________________
५४६
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञ है मलघु
मी (२८५ ) ने माहिनं महिनं च राज्यम् महिनो माहात्म्यवान् मह्यविभ्यां टिदिती (५४७) षे महिषः महिषी 'महण् पूजायामित्यस्य तु महयति । इति हान्ताः पञ्चदश मिहं दहं वर्जाः सेटश्च ॥ १५ ॥ उक्ष सेचने उक्षति औक्षीत् 'गुरुनाम्यादे० ' ( ३।४।४८ ) इति परोक्षाया आमादेशे उक्षानकार उक्षिता 'व्यतिहारेऽनीहादिभ्यो न' ( ५।३।११६ ) इति जे नित्यं अभिनोणि ( ७।३।५८) ५ त्यणि व्यात्युक्षी उणादौ उक्षितक्षी ( ९०० ) त्यनि उक्षा तक्षा । 'रक्ष पालने' चौराद्रक्षति अरक्षीत् ररक्ष रक्षिता ‘ग्रहादि०' ( ५।१।५३ ) ति णिनि रक्षी के रक्षितः सेदत्वात् 'तेट०' ( ५|३|१०६ ) इत्यः रक्षा उणादौ असित्यसि रक्षः भीमादित्वादपादाने साधुः प्रज्ञादित्वात्स्वार्थेऽणि राक्षसः | 'मक्ष मुक्ष सङ्घाते' मक्षति अमक्षीत् ममक्ष मक्षिता णके मक्षिकां रोषेऽयमित्येके घञि मक्षो मन्युः । मुक्ष मुक्षति अमुक्षीत् मुमुक्ष मुक्षिता ।
१०
अक्षौप्रभृतीन् कण्ठतो निर्दिशति 'अक्षौ व्याप्तौ च' चकारात्सङ्घाते ॥ १०८ ॥ अत्र सूत्रम् -
१५
२०
वाऽक्षः ॥ १०९ ॥
[ सि० ३।४।७६ ]
अस्मात्कर्तरि शिति श्रुर्वा स्यात् ॥ १०९ ॥
'वा० ' स्पष्टम् ॥ १०९ ॥ अत्रोपयोगिसूत्रम् —
उश्नोः ॥ ११० ॥ सि० ४।३।२]
धातो परयोरकिति गुणः स्यात् । अक्ष्णोति ।। ११० । 'उ०' व्यक्तम् ॥ ११० ॥ अविति प्रत्यये सूत्रम्
शिदवित् ॥ १११ ॥ [ सि० ४।३।२०]
धातोः परोऽवित् शित्प्रत्ययो ङिद्वत्स्यात् । अक्ष्णुतः । भ्रूश्नोरित्युवादेशे । अणुवन्ति १ । अक्ष्णुयात् २ । अक्ष्णोतु अक्ष्णुतात् । अक्ष्णुहि ३ । आक्ष्णोत् ४ । पक्षे अक्षति ४ ।। १११ ॥
'शिद०' ङित्त्वाद्गुणाभावादिकं भवति यथा इतः सुतः जागृतः वित्तः अधीते संवित्ते दीव्यति सुनुतः तुदति क्रीणाति अधीयन् अधीयानः विदन् संविदानः, एषु गुणाभावः । जिनाति विध्यति गृह्णाति वृश्चति एषु वृत् । हतः अत्र नकारलुक् । घ्नन्ति अत्रोपान्त्यलुक् । शंशान्तः तंतान्तः अत्र अहन्पञ्चमस्ये (४।१।१०७ ) ति दीर्घः । अविदिति किम् ? एति जुहोति जयति । शिदिति किम् ? चेषीष्ट चेत्ता । कथं च्यवन्ते प्लवन्ते इत्यादौ शवो लोपे अन्ते इत्यस्य ङित्त्वाद्गुण उच्यते, अन्तरङ्ग२५ त्वाद्गुणे कृते शवो लोपः स्थानिवद्भावाद्वा शवो ङिवाद्गुण' इति । पक्षे अक्षतीत्यादि स्पष्टम् ॥ १११ ॥ धूगौदितः ॥ ११२ ॥ [ सि० ४ ४ ३८ ]
1
Jain Education International
धूग औदि परस्य स्ताद्यशित आदिरिवास्यात् । इटि आक्षीत् । पक्षेऽपि आक्षीत् । तक्षौ त्वक्षौ तनूकरणे । तक्षः स्वार्थे वा (३।४।७७) श्रुः शिति । तक्ष्णोति ततः ४ इति । अतक्षीत् । पक्षे व्यञ्जनानामनिटीति वृद्धौ संयोगस्यादाविति कलुकि, पस्य कत्वे ३० अताक्षीत् अतक्षिष्टाम् - अताष्टाम् अतक्षिषुः - अताक्षुः ५ । ततक्ष ६ । तक्ष्यात् ७ । तक्षितातष्टा ८ | तक्षिष्यति - तक्ष्यति ९ । अतक्षिष्यत् १० ॥ ११२ ॥
३२
इति भ्वादयः परस्मैपदिनः । १
For Personal & Private Use Only
www.jainelibrary.org