________________
५४४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधीति रे(३९७ )घस्रः दिनम् मरविषय एव घसिरित्येके । हस् धातुं कण्ठतो निर्दिशति । 'हसे हसने हसति । एदित्त्वावृद्ध्यभावे इति-व्यञ्जनादेोपान्त्यस्यातः' (४।३।४७) इति वृद्धिविकल्पे प्राप्ते 'नश्विजागृशसक्षणहयेदितः' (४।३।४९) इति सूत्रप्रामाण्याद्वृद्धिप्रतिषेध इति भावः । क्रियाव्यतिहारे हसो वर्जनान्नात्मनेपदं व्यतिहसन्ति 'नवा कणेति (५।३।४८) वाऽलि हसः हासः उणादौ दम्यमीति ५ते (२००) हस्तः भीवृधीति रे (३८७) हस्रः दिनं सहस्रं दशशतानि । 'पिस पेस वेस गतौ' पेसति ऋदित्त्वाद्वाङि अपेसीत् अपिसत् पिपेस पिपिसतुः 'नाम्युपान्त्य०' (५।१।५४ ) इति के पिसः 'स्थेशभास.' (५।२।८१) इति वरे पेसनशीलः पेखरः 'पिसण् हिंसायामित्यस्य तु पेसयति' पेस पेसति अपेसीत् २ पिपेस पेसिता । वेस वेसयति अवेसत् २ वेसिता ते वेसितम् उणादौ जठर
करेति (४०३.४३९) निपातनादरे वेसरः। शसू हिंसायाम्' तालव्यादिः शसति 'न विजागृ०' १० (४।३।४९) इति वृद्धिप्रतिषेधात् अशसीत् २ शसास 'अनादेशादे०' (४।१।२४ ) रित्येत्वस्य 'न
शसददि० (४।१।३०) इति प्रतिषेधात् शशसतुः शशसुः अदित्त्वात् शस्त्वा शसित्वा 'धृषशसः.' (४।४।६६) इति प्रगल्भ एव नेट विशस्तः प्रगल्भः अन्यत्रेदि विशसिता । नीदाविति त्रुटि शस्त्रम् उणादौ शासिशंसीति तृः (८५७) विशस्ता घातकः । 'शंसू स्तुतौ च' तालव्यादिः चकारात् हिंसायाम् शंसति अशंसीत् शशंस शशंसतुः शशंसुः शंसिता अदित्वात् शस्त्वा शंसित्वा । त्कि वेदत्वात् १५क्तयोर्नेट् शस्तः शस्तवान् कृषीति (५।१।४२) वा क्यपि प्रशस्यम् पक्षे ध्यणि प्रशंस्यम् अणि
नृशंसः यो मृतात् शंसति निर्गतशंसो वा नृशंसः निरनुकम्प इत्यर्थः । पृषोदरान्निरो नृभावः अनेकार्थत्वाद्रोहार्थत्वे नून् शंसतीति नृशंसः । ब्राह्मणादाहृत्य शंसतीति ब्राह्मणाच्छंसी निपातनात् ङसेरलुप् 'शंसिप्रत्ययात्' (५।३।१०५) इत्यः प्रशंसा । उणादौ चिमिदीति किति त्रे (४५४ ) शस्त्रम् स्तोत्रं
आयुधं च । शासिशंसी ति तृः ( ८५७ ) शंस्ता पशुः विशसिता । 'जर्स परिभाषणे' हिंसा२० तर्जनेष्वित्येके, जहँति जहँन्ती स्त्री । इति सान्तास्त्रयोदश घस्लं वर्जाः सेटश्च ॥ १३ ॥
'दहं भसीकरणे' । दहति । ४ । भ्वादेदादेर्घः । इति हस्य घत्वे । गडदवादेरिति दस्य धत्वे अघोषे प्रथमोऽशिट इति घस्य कत्वे अधाक्षीत् धुड्हस्वादिति सिज्लुपि ।
अधश्चतुर्थात्तथोधः ॥ १०७ ॥ [ सि० २।१।७९] चतुर्थात्परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोधः स्यात् । अदाग्धाम् अधाक्षुः ५ । ददाह २५ देहतुः देहुः ६ । दह्यात् ७ । दग्धा ८ । वक्ष्यति ९ । अधक्ष्यत् १० । 'मिहं सेचने । मेहति ४ । हशिट इति सकि अमिक्षत् ५। मिमेह मिमिहतुः ६ । मिह्यात् ॥ १०७ ॥
दहमिही पाठतः प्रकटयति 'दहं भस्मीकरणे' दहति सर्वं स्पष्टम् । ध्यणि दाह्यं 'व्यञ्जनाद् घन्' (५।३।१३२) निदह्यतेऽस्मिन्निति निदाघः, भावे घनि दाघः, कर्मणि अवदाघः । पक्षे न्यङ्कद्वेति
(४।१।११२) धत्वम् अन्यत्र अवदाहः 'वेर्दहः' (५।२।६४) इति घिनणि विदहनशीलो विदाही । ३०परेरिति (५।४।८) परिदाही । उणादौ यवसिरसीत्यने ( २६९) दहनः । 'मिह सेचने' मेहति । सर्व स्पष्टम् ॥ १०७ ॥ श्वस्तन्यां सूत्रम्
ढस्तड्ढे ॥ १०८ ॥ [सि० १॥३॥४२] ३४ तनिमित्ते ढे परे ढस्यानु लुक् स्यात् । दीर्घश्वादिदुतः । मेढा ८ । मेक्ष्यति ९ । अमेक्ष्यत् १० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org