SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादय आत्मनेपदिनः ५५१ अन्यत्र संश्यानः शीतेन सङ्कचित इत्यर्थः अत्र 'व्यञ्जनान्तस्थात०' (४।२।७१ ) इति तस्य नत्वम् 'प्रतेः' (४।१।९८) इति शीभावे नत्वे च प्रतिशीनः प्रतिशीनवान् प्रतिपूर्वोऽयं रोगार्थः 'वाऽभ्यवाऽभ्याम्०' (४।१।९९) इति वा शीभावे क्तयोर्नत्वे च अभिशीनः अभिश्यानः अवशीनः अवश्यानः 'उपसर्गादात०' (५।१५६) इत्यत्र श्यावर्जनाद् डस्याभावे 'तन्व्यधी०' (५।१।६४) इति णे प्रतिश्यायः [अवश्यायश्च पीनसः। उणादौ मवाकश्यामाकेत्याके निपातनात् श्यामाकः५ हृश्यारुहीतीते (२१०) श्येतः श्याकठीति (२८२)], ने श्येनः विलिभिलीति (३४०) मे किति श्यामः । 'प्यैङ् वृद्धौं' प्यायते अप्यास्त पप्ये प्यासीष्ट प्याता उणादौ तीवरधीवरेति (४४४) निपातनात् पीवरः ध्याप्योरिति (९०८) कनिपि पीवा णस्वरेति ङयां नो रत्वे च पीवरी । इत्यैदन्तास्त्रयः ३ । 'वकुङ् कौटिल्ये' [गतावपीयेके] उदित्त्वान्ने वङ्कते अवङ्किष्ट ववके वशीष्ट वङ्किता अचि वकं काष्ठं उणादौ खुरक्षुरेति ( ३८८-९६) निपातनाद्रे वर्क विकतक्ष्यतीति रिः (३९२ ) १० वक्रिः पार्थास्थि । एवं 'मकुडू मण्डने' मङ्कते सनि मिमङ्किषते 'इडित०' (५।२।४४) इत्यने मङ्कनः मङ्कना वस्त्र विशेषः । उणादौ तकृति ( १८७ ) त्यणे मङ्कणः ऋषिः मङ्केर्न लुक्० (४२४) इत्युरे मुकुरः आदर्शः मुकुलं च मकुरः आदर्शः कल्कः बालपुष्पं च । 'अकुङ् लक्षणे' अङ्कते आङ्किष्ट 'अनातो नश्च०' (४।१।६९) इति पूर्वस्यात्वे ने च आनके 'नां धुट्' (१।३।३९) इत्यत्रान्वित्यधिकरणात् द्वित्वे कर्तव्ये नकार एवास्ते ततो न बदनं संयोगादिरिति नो न द्विरुच्यते अश्चि-१५ किषते 'व्यञ्जनाद् घम्' (५।३।१३२) इति घधि अक्यते अस्मिन्निधाय कान्तावकं शलाकयेत्यङ्कः उत्सङ्गः उणादौ वाश्यसी (४२३) त्युरे अङ्कुरः 'घञ्युपसर्गस्य बहुलम्' (३।२।८६ ) इति दीर्घ अङ्करः । अङ्कण् लक्षणे अङ्कयति 'णिवेत्त्यास.' (५।३।१११) इत्यने अङ्कना । 'शीकृड् सेचने' गतावप्यन्ये तालव्यादिः शीकते अशीकिष्ट शिशीके शीकिता ऋदित्वाण्णौ डे 'उपान्त्यस्यासमान०' (४।२।३५) इति ह्रस्वाभावे अशिशीकत् अचि 'क्तेट ०' (५।३।१०६ )२० इत्यप्रत्यये वा शीका अनटि शेकनं उणादौ ऋच्छिचटि (३९७) इत्यरे शीकरः 'शीकण् आमर्षणे' शीकयति शीकति 'युजादेर्नवा' (३।४।१८) इति वा णिच् । 'लोकृडू दर्शने' लोकते अलोकिष्ट लुलोके ऋदित्त्वाण्णौ : अलुलोकत् लोक्यते लोकः 'भावाऽकोंः' (५।३।१८) इति घनि लोकतेऽस्मिन्नवस्थितोऽनन्तज्ञानः सर्वभावानिति वा लोकः आलोक्यतेऽनेनार्थ इत्यालोकः 'व्यञ्जनाद् घ' (५।३।१३२) इति घन् । लोकृण भासार्थः लोकयति । उणादौ शम्बूकशाम्बूके २५ (६१) त्यके निपानादूर्द्ध लोकनादुलूकः । 'श्लोकृ सङ्घाते' सङ्घातः संहननं श्लोकते अश्लोकिष्ट शुश्लोके ऋदित्त्वाण्णौ डे अशुश्लोकत् पनि श्लोक्यते प्रथ्यते इति श्लोकः । 'द्रेकृ धेकृ शब्दोत्साहे' शब्दस्योत्साह औद्धत्यं द्रेकते धेकते दिद्रेके दिधेके णौ डे अदिद्रेकत् अदिधेकत् घञि उद्रेकः । 'रेकृ शकु शङ्कायां' शङ्का सन्देहः पूर्वस्यार्थः यदाह आरेकं संशयेऽप्याहुः, द्वितीयस्य त्रासश्च । रेकते आरिरेके णौ डे आरिरेकत् 'क्तेट.' इत्यः आरेका घधि आरेकः । शकुङ् शङ्कते 'क्तेट०' इत्यः३० शङ्का दूषिवृती (४८५) त्युले शङ्कला आयुधं । 'ककि लौल्ये' लौल्यं गर्द्धः चापलं च । ककते इदित्त्वात् 'इडित०' ( ३।३।२२) इत्यात्मनेपदम् चकके अत्रादेशादित्वात् 'अनादेशादे० (४।१। २४) रित्येत्वाभावः ककिता अचि काकः पृषोदरादित्वादीर्घत्वम् । 'कुकि वृकि आदाने' कोकते अकोकिष्ट चुकुके कोकिता 'नाम्युपान्त्य.' (५।११५४ ) के कुकः घनि कोकश्चक्रवाकः 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्त्वासनोर्वा कित्त्वे कोकित्वा कुकित्वा चुकोकिषते चुकुकिषते 'उति ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy