SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ५४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहमलघुकिदिः (६०९) कृषिः कृषेश्चवादेरित्यणौ (६४१) चर्षणिः चर्षणी कुलटां कृषिचमीत्यू (८२९) कर्षः कुल्या, कृषीत् विलेखने इत्यस्य तु कृषति कृषते । 'कष शिष जष झष वष मष मुष रुष रिष यूष जूष शष चष हिंसायाम्' त्रयोदश । कषति 'कषः कृच्छ्रगहने' (४।४।६७) इति क्तयोर्नेट् कष्टं कृच्छ्रे गहनं च 'कषोऽनिटः' (५।३।३) इति भविष्यति क्त प्रत्यये कष्टमिति साधुः । ५समिग्निकषिभ्यामाः (५९८) निकषा पर्वतं नदी । शिष तालव्यादिः शेषति अशेषीत् शिशेष शेषिता केचिदिटं नेच्छन्ति शेष्टा 'नाम्युपान्त्य०' (५।११५४ ) इति के शिषः कर्मणि पनि शेष शिषण असवोपयोगे शेषयति अचि शेषः । अत्र युजादित्वाद्वा णिच् पक्षे शेषति । एवं जषति झषति वषति । मषति कर्मणि घनि'माषः । मुष मोषति मुषेर्दीर्घश्चेत्युणादाविके (४३) मूषिकः मूषिका, स्त्री। रुष रोषति तादौ 'सहलुभेच्छ०' (४।४।४६) इति वेट्त्वात् रोष्टा रोषिता रोष्टुं रोषितुं 'वेटोऽपतः' १०(४।४।६२) इति निषेधापवादे श्वसजपेति (४।४।७५) क्तयोर्वा नेटि रुष्टः रुषितः शील्यादित्वादत्र सत्यर्थे क्तः । 'रुषच रोपे' रुष्यति । रिष रेषति 'सहलुभेच्छ०' इति वेटि रेष्टा रेषिता वेट्त्वात् क्तयोर्नेट रिष्टः रिष्टवान् रिष्टं अरिष्टम् उणादौ निघृषीति किति वे (५११) रिष्वः । यूपति अयुषीत् युयूष 'नाम्युपान्त्ये०' ति के यूषः यूषं गौरादित्वात् ङ्यां यूषी । जूषति 'नाम्युपान्त्ये०' ति के जूषः क्ते जूषितः 'क्तेट०' (५।३।१२६) इत्यः जूषा । शष तालव्यादिः शषति उणादौ पम्पाशिल्पेति पे १५ (२९९.३००) शष्यति पे शष्यन्ते शष्पः बालतृणम् । चषति 'तिकृतौ नाम्नि' (५।१७१) इत्यकटि चषकः । खषेत्यपि कण्णः खषति । 'वृषू सङ्घाते च' चकाराद्धिंसायाम् । वर्षति अवर्षीत् ववर्ष ववृषतुः वर्षिता वेट्त्वात् 'क्तयोर्नेट वृष्टः वृष्टवान् । 'भष भर्त्सने' भर्त्सनं कुत्सितशब्दकरणम् । अतो भर्त्सने शब्दकर्मकोऽयं भषति श्वा बुक्कतीत्यर्थः । भषति भषकः पैशुन्येन वक्तीत्यर्थः । बभाष भषिता अचि भषः गौरादित्वात् उयां भषी ते भषितम् 'तिकृतौ नाम्नी'त्यकटिः भषकः । २० 'जिषू विषू मिषू निषू पृषू वृषू सेचने' षडप्यूदितः जेषति अजेषीत् जिजेष जेषिता । विषू वेषति परिवेषति वेषिता विष्ट्वा विषित्वा वेषित्वा 'विष्लंकी' व्याप्ती इत्यस्य तु वेवेष्टि वेविष्टे । मिषू मेषति मेषिता मिष्ट्वा मेषित्वा मिषित्वा 'लिहादिभ्यः' (५।१।५०) इत्यचि मेषः । 'मिषत् स्पर्धायाम्' मिषति । 'निषू नेषति नेषिता निष्ट्वा नेषित्वा निषित्वा । बहुभिरयं न पठ्यते । पृषू पर्षति पर्षिता पृष्ट्वा पर्षित्वा वेदत्वात् क्तयोर्नेट् पृष्टः पृष्टवान् 'नाम्युपान्त्यः' इति के पृष्टः 'ऋदुपान्त्याद०' (५।११४१) २५इति क्यपि पृष्यम् उणादौ पीविशीति किति ठे (१६३) पृष्ठम् पृषिरञ्जीति कित्यते (२०८) पृषतः मृगः बिन्दुश्च क्रुशिपिशीति कितीते (२१२) पृषितं वारिबिन्दुः हिरण्ये निपातनादन्ये परिपर्षतीति (३८०) पर्जन्यः ऋद्धिति किति णौ (६३५) पृष्णिः किरणः पृषिहृषिभ्यां वृद्धिश्चेति णौ (६३६) पाणिः द्रुहीवृहीति कतरि ( ८८४ ) पृषन्ति जलबिन्दवः पृषती मृगी स्थूलपृषतीमालभेत । वृष वर्षति अवर्षीत् ववर्ष वर्षिता वृष्ट्वा वर्षित्वा वृष्टः वृष्टवान् ‘ज्ञानेच्छा!र्थ' (५।२।९२) इति सत्यर्थे ३० क्ते वृष्टो मेघः कृषीति वा क्यपि (५।११४२) वृष्यं वयम् । 'नाम्युपान्त्ये.' ति के वृषः 'शकम०' (५।२।४०) इत्युकणि वर्षणशीलो वर्षकः वर्षादयः क्लीबे (५।३।२९) इत्यलि वर्षम् 'भिदादयः' (५।३।१०८) इति निपातनादङि वर्षाः क्रुत्संपदादिभ्य (५।३।११४) इति क्विपि प्रवर्षति प्रवर्षन्त्यत्र मेघा इति वा प्रावृट् । अत्र गतिकारकस्य०' ( ३।२।८५) इति प्रस्य दीर्घः उणादौ ऋषिवृषी कित्यभे (३३१) वृषभः तृपिवपीति कित्यले (४६८) वृषलः ऋद्धिति किति णौ (६३५) वृष्णिः ३५ लूपूरिवति कित्यनि (९०१) वृषा इन्द्रः दिविपुरीति किदाः (५९९) वृषाः प्रबलम् । 'मृषू सहने Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy