सच्यते स्नेहेनेति सक्तु । चन्द्रस्तु 'षव समवाये' इति वान्तमधीते तन्मते सवति । 'शचि व्यक्तायां वाचि' तालव्यादिः । शचति शेचे उणादौ पदिपठि० (६०७) इति इः शची।५ 'कचि बन्धने' कचते चकचे सनि चिकचिषते अचि 'पुंनानि०' (५।३।१३०) घे वा कचाः शिरःप्राग्भागकेशाः । कर्मणि पनि काचः। 'कचुडू दीप्तौ च' चकाराद्वन्धने । उदित्त्वान्ने कञ्चते चिकचिषते । ढे अचकञ्चत् । क्ते सेटत्वाद् ध्वणि कत्वाभावे कञ्चयम् । उणादौ कनुकांशुक० (५७) इत्युके कञ्चकः कुशिकहूदिक० (४५) इति इके निपातनात् काञ्चिकम् ‘विदनगगन०' (२७५) इत्यने निपातनात् काञ्चनम् हेम कमिवमि० (६१८) इति णिदिः काश्चिः। 'श्वचि श्वचुङ गतौ' १० श्वचते शश्वचे शिश्वचिषते के अशिश्वचत् । श्वचुङ् उदित्वान्ने श्वञ्चते शश्वञ्चे शिश्वञ्चिषते अशश्वञ्चत् । 'वर्चि दीप्तौ' वर्चते ववर्चे क्ते सेट्त्वात् पनि कत्वाभावे वर्चः । एवं चान्तेषु जान्तेषु च ते सेट्सु सर्वेषु वाच्यम्, नाग्नि पुंसि च णके सुचर्चिका टण्कणम्। उणादौ मुरलोरल० (४७४) सुवर्चला शाकम् , असित्यसिः (९५२) वर्चः अशुचितेजसी । 'मचि मुचुङ कल्कने' कल्कनं दम्भः शाठ्यं क्वथनं च । मचते मेचे। मुचेत्यपि चन्द्रः मोचते । मुचुङ मुश्चते 'मुच्छंती मोक्षणे' मुञ्चति । 'मचुङ् १५ धारणोच्छ्रायपूजनेषु च' चकारात्कल्कने, दीप्तावप्येके, मञ्चते घबि मञ्चः णके मच्चिका। उणादौ कञ्जुकांशुक० (५७) इत्युके मञ्चका खट्विका । 'पचुङ व्यक्तीकरणे' पञ्चते पपञ्चे पिपश्चिषते अपपञ्चत् प्रपञ्च्यते 'नाम्नि पुंसि च' (५।३।१२१) इति णके पश्चिका न्यासः घबि न्यङ्कादित्वात् कत्वे पङ्कः उणादौ ऋकृभृ० (४७५) इत्याले पश्चालः ऋषिः उक्षितक्षि० (९००) इत्यनि पञ्च घटाः । अनुदिदनुस्वारेच्चायमित्यन्ये पचते पक्ता । 'पचुण विस्तारे' प्रपञ्चयति णिच्यलि प्रपश्चः । 'टुचि प्रसादे' 'ष:२० स'० ( २।३।९८ ) इति सत्वे स्तोचते तुष्टुचे णौ स्तोचयति के अतुष्टुचत् यङि तोष्टुच्यते घनि न्यवादित्वात् कत्वे स्तोकः । इति चान्तात्रयोदश सेटश्च । 'एजुङ् भ्रेजुङ् भ्राजि दीप्तौ' एजते 'गुरुनाम्यादे' (३।४।४८) इति परोक्षाया आमादेशे एजाश्चक्रे ऋदित्त्वाद् के न ह्रस्वः मा भवानेजिजत् अत्र ओणेरृदित्करणज्ञापकान्नित्यादपि द्वित्वात् प्रागेव हवः प्राप्तः ऋदित्त्वेन निषिध्यते 'साहिसाति.' (५।११५९) इति शे उदेजयः 'एजेः' (५।१।११८) इति खशि अङ्गमेजयः । 'एज २५ कम्पने' इत्यस्य त्वेजति । 'भ्रेजुङ भेजते बिभ्रेजे ऋदित्वाद् डे हस्खाभावे अबिभ्रेजत् । भ्राजि भ्राजते बभ्राजे णौ डे 'भ्राजभासः' (४।२।३६) इति वा हस्खे अविभ्रजत् अबभ्राजत् 'यजसृज० इत्यत्र राजिसहचरितस्यैव (भ्राजेर्ग्रहणादस्य षत्वाभावे यङ्लुपि बाभ्रालिः क्तौ भ्रालिः किपि बिभ्राक्, तस्य तु बाभ्राष्टि भ्राष्टिः बिभ्राडिति भवति । अत एव च एत्वद्वित्वाभावविकल्पोऽपितस्यैव भेजे बभ्राजे) प्रेजे बभ्राजे । इदमेव च भ्राजेरात्मनेपदिनोऽप्युभयपदिषु राजग टुभ्राजि ३० दीप्ताविति पाठे प्रयोजनम् 'भ्राज्यलकृग्०' (५।२।२८) इति इष्णौ भ्राजिष्णुः 'दिद्युद्ददृ०' (५।२।८३) इति क्विपि नभ्राक् । राजग टुभ्राजि दीप्तावित्यस्य तु ट्वित्त्वादथौ भ्राजथुः । 'इजुङ् गतौ' उदित्त्वान्ने इञ्जते इजाश्चक्रे इञ्जिता । 'ईजि कुत्सने च' चकाराद्गतौ ईजते वीजते ईजाञ्चक्रे लौकिकस्य तु वीजेरवीजयत् राजहंसैरवीज्यन्त, अस्य तु विपूर्वस्य णौ दिवि व्यैजयत् व्यज्यन्त 'ऋजि गतिस्थानार्जनोजनेषु' ऊर्जनं प्राणनम् । अर्जते 'ऋत्यारुपसर्गस्य' (१।२।९) इत्यारि उपाय॑ते ३५ है. प्रका० उत्त० ७० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy