SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः ५४७ 'धूगौ' पृथक् योगात् 'सिजाशिषावात्मने' (४।३।३५ ) इति निवृत्तम् । धूग् धोता धविता । औदित् 'रधौच रद्धा रधिता, तृपौच त्रप्ता तर्ता तर्पिता, (पौच ) द्रप्ता दा दर्पिता, नशौच नंष्टा नशिता, मुहौच मोग्धा मोढा मोहिता, द्रुहौच द्रोग्धा द्रोढा द्रोहिता, ष्णुहौच स्लोग्धा स्नोढा रोहिता, स्निहोच् स्नेग्धा स्नेढा स्नेहिता, गुपौच गोप्ता गोपिता जुगुप्सति जुगोपिषति गुहौ निगोढा निगूहिता, गाहौ विगाढा विगाहिता, औस्व स्व" स्वरिता सुस्वूर्षति सिस्वरिपति, पूडौ अदादौ ५ दिवादौ च सोता सविता । 'स्ताद्यशित०' (४।४।३२ )इत्येव ररन्धिव किल ररन्धिम किल । अन्यस्त्वत्रापि विकल्पमिच्छति रेध्व ररन्धिव रेध्म ररन्धिम । स्वरतेस्तु स्ये परत्वात् 'हनृतः स्यस्य' (४।४।४९) इति नित्यमिट् स्वरिष्यति । धूग औस्वृ षूडौ इति त्रयाणां 'ऋवर्णश्यूणुगः कितः (४।४।५७ ) इति 'उवर्णात्' (४।४।५८) इति च परत्वात्किति नित्यमिट - प्रतिषेधः धूत्वा स्वृत्वा सूत्वा । औदित इत्यनुबन्धनिर्देशाद्यङ्लुपि नित्यमिट सरीस्वरिता जोगूहिता । धूगिति गिन्नि-१० देशात्तौदादिकस्य नित्यमिट धुविता । अत्रोणादेरियेव धूसरः । अशौ अक्षरं । एके तु चायिस्फायिप्यायीनामपि । विकल्पमिच्छन्ति निचाता निचायिता निचिचासति निचिचायिषति, आस्फाता आस्फायिता आपिस्फासते आपिस्फायिषते, आप्याता आप्यायिता आपिप्यासते आपिप्यायिषते । अपरः पठति नातिकंस्यति नातिक्रमिष्यति । अन्यस्त्वद्यनतन्यामास्कन्दिषम् आस्कात्समितीच्छति । बहुलमे (के)षां (सर्वेषां धातूनामित्यर्थः ) विकल्पः पक्ता पचिता आस्कन्तव्यं आस्कन्दितव्यं पट्टा १५ पटिता । तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनित्यमिति न्यायाच विचित्रमतयो वैयाकरणाः । ___ आक्षीत् इति 'स्वरादेस्तासु' (४।४१३१) इति वृद्धौ रूपम् । पक्षेऽपीति इडभावेऽपीत्यर्थः, आष्टां आक्षिष्टाम् आक्षुः आक्षिषुः । 'अनात०' (४।१।६९) इत्यात्वे ने च आनक्ष आनक्षतुः आनक्षुः, अनेन वेटि अष्टा अक्षिता वेट्त्वाक्तयोर्नेट् अष्टः अष्टवान् , उणदौ जठरक्रकरे ( ४०३-३९) त्यरे अक्षरम् पदिपठीति (६०७-७०७) इः अक्षि उक्षितक्षीय( ९००)नि अक्षा दृष्टिनिपातः । २० तक्षौ त्वक्षौ इति तनूकरणं कार्यम् । अत्र सूत्रं 'तक्षः स्वार्थे' (३।४।७७) स्वार्थस्तनूकरणं तस्मिन्वर्त्तमानात्तक्षौ इत्येतस्मात्कर्तरि शिति झुर्वा स्यात् । तक्ष्णोति तक्षति काष्टम् । स्वार्थ इति किम् ? संतक्षति शिष्यं निर्भर्त्सयतीत्यर्थः । इदमेव ज्ञापकं धातवोऽनेकार्था इति । तक्ष्णुतः इत्यादि स्पष्टम् । वेदत्वात् क्तयोर्नेट तष्टः तष्टवान् , णके तक्षकः, उणादौ उक्षितक्षीत्यनि तक्षा 'स्त्रियां नृत०' (२।४।१) इति उयां तक्ष्णी । त्वक्षति ४ अत्वक्षीत् अत्वाक्षीत् ५ तत्वक्ष ६२५ स्वष्टा त्वक्षिता ७ वेट्त्वान्नेट त्वष्टः त्वष्टवान् । 'णिक्ष चुम्बने' चुम्बनं वसंयोगः 'पाठे.' (२।३।९७) इति णस्य नत्वे निक्षति 'अदुरुपसर्ग०' (२।३।७७) इति णत्वे प्रणिक्षति परिणिक्षति अनैक्षीत् निनिक्ष निक्षिता 'निसनिक्षनिन्दः कृति वा' (२।३।८४) इति णत्वे प्रनिक्षणं प्रणिक्षणं प्रनिक्षिता प्रणिक्षिता । कृदभावेऽपि वा णत्वमित्येके प्रनिक्षति प्रणिक्षति । एवं निसनिन्दोरपि । 'तृक्ष स्तृक्ष णक्ष गतौ' तृक्षति अतृक्षीत् ततृक्ष अचि तृक्षः तृक्षस्यापत्यं ३० वृद्धं तार्थ्यः । स्तृक्ष स्तृक्षति अस्तृक्षीत् तस्तृक्ष स्तृक्षिता । षोपदेशोऽयमिति चन्द्रः। णक्ष 'पाठे.' इति णस्य नत्वे नक्षति 'अदुरुपसर्गे.' ति णत्वे प्रणक्षति अचि नक्षः उणादौ वृग्नक्षी (४५६) यत्रे नक्षत्रम् । नखादिसूत्रे त्वस्य निपातनं नाम्नां व्युत्पत्तिरव्यवस्थितेति ज्ञापनार्थम् । 'वक्ष रोपे' सङ्घाते इत्येके, वक्षति अवाक्षीत् ववक्ष वक्षिता उणादौ असित्यसि सपत्नीरोषविषयाद्वक्षतीति वक्षः उरः । 'त्वक्ष त्वचने' त्वचनं त्वग्ग्रहणं संवरणं वा त्वक्षति अत्वाक्षीत् तत्वक्ष त्वक्षिता उणादौ शासि-३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy