________________
५४८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशसीत्यादि ( ८५७-६५) ग्रहणात्तः त्वष्टा त्वष्टारौ 'सूर्भ अनादरे' सूक्षेति असूक्षीत् सुसूर्भ सूक्षिता मनि सुसूर्मा । यान्तोऽयमित्यन्ये सूर्यति असूयात् सुसूर्य मनि 'वोः०' (४।४।१२१) इति यलोपे सूक्ष्मा । 'काक्षु वाक्षु माक्षु काङ्क्षायाम्' उदित्वान्ने काङ्क्षति अकाङ्क्षीत् चकाङ्क्ष कासिता । वाङ्क्षति अवाङ्क्षीत् ववाङ्क्ष । माङ्क्षति अमाङ्क्षीत् ममाङ्क्ष । 'द्राक्षु ध्राक्षु ध्वाक्षु घोरवासिते ५च' चकारात् काङ्क्षायां, त्रयोऽप्युदितः द्राति अद्रासीत् दद्रात । ध्राङ्क्षति अध्राङ्क्षीत् दध्राङ्क्ष अचि ध्राङ्गः । ध्वाङ्क्षति अध्वाङ्क्षीत् दधाङ्क्ष अचि ध्वाङ्क्षः । इति क्षान्ता विंशतिः सेटश्च ।। २० ॥ क्षान्तानां षान्तेषु पाठो युक्तो वैचित्र्यार्थविह कृतः । 'इत्युक्ता भ्वादिधातूनां परस्मैपदिनामिह । षडशीत्यधिका पञ्चशती सर्वाग्रसङ्ख्यया' ॥ १ ॥ 'आत्मनेपदिनोऽप्येवं स्वरानुक्रमतस्तथा । व्यञ्जनानुक्रमतश्च निर्दिश्यन्ते यथाश्रुतम्' ॥ २ ॥
'एधादयः प्रसिद्धा ये ते वक्ष्यन्तेऽत्र कण्ठतः। शेषानलिखाम टीकायां प्रसङ्गात्साधनान्वितान्' ॥ ३ ॥ ॥ ११२ ॥
*अथ भ्वादयः आत्मनेपदिनः। अकारान्ता अप्रसिद्धाः 'गाङ् गतौ' ङित्त्वादात्मनेपदम् 'अनतोऽन्तोऽदात्मने (४।२। ११४ ) अनकारात्परस्यात्मनेपदसंबन्धिनोऽन्तरूपस्यावयवस्यात् इत्ययमादेशो भवति, ततश्च एक१५ द्विबहुत्वेषु गाते गाते गाते, गासे गाथे गाध्वे 'इडेत्पुसि०' (४।३।९४ ) इत्यालुकि गे गावहे गामहे
॥ १ ॥ गेत गेयाताम् गेरन् , गेथाः गेयाथाम् गेध्वम्, गेय गेवहि गेमहि ॥ २ ॥ पञ्चम्यामाद्यत्रिके गाताम् ३ गाव गाथां गाध्वम्, गै गावहै गामहै ॥ ३ ॥ अगात अगातां अगात, अगाथाः अगाथाम् अगाध्वम्, अगे अगावहि अगामहि ॥४॥ अगास्त अगासाता अगासत, अगास्थाः
अगासाथाम् अगाध्वम् , अगासि अगास्वहि अगास्महि ॥ ५ ॥ जगे जगाते जगिरे, जगिषे जगाथे २० जगिध्वे, जगे जगिवहे जगिमहे । ६ । गासीष्ट गासीयास्ताम् गासीध्वम् ७ गाता गातारौ ८ गास्यते
९ अगास्यत १० ॥ इत्याकारान्तः । 'ष्मिङ् ईषद्धसने' 'षः स०' (२।३।९८) इति षस्य सत्वे गुणेऽयादेशे स्मयते विस्मयते १ स्मयेत २ स्मयताम् ३ अस्मयत ४ अस्मेष्ट अस्मेषाताम् अस्मेषत ५ षोपदेशा 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिध्मिये सिध्मियाते सिष्मियिरे ६ स्मेषीष्ट
७ स्मेता ८ स्मेष्यते ९ अस्मेष्यत १० । सनि 'ऋस्मिपूङ०' (४।४।४८) इतीटि सिस्मयिषते २५ णिस्तोरेव.' (२।३।३७) इति नियमान्न षत्वम् यङि सेष्मीयते यङ्लुपि सेष्मेति सेष्मयीति
णौ स्मिङः प्रयोक्तुः स्वार्थे ( ३।३९१) प्रयोक्तुः सकाशाद्यः स्वार्थः स्मयस्तत्र वर्त्तमानाण्णिगन्तात् स्मयतेः कर्तर्यात्मनेपदं स्यादस्य चान्तस्याकारोऽकर्तर्यपि । अकर्तर्यपीत्येव विस्मापनम् । डिन्निर्देशाद्यङ्लुपि न भवति सेष्मापयति ॥ इत्यात्वे आत्मनेपदे च मुण्डो विस्मापयते, करणेन तु विस्मयभावे रूपेणैनं विस्मापयति 'स्म्यजस.' ( ५।२।७९) इति रे स्मेरः । ३० इति हस्खेकारान्तः १ । 'डीङ् विहायसां गतौ' डयते उड्डयते ४ अडयिष्ट अडयिषाताम् अडयिषत
५ डिड्ये डिड्याते डिडियरे ६ डयिषीष्ट ७ डयिता ८ डयिष्यते ९ अडयिष्यत १० डेडीयते डिडयिषते क्योरिति 'न डीशी' (४।३।२७) इति कित्त्वप्रतिषेधात् डयितः डयितवान् 'डीच्' गतौ डीयते क्तयोर्डीयश्यैदितः क्तयोरिति नेट् 'सूयत्या०' (४।२।७०) दीति तस्य नत्वं डीनः ३४ डीनवान् । इति दीर्घकारान्तः १ । 'उङ कुङ्क गुङ घुङ डुङ् शब्दे' पञ्चाप्यनुस्वारेतः अवते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org