SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ५४३ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः च' चकारात्सेचने मर्षति अमर्षीत् ममर्ष मर्षिता ऊदित्त्वात् कि वेट् मृष्टा । इटि 'ऋत्तृष०' (४।३।२४) इति क्त्वो वा कित्त्वे मृषित्वा मर्षित्वा वेट्त्वात् क्तयोर्नेट् मृष्टः मृष्टवान् अत्रानिट्वात् क्तयोः क्षान्तावपि 'मृषः क्षान्तौ' (४।३।२८) इति न कित्त्वप्रतिषेधः 'शासूयुधि०' (५।३।१४१) इत्यने दुर्मर्षणः 'मृषीच तितिक्षायां' इत्यस्य तु मृष्यति मृष्यते अपमृषितं वाक्यमाह । 'उषू श्रिषू श्लिषू पृषू प्लुषू दाहे' पश्चाप्यूदितः ओषति औषीत् 'जाग्रुष०' (३।४।४९) इति वामादेशे५ ओषाञ्चकार उवोष उषिता ऊदित्त्वात् क्त्वि वेट उष्ट्वा उषित्वा । ये तूदितं न मन्यन्ते तन्मते उषित्वेत्येव भवति उणादौ उषेः किल्लुकचेति खे (८८) उखा वनिकणीति ठे (१६३ ) ओष्ठः घृवीह्वेति णे (१८३) उष्णम् सूमूखनीति . किति त्रुटि (४४९) उष्ट्रः उषेर्जचेत्यसि (९५९) ओजो बलम् मिथिरञ्जयूषीति कित्यसि (९७१) उषः प्रातः । श्रिषू श्रेषति अश्रेषीत् शिश्रेष श्रेषिता श्रिष्ट्वा श्रेषित्वा श्रिषित्वा श्रिष्टः श्रिष्टवान् । श्लिषू श्लेषति अश्लेषीत् शिश्लेष श्लेषिता श्लिष्टा ३ श्लिष्टः २१० 'श्लिषंच आलिङ्गने' इत्यस्य तु श्लिष्यति श्लेष्टा श्लेष्मा 'श्लिषण् श्लेषणे' इत्यस्य तु श्लेषयति । पुषू प्रोषति अप्रोषीत् पुप्रोष प्रोषिता घुष्ट्वा ३ । प्लषू प्लोषति अप्लोषीत् पुप्लोष प्लोषिता प्लष्ट्वा ३ प्लुष्टः २ 'लुषूच् दाहे' इत्यस्य तु प्लष्यति 'अष् प्लष्श् स्नेहसेचनपुरणेषु' इत्यस्य तु पुष्णाति प्लुष्णाति । 'घृषू संघर्षे' घर्षति अघर्षीत् जघर्ष घर्षिता 'नन्द्यादिभ्यः' (५।११५२) इत्यने संघर्षणः उणादौ निघृषीति किति वे (५११) निघृष्वोऽनुकूलः । 'हृषू अलीके' हर्षति अहर्षीत् जहर्ष हर्षिता ऊदित्त्वात् हृष्ट्वा हर्षित्वा १५ वेट्त्वात् क्तयोर्नेट हृष्टः हृष्टवान् शील्यादित्वादत्र सत्यर्थे क्तः 'हृषेः केशलोमविस्मयप्रतिघाते' (४।४७६) इति वा नेटि हृष्टाः हर्षिताः केशाः हृष्टं हृषितं केशैः एवं हृष्टानि हृषितानि लोमानि हृष्टं हृषितं लोमभिः हृष्टः हृषितः चैत्रः विस्मित इत्यर्थः । हृष्टा हृषिता दन्ताः प्रतिहता इत्यर्थः । उणादौ हृषिवृतीत्युले (४८५) हर्षुलः कामी हृषिपुषीति णाविनौ (७९७ ) हर्षयिनुः स्वजनः 'तुषं हृषंच तुष्टौ इत्यस्य तु हृष्यति । 'पुष पुष्टौ' पोषति अपोषीत् पुपोष पोषिता 'स्वस्नेहार्थात्' (५।४।२० ६५) इति णमि पोषम् गोपोषं रैपोषं पुषितः उणादौ सुपुषिभ्यां किदिति करे (४३६) पुष्कम् वलिपुषे कलक् (४९६) पुष्कलः हृषीपुषीति णाविनौ (७९७ ) पोषयित्नुः मेघः 'पुषंच् पुष्टौ' पुष्यति 'पुषश् पुष्टौ' पुष्णाति 'पुषण धारणे' पोषयति । 'भूष तसु अलङ्कारे' भूषति अभूषीत् बुभूष भूषिता क्ते भूषितः क्ते सेट्त्वात् 'केट' (५।३।१०६) इत्यः भूषा अनटि भूषणम् । इति षान्ता एकचत्वारिंशत् कृषवर्जाः सेटश्च ॥४१॥ तसु उदित्त्वान्ने सति अतंसीत् ततंस तंसिता २५ व्यञ्जनाद् घषि उत्तंसः अवतंसः 'भूष तसुण अलकारे' इत्यस्य तु भूषयति तंसयति । 'तुस हसहस रस शब्दे' तोसति अतोसीत् तुतोस तोसिता उणादौ मृदिकंदीत्यले (४६५) तोसलो राजा देशो वा । हस हसति अह्रासीत् जह्वास ह्रसिता क्ते ह्रसितः उणादौ लटीखटीति वे (५०५) ह्रस्वः । हस हसति अह्रासीत् जह्वास जलसतुः हसिता क्ते ह्रसितः। रस रसति अरासीत् ररास रेसतुः रसिता क्ते रसितं उणादौ रसेर्वेति णिति ने (२६०) रास्ना ओषधिः रस्ना जिह्वा 'रसण आस्वादनस्नेहनयोः'३० अदन्तः रसयति कर्मण्यलि रसः य्वसिरसित्युणादावने (२६९) रसनं जिह्वा । 'लस श्लेषणक्रीडनयोः' लसति अलासीत् ललास लेसतुः लेसिता क्ते लसितं अचि लसः कर्मसु श्लिष्टः समाहित इति यावत् न लसोऽलसः 'वेर्विच०' (५।२।५९) इति घिनणि विलसनशीलो विलासी ध्यणि लास्यम् पनि विलासः । 'घस्लं अदने' घसति लदित्वादङि अघसत् जघास जक्षतुः जक्षुः अत्र 'गमहन०' (४।२।४४) इत्युपान्त्यलोपे 'अघोष०' (१।३।५०) इति प्रथमत्वे 'घखसः' (२।३।३६) इति षत्वम् अनुस्वारेत्वान्नेट् घस्ता 'सृघस्यदो मरक्' (५।२।७३) घस्मरः घधि घासः उणादौ भीवृ-३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy