________________
५४० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
'लघो' ततो वित्परोक्षायां गुणः ददर्शति । अवित्परोक्षायाश्च कित्त्वात् गुणाभावः ददृशतुरित्यादि । यथा च भेत्ता गोप्ता वर्तिता भेदनं गोपनं वर्तनं वेत्ति दोग्धि नर्नति । लघोरिति किम् ? ईहत ऊहते । उपान्त्यस्येति किम् ? भिनत्ति । अक्कुितीत्येव भिन्नः बेभिद्यते । दृश्यादिति आशीः क्यातः कित्त्वाददागमाभावः श्वस्तन्यादित्रयस्याडिन्त्वाददागमः ॥ १०१॥ ५
दंश सञ्जः शवि ॥ १०२ ॥ [सि० ४।२।४९] दंशं दशने । लुक् । दशति ४ । अदालीत् ५। ददंश ६ । संयोगान्तत्वादवित्परोक्षायाः कित्त्वाभावे नलोपाभावः । ददंशतुः॥१०२॥
'दशं दशने दशनं दन्तकर्म 'दंशसञ्जः शवि' (४।२।४९) इति सूत्रम् , लुक् इति टीका, उभयमपि स्पष्टम् । अदाङ्क्षीत् अदष्टिाम् अदाक्षुः, अदाङ्क्षीः अदांष्टम् अदांष्ट, अदाङ्क्षम् १० अदाक्ष्व अदाझ्म । संयोगान्तत्वादिति इन्ध्यसंयोगात्परोक्षा किद्विति सूत्रप्रामाण्यात् ॥ १०२ ।। आशिषि सूत्रम्
___ नो व्यञ्जनस्यानुदितः ॥ १०३॥ [सि० ४।२।४५] व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नः किति परे लुक् स्यात् । दश्यात् ७ । दंष्टा ८॥ दक्ष्यति ९ । अदक्ष्यत् १० । कृषं विलेखने । लघोरुपान्त्यस्येति गुणे कषेति ४ ॥१०३॥ १५ 'नो व्य०' स्पष्टम् व्यञ्जनान्तस्येति किम् ? नीयते । अनुदित इति किम् ? 'टुनदु समृद्धौ' नन्द्यते
नानन्द्यते । कितीत्येव संसिता ध्वंसिता । उपान्त्यस्येत्येव नह्यते नानह्यते । ततो दश्यादित्यादि रूपसिद्धिः । श्वस्तन्यादेरडित्वान्नलोपाभावः दंष्टा इत्यादि । अनुस्वारेत्वान्नेट कर्मणोऽणि वृषं मूषिक दशति वृषदंशः बिडालः 'दंशेखः' (५।२।९०) दंष्ट्रा । अचि दंशः दंशी । घनि उपदंशः 'दशनावो
दैधौध्मप्रश्रथहिमश्रथम्' (४।२।५४) इति निपातनादनटि दशनं । अवोद इति अत्र गुणे कृते २० 'उपसर्गस्यानिणेधेदोति' (१।२।१९) इत्यकारलोपः एधः उद्मः प्रश्रय हिमश्रथः अत्र अवपूर्वस्य
उन्देः इन्धेश्च थत्ति उन्दे मनि न लोपः प्रहिमपूर्वस्य श्रथेबि वृद्ध्यभावश्च निपात्यते । एवमनेनैव दशनो दंशः 'दशेस्तृतीयया' (५।४।७३) इति णमि मूलकेनोपदंशं भुते अत्र 'तृतीयोक्तं वा' (३।१।५०) इति वा तत्पुरुषः उणादौ लूपूय्विति कित्यनि (९०१) दश घटाः । इति शान्ताः
सप्त तत्राद्याः पञ्च सेटः अन्त्यौ द्वावनिटौ च ॥ ७ ॥ 'घृष शब्दे' घोषति ऋदित्वाद्वाङि अघुषत् २५अघोषीत् जुघोष 'घुषेरविशब्दे' (४।४।६८) इति क्तयोर्नेट् घुष्टा रजुः विशब्दने त्विटि अवघुषितं
वाक्यमाह, सम्पूर्वात् 'श्वसजप०' (४।४।७५) इति वा मेटि सङ्घष्टा सघुषिता रज्जुः, सङ्घष्टं सङ्घषितं वाक्यं । 'घुष्टण विशब्दने' घोषयति आङः क्रन्दे आक्रन्दयति । उणादौ हृषिपुषीतीनौ (७९७) घोषयित्नुः शब्दः । 'चूष पाने' धूषति अचूषीत् चुचूष । 'तूष तुष्टौ' तूषति अतूंषीत् तुतूष तूषिता । 'तूषं हृषं च तुष्टौ' तुष्यति । 'पूष वृद्धौ' पूषति अपूषीत् पुपूष उणादौ उक्षित३०क्षीत्यनि (९००) पूषा । 'लुष मूष स्तेये लोषति अलोषीत् लुलोष लोषिता 'नाम्युपान्य.' (५।१।५४ ) इति के लुषः । मूषति अमूषीत् मुमूष 'नाम्युपान्त्ये०' ति के मूषः मूषा तेजसावर्तनी गौरादित्त्वात् ड्यां मूषी णके मूषकः । 'पूष प्रसवें' 'षः स.' (२।३।९८) इति षस्य सत्वे
सूपति असूषीत् षोपदेशत्वात् षत्वे सुषूष येषां तु सोपदेशस्तन्मते षत्वाभावे सुसूष 'नाम्युपान्त्येति' ३४के सूषः गौरादित्वात् ज्यां सूषी । तालव्याविरयमिति चारकाः शूषा शाकम् । 'ऊष रुजायाम्'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org