________________
५५०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
सनीटि ओर्जान्तस्थेति पूर्वस्योत इत्वे च पिपविषते । यङि पोपूयते । यङ्लुपि पोपोति पोपवीति 'पूङ्क्लिशिभ्यो नवेति क्तक्तवतुक्त्वामादौ वेटि पवितः पवितवान् अत्र डीङिति कित्त्वाभावाद्गुणः पक्षे पूत पूतवान् । पवित्वा अत्र क्त्वेति कित्त्वाभावाद्गुणः पक्षे पूत्वा 'पूदिव्यञ्चे: ० ' ( ४।२।७२ ) इति तयोर्नत्वे पूना यवाः विनष्टा इत्यर्थः 'जिविपून्यो हलि० ' ( ५।१।४३ ) इति क्यपि विपूयो मुञ्जः ५ ‘पूङ्यजः शानः' ( ५।२।२३ ) पवमानः 'हलक्रोडास्ये पुव:' ( ५१२।८९ ) इति त्रुटि हलस्य पोत्रं सूकरस्य पोत्रं 'पुव इत्रो दैवते' ( ५।२।८५ ) पवित्रोऽर्हन् 'ऋषिनाम्नोः करणे' ( ५/२/८६ ) पवित्रः ऋषिः पवित्रं दर्भादि निरभेः पूल्व इति पनि निष्पावः 'नन्यादित्वादने पवनः 'न ख्यापूग्०' (२।३।९० ) इत्यत्र गितो वर्जनात् ' स्वरात् ' ( २।३।८५ ) इति णत्वे प्रपवणं प्रपवणीयम् । उणादौ दद्भ्यमीति (२०० ) ते पोतः पूमुदिभ्यां ( ९३ ) गेति पूगः य्वसिरसि ( २६९ ) त्यने पवनः १० शिक्यास्याट्येति निपातनात् पुण्यं ( ३६१-४) पुत्रादय ( ४५५ ) इति त्रे ह्रस्वे च पुत्रः स्वरेभ्यः इति पविः हुषूद्गोन्नीति तृः ( ८६३ ) पोता पोतारौ । 'पूग्श् पवने' इत्यस्य तु पुनीते पुनाति । 'मृङ् बन्धने' मवति अमविष्ट ममुवे मविषीष्ट मविता 'ग्रहगुहश्चे 'ति सनि नेट् मुमूषते णौ सनि 'ओर्जान्तस्थ०' ( ४।१।६० ) इति पूर्वस्योत इत्त्वे मिमावयिषति । उणादौ चिविपुषी ( २२ ) ति किति के मूकः शीरीति (२०१ ) किति ते मूतः पुटबन्धः जीवनस्य मूतो जीमूतः पृषोदरादिः । शुकिशीति १५(४६३ ) किति ले मूलं नुपस्थिति ( ५४२) किति षे मूषा । इत्यूकारान्तौ द्वौ । 'धुंङ् अवध्वंसने '
धरते अधृत दधेधृषीष्ट धर्त्ता धरिष्यते अधरिष्यत । णिगि मैत्राय शतं धारयति अत्र रुचिकृप्यर्थेत्त्युत्तमर्णाच्चतुर्थी यङि देधीयते यङ्लुपि दीधर्त्ति दरिधर्ति दर्धर्त्ति साहिसात्यतीजपवादे शे धारयः धारेर्धर्चेति खे वसुन्धरा जलन्धरः युगन्धरः 'धारीङ्८ ' ( ५।२।२५ ) इत्यतृशि धारयन्नाचारं अत्र 'तृन्नुदन्त०' (२।२।९० ) इति कर्मणि न पष्ठी । क्विपि क्षेमधृत् । न्यायावायेति निपातनात् करणाधारे २० घापवादे घनि आधारः भिदादिनिपातनादङि धारा प्रपातः धृतिरन्या उणादौ अर्त्तिरीति (३३८) मे धर्मः ऋहृस्त्रित्यणौ (६३८) धरणिः । धृग् धारणे धरति धरते वा 'धृत् स्थाने' धियते चुरादेराकृतिगणत्वात् धारयति उभयपदिषु पठिष्यमाणस्याप्यस्याविध्वंसने धरतीति प्रयोगनिवृत्त्यर्थ इह पाठः । इति ह्रस्व ऋकारान्त एकः १ । 'मेङ प्रतिदाने' प्रतिदानं प्रत्यर्पणं मयते अमास्त ममे मासीष्ट माता क्ये 'ईर्व्यञ्जने०' (४।३।९७ ) इतीत्वे मीयते ' मिमीमादा० ' ( ४।१।२० ) इति स्वरस्येद्भावे द्वित्वाभावे २५ च मित्सते 'आतो डोऽह्वा० ' ( ५/१/७६ ) इत्यत्र मावर्जनादणि द्रोणमाय: यङि मेमीयते यङ्लुपि मामाति मामेति 'दोसोमास्थ ० ' ( ४|४|११ ) इति इ: मितः मितवान् 'निमील्यादि ० ' ( ५|४|४६ ) इति परकालार्था वा क्त्वि अपमित्य याचते अपमाय व्याचते अत्र 'मेङो वा मित्' ( ४।३।८८ ) इति वा मित् पक्षे याचित्वापमयते उणादौ शिगेविं (८०६-११) ति मेरु: नमेरुः स्थाच्छामे (३५७) ति ये माया 'मांक् माने' माति 'माङ्क मानशब्दयोः ' मिमीते । 'दैं त्रै पालने' दयते अदास्त ३० ‘देर्दिगिः०’ ( ४।१।३२ ) इति दिग्यादेशे दिग्ये दासीष्ट 'दा० ' (२।३।७९ ) इति नेर्णत्वे अनुस्वारेत्त्वादिडभावे च प्रणिदाता उणादौ मन्निति (९११) मनि दाम 'दाम् दाने' यच्छति 'दैव् शोधने दायति' 'दांवकू लवने' दाति 'बुदांक दाने' ददाति 'दोंच् छेदने' द्यति । इत्येदन्तौ द्वावनिदौ २ | त्रैङ् त्रायते अत्रास्त तत्रे वासीष्ट त्राता 'ऋहीघ्रा ० ' ( ४।२।७६ ) इति क्तयोस्तस्य च वा नत्वे त्रातः त्राणः त्रातवान् त्राणवान् । 'इयैङ् गतौ' तालव्यादिः श्यायते अश्यास्त शश्ये श्यासीष्ट श्याता 'श्यः शीव३५ मूर्त्तिस्पर्शे नञ्चास्पर्शे' (४ । १।९७ ) शीनं घृतं स्पर्शे तु क्तयोस्तस्य नत्वाभावे शीतं वर्त्तते शीतो वायुः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org