________________
५५२
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
शवर्हाद्भ्यः क्तौ भावारम्भे० ' ( ४।३।२६ ) इति वा किवे कुकितमस्य प्रकुकितः प्रकोकितः उणादौ कल्यनीति (४८१ ) ले कोकिलः । वृकि वर्कते अवर्किष्ट ववृके वर्किता 'नाम्युपान्त्ये० ' ति के वृकः 'ऋदुपान्त्या ०' (५|१|४१ ) दिति क्यपि वृक्यं 'ऋवर्णस्य ० ' (४/२/३७ ) इति णौ ङे गुणापवादे ऋतो वा ऋत्वे अवीवृकत् अववर्कत् । 'चकि तृप्तिप्रतिघातयोः' चकते अनादेशादित्त्वात् ते चकितः ५ उक्तार्थयोर्घटादित्वात् 'घटादे० ' ( ४।२।२४ ) रिति णौ ह्रस्वे चकयति ञिणम्परे तु वा दीर्घे अचाकि अचकि चाकं चाकं चकं चकं अर्थान्तरे तु ह्रस्वाभावे चाकयति । उणादौ चकिरमिविकसेरुच्चास्ये ( ३९३ ) ति रे चुक्रः अम्लो रसः बीजपूरक मिञ्जिका असुरः निमन्त्रणं च कठिचकीत्योरे ( ४३३ ) 'चकोरः । ककुङ् श्वकुङ् कुङ् श्रकुङ् श्लकुङ् ढौकृङ् त्रौलृङ् ष्वषिक वस्कि मस्कि तिक टिक टी सेलृङ् स्स्रेकङ् रघुङ् लघुङ् गतौ' एते सप्तदश । ककुङ् उदित्वान्ने कङ्कते १० चकङ्के कङ्किता अचि कङ्कः उणादौ 'तृकुरा ० ' ( १८७ ) इत्यणे कङ्कणः । श्वकुङ् गतौ तालव्यादि उदित्वाने वङ्कते व अचि श्वङ्कः । कुङ् त्रङ्कते तत्र । श्रकुङ् श्रङ्कते शङ्के, लकुङ् ङ्कते एतौ तालव्यादी । ढौ ढौकते अढौकिष्ट डुढौके ढौकिता णौ ङे ऋदित्वाद् हस्वाभावे अडुढौकत् उणादौ ‘शिक्यास्या०' (३६४ ) इति ये निपातनात् आढ्यः । त्रौकङ् त्रौकते तुत्रौके णौ के अतुचौकत् । ष्वष्कि 'षः स० ' ( २।३।९८ ) इत्यत्र वर्जनात् सत्वाभावे ष्वष्कते सनि षिष्वष्किष । १५वस्कि वस्कते ववस्के । मस्कि मस्कते ममस्के दन्त्योपान्यावेतौ तेन यङ्लुपि दिवो लुकि च 'संयोगस्यादौ ० ' (२|१|८८ ) इति सस्य लुक् अवावक् अमामक् । तिकि तेकते णौ ङे अतीतिकत् । टिकि टेकते अटीटिकत् ऋदितावेतावित्यन्ये तेन हस्वाभावे अतितेकत् अढिटेकत् । टीकृङ् टीकते ह्रस्वाभावे अटिटीकत् टीकतेऽस्याः स्फुटमर्थमिति टीका 'केट ० ' ( ५|३|१०६) इत्यः, ण्यन्ताद्वा टीकयति गमयत्यर्थमिति टीका । सेकृङ् सेकते ऋदित्वाद् ङे ह्रस्वाभावे षोपदेशाभावाच पत्वाभावे असिसे२० कत् । येषां तु षोपदेशोऽयं तन्मते कृतत्वात्सस्य षत्वे असिषेकत् । स्रेकङ् दन्त्यादिः स्रेकते णौ असिस्रेकत् । इत्येकोनत्रिंशत्कान्ताः सेटच ॥ २९ ॥ खान्ता गान्ताश्चाप्रसिद्धाः । रघुङ उदित्वान्ने रङ्घते । लघुङ् लङ्घते उणादौ रचिलङ्घिलिङ्गेर्न लुक् च ( ७४० ) इति किदुः रघुः लघुः । एतौ चुरादी भासार्थौ रङ्घयति लङ्घयति, लङ्घिर्भोजननिवृत्त्यर्थोपि नवज्वरो लङ्घनीयः । 'अघुङ् वघुङ् गत्याक्षेपे' गतेराक्षेपो वेगः आरम्भः उपालम्भो वा । उदित्वान्ने अङ्घते 'अनात ० ' ( ४|१|६९ ) इति २५ पूर्वस्यात्वे ने च आनङ्के न बदनमिति नस्य द्वित्वाभावे अञ्जिधिषते उणादौ तकिवङ्कीति (६९२) रौ अङ्घ्रिरित्येके । वधु वङ्घते 'ट०' ( ५|३|१०६ ) इत्यः वङ्खा । 'मधुङ् कैतवे च' कैतवं वञ्चना चकारात्याक्षेपे मङ्घते मिमविषते उणादौ श्वन्मातरिश्वन् ० (९०२ ) इत्यनि मघवा । 'राघृङ् लाघुडू सामर्थ्ये' राघते लाघते ऋदित्वाद् हस्वाभावे अरराघत् अललाघत् 'अनुपसर्गा: क्षीब ० ' ( ४/२/८० ) इति क्तयोर्निपातनात् उल्लाघः उल्लाघवान् नीरुक् । द्राघृङ् आयासे च' चकारात्सामर्थ्य आयासः ३० कदर्थनम् । कौशिकस्त्वायाम इत्याह दैर्घ्यविशिष्टायां क्रियायामिति व्याख्यत् । काल्पनिके हि प्रकृतिप्रत्यय विभागे द्राघिमादयः कस्मिंश्चिव्याकरणे धातोरेव साधिताः । एवं नेदत्यादेर्नेदिष्टादयोऽपि द्राघते ऋदित्वात् अदद्राघत् किपि 'गडदबादे० ' (२|१|७७ ) रित्यादिचतुर्थत्वे प्रधाक् | 'श्लाघृङ् कत्थने' कत्थनमुत्कर्षाख्यानम् 'श्लाघहुस्था० ' (२।२।६० ) इति चतुर्थ्यां मैत्राय श्लाघते अशलावत् 'केट ० '
( ५।३।१०६ ) श्लाघा । इति नव घान्ताः सेटश्च । 'लोचङ् दर्शने' लोचते अलुलोचत् क्ते आलो३५ चितः अनटि आलोचनम् 'तिक्कतौ नान्नि' (५।१।७१) इति णके आलोचकम् (लोचकः ?) स्त्रीशिरोवस्त्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org