________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादय आत्मनेपदिनः
५४९
दीर्घा -
४ औष्ट औषाताम् औषत ५ वार्णात्प्राकृतं बलीय इति न्यायादन्तरङ्गाद्दीर्घात्प्रागुवादेशे ऊवे ऊवाते विरे ६ ओषीष्ट ७ ओता ८ ओष्यते ९ औष्यत १० सनो 'नामिनोऽनिट्' ( ४।३।३३ ) इति कित्त्वाद्गुणाभावे 'स्वरहन ० ' ( ४|१|१०४ ) इति धातोर्दीर्घे सनो द्वित्वे ऊषिषते । क्तयोः उतः उतवान् णिगि आवयति 'युवर्ण०' (५।३।२८) इत्यलि अवः उणादौ स्वरेभ्य इ: ( ६०६) अविः । कुङ् कवते ४ अकोष्ट अकोषातां ५ चुकुवे ६ कोषीष्ट ७ कोता ८ कोष्यते ९ अकोष्यत १० ' न कवतेर्यङ: ' ५ (४।१।४७) इति कस्य चत्वाभावे कोकूयते खरः तिन्निर्देशाद्यपि चत्वप्रतिषेधाभावे चोकोति । उणादौ कुपूसमिभ्यश्चद् दीर्घश्च (११२) कूच: कूची चित्रोपकरणम् युसुक्तिति (२९७) पे ऊत्वे च कूपः ऋच्छिचटी (३९७ ) त्यरे कबर ः वर्णः, कबरी वेणिः, नीमीति (४४३ ) वरटि दीर्घे च कूवरः स्वरेभ्यः इति ( ६०७ ) इः कविः 'कुंक् शब्दे' कौति चोकूयते ' कुङ्त् शब्दे' कुवते चोकूयते । 'गुङ्' अव्यक्ते शब्दे इत्येके गवते अगविष्ट ५ जुगुवे ६ गोषीष्ट ७ गोता ८ गोध्यते ९१० अगोष्यत १० उणादौ शुभिगृहीति (३५) कित्याके गुवाकम् मवाकेति ( ३७ ) निपातनात् आके गूवाकं हुयामेति ( ४५१ ) त्रे गोत्रम् मृदीकन्दी ( ४६५ ) त्यले गवलम् । न्तमेनं परस्मैपदिनं पुरीषोत्सर्गे केचिदधीयते गवति 'गुंतू पुरीषोत्सर्गे' इत्यस्य तु गुवति । घुङ् घवते ४ अघोष्ट ५ जघुवे ६ घोषीष्ट ७ घोता ८ उणादौ घुयुहीति (२४) के दीर्घे च घूकः । डुङ् शब्दे ङवते ४ अङोष्ट ५ ञङवे ६ ङोषीष्ट ७ ङोता ८ खुङ् चेत्येके । ' च्युङ् ज्युङ् जुङ् प्रुङ् लुङ् १५ गतौ' पञ्चाप्यनिटः च्यवते ४ नित्यत्वात्सिचो लोपात्प्रागेव गुणे अच्योष्ट ५ चुच्युवे ६ च्योषीष्ट ७ च्योता ८ च्योष्यते ९ अच्योष्यत १० णिगि च्यावयति णौ सनि 'श्रुरु ० ' ( ४|१|६१ ) इति वा ओरित्वे चिच्यावयिषति चुच्यावयिषति णौ ङे सन्वद्भावादचिच्यवत् अचुच्यवत् 'नन्द्यादिभ्य० ' ( ५/१/५२ ) इत्यने च्यवनः । ज्युङ् ज्यवते १० उणादौ मवाकश्यामाक० ( ३७ ) इत्याके निपातनात् ज्योन्ताकं स्वेदगृहम् । जुङ् जबते १० 'भूषाक्रोधार्थ ० ' ( ५|२|४२ ) इत्यने जवनशीलो २० जवनः 'प्रात्सूजोरिन्' ( ५/२/७१ ) प्रजवनशील: प्रजवी 'दिद्युद्दह ० ' ( ५।२।८३ ) दिति निपातनात् किपि जूः पिशाचः, जुवौ जुवः 'युवर्णे' त्यलि जवः 'सातिहेति ० ' ( ५।३।९४ ) इति निपातनात् क्तौ जूतिः । सौत्रोऽप्ययं जवति । प्रुङ् प्रवते १० णौ फलवत्कर्त्तर्यात्मनेपदाभावे 'चल्याहार०' ( ३।३।१०८ ) इति परस्मैपदे प्रावयति णौ सनि 'श्रुरु०' इति वा ओरित्त्वे पिप्रावयिषति पुप्रावयिषति णौ ङे सन्वद्भावादपिप्रवत् अपुप्रवत् 'प्रसृल्व ० ' ( ५|१|६९ ) इत्यके २५ प्रवकः 'युवर्ण ० ' ( ५ १३/२८ ) इत्यलि प्रवः 'दियु ०' इति निपातनात् किपि कटप्रूः नदीतीरः उणादौ कमिश्रुंगेति (२२५ ) थे प्रोथ: अश्वघोणाग्रम् । एवं लुङ् प्लवते १० पिप्लावयिषति पुष्प्लावयिषति अपिलवत् अपुप्लवत् 'भव्यगेय ० ' ( ५।१।७ ) इति निपातनाद्वा कर्त्तरि आप्लाव्यश्चैत्रो नद्यां पक्षे भावे 'उवर्णात् ' ( ४।४।५८ ) इति ध्यणि आप्लाव्यमनेन अचि लवः गौरादित्वात् ङयां पुत्री 'आङोरुलो:' ( ५|३|४९ ) इति वालि आप्लवः आप्लावः । ' रुंङ् रेषणे च' चकाराद्गतौ रेषणं ३० हिंसाशब्दः रवते असेष्ट रुरुवे रोषीष्ट रोता 'आङोरुप्लो' रिति वालि आरव ः आरावः 'रोरुपसर्गात्' ( ५/३/२२ ) इति धनि विरावः संरावः । उणादौ तकृश्रिति ( १८७ ) अणे रवणः स्वरेभ्य (६०६) इति इः रविः रुपूभ्यां किदि ( ८०७ ) ति रौ रुरुः ' रुक् शब्दे' रौति । इत्युकान्ता एकादश ११ । 'पूङ् पवने' पवनं नीरजीकरणं पवते ४ सेदूत्वात् अपविष्ट ५ पुपुवे ६ पविपीष्ट ७ पविता ८ 'ग्रहगुहश्च ० ' ( ४ । ४ । ५९ ) इति निषेधापवादे 'ऋस्मिपूङ ० ' ( ४।४।४८ ) इति ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org