SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः ५४१ अषति औषीत् गुरुनाम्यादेरित्यामादेशे ऊषाञ्चकार 'नाम्युपान्त्येति' के ऊषः अनटि ऊषणम् मरिचम् त्र्यूषणं त्रिकटुकं मनि ऊष्मा ऊपरं क्षेत्रमिति तु ऊषात् 'रोऽश्मादेः' (६।२।७९) इति चातुरर्थिके रे ऊपरं जलमिति 'मध्वादिभ्यः' (७।२।२६) इति मत्वर्थीये रे सिद्धम् । ईष उञ्छे' उज्छ उच्चयनं ईषति ऐषीत् 'गुरुनाम्यादे०' (३।४।४८) रित्यामादेशे ईषाश्चकार ईषिता क्ते सेट्त्वात् 'तेट०' (५।३।१०६) इत्यः ईषा व्रणगवेषणी मञ्चकाद्यवयवश्व, उणादौ ऋच्यूजीतीके (४८) ईषीका शृण-५ शलाका इषीकेति तु 'इषत् इच्छायामि' त्यस्य । कृषधातुं कण्ठतो निर्दिशति 'कृष विलेखने' विलेखनं हलोत्कषणं कर्षति कर्षतः कर्षन्ति तसादौ अविच्छितो ङित्त्वेऽपि शवो विच्छित्त्वात्तन्निमित्तको गुणः स्यादित्याह 'लघोरुपान्यस्य' (४।३।४) इत्यादि ॥ १०३ ॥ अद्यतन्यां सूत्रम् स्पृशमृशकृषतृपडपो वा ॥ १०४ ॥ [सि० ३।४।५४] एभ्योऽद्यतन्यां सिच् वा स्यात् ॥ १०४॥ 'स्पृश.' एभ्य इति 'स्पृशंत् संस्पर्श' 'मृशंत् आमर्शने 'कृषीत् विलेखने 'कृषं विलेखने' इति च 'तृपौच प्रीतौ' 'हपौच हर्षमानयोः' एभ्य इत्यर्थः सिजागमे ॥ १०४ ॥ सूत्रम् स्पृशादिसृपो वा ॥ १०५॥ [ सि० ४।४।११२] स्पृशादिपश्चकस्य सृपश्च खरात्परो धुडादौ प्रत्ययेऽदन्तो वा स्यात् न तु किति । शेषं दृशिवत् । अक्राक्षीत् अक्राष्टाम् अक्राक्षुः । अकार्षीत् अकार्टीम् अकार्षुः । पक्षे ॥ १०५॥ १५ 'स्पृशा' वैकल्पिके अदागमे अस्पाक्षीत् अम्राक्षीत् अक्राक्षीत् अत्राप्सीत् अद्राप्सीत् अदागमाभावे अस्पार्षीत् अमाीत् अकार्षीत् अतार्सीत् अदासीत् , अदृपत् अतृपत् तृपहपयोः पुष्यादित्वादङि शेषाणां तु सकि प्राप्ते वचनं । तथा चाह पक्षे इति सिविकल्पपक्षे इत्यर्थः ॥ १०५॥ अत्र सूत्रम्हशिटो नाम्युपान्त्याददृशोऽनिटः सक् ॥ १०६ ॥ [सि० ३।४।५५] २० हान्ताच्छिडन्ताच नाम्युपान्त्याशिर्जादनिटोऽद्यतन्यां सक् स्यात् । सिजपवादः । अक्षत् अकृक्षताम् अकृक्षन् ५। चर्कर्ष चषतुः ६ । कृष्यात् ७ । ऋष्टा कट ८ । क्रक्ष्यति कर्ण्यति ९। अक्रक्ष्यत् अकय॑त् १० । 'हसे हसने । हसति ४ । एदित्त्वादृद्ध्यभावे । अहसीत् अहसिष्टाम् अहसिषुः५। जहास ६ । हस्यात् ७ । हसिता ८॥ हसिष्यति ९ । अहसिष्यत् १०॥१०६॥ __ "हशि०' सिजपवाद इति सिचो परो यः सक् प्रत्ययः यथा दुह् अधुक्षत्, विश् अविक्षत् ,२५ लिहलिशोः अलिक्षत्, द्विष अद्विक्षत् । हशिट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत् । विकल्पितेटोऽपि पक्षेऽनिदत्वात् भवति न्यघुक्षत् अन्यत्र न भवति न्यगृहीत् । 'नन्द्यादिभ्य०' (५।१।५२) इत्यने संकर्षणो हली अन्यत्र 'नाम्युपान्य०' (५।१।५४ ) इति के संकृषः 'व्यञ्जनाद्' (५।३।१३२) घनि आकर्षः द्यूतफलहकं उपपीडेति (५।४।७५)णमि पटोपकर्ष धावति भ्राष्ट्रापकर्ष धानाः खादति ३० 'तृतीयोक्त वा' (३।१।५०) इति वा तत्पुरुषः पक्षे पटे पटेन वा उपकर्ष धावति भ्राष्ट्रे भ्राष्ट्रेण वा उपकर्ष धानाः खादति, उणादौ कृषेर्गुणवृद्धी च वेयके (३१) कर्षकः कार्षक: कृषकश्च कुटुम्बी, पापुलीति कितीके (४१) कृषिकः पामरः घृवीहेति किति णे ( १८३ ) कृष्णः, नाम्युपान्त्येति ३३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy