________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादयः परस्मैपदिनः
५३९
अजरत् अजारीत् । परस्मैपद इत्येव - अरुद्ध अभित्त ॥ प्रकृते तु दृश् धातोः ऋदित्वादनेनाङि अङो ङिन्त्वात् 'नामिनो गुणोऽक्ङिति' ( ४ | ३ | १ ) इति गुणनिषेधे प्राप्ते ॥ ९७ ॥ सूत्रम् -
ऋवर्णदृशोऽङि ॥ ९८ ॥ [ सि० ४।३।७ ]
ऋवर्णान्तानां शाङि परे गुणः स्यात् । अदर्शत् अदर्शताम् अदर्शन् । पक्षे सिचि ॥ ९८ ॥
'ऋव०' स्पष्टम् । ऋवर्णान्तानां यथा 'सृ गतौ' भ्वादि: 'ऋ गतौ' इति भ्वादि: 'ऋक् गतौ' ५ इति दिवादिर्वा । ‘सत्र्त्यत्व ( ३।४।६१ ) स ऋ आभ्यां कर्त्तर्य्यऽद्यतन्यामङ् वा स्यात् ततोऽनेन गुणे असरत् असार्षीत् सर्तेः कर्त्तर्यात्मनेपदं न दृश्यते इति नोदाह्रियते । ऋ आरत् आत् समारत समाष्ट आत्मनेपदे न भवति, परस्मैपदे नित्यमित्येके, परस्मै नित्यमात्मनेपदेऽर्तेर्वा सर्तेर्नेत्यन्ये, उभयत्र नित्यमित्यपरे, तिनिर्देशो यङ्लुबन्तनिवृत्त्यर्थः असरिसारीत् आरारीत् । जुष् षच पूर्वेणाङागमे अनेन गुणे अजरत् अजारीत् । प्रकृते त्वनेन गुणे अदर्शत् इत्यादि । अङो १० वैकल्पिकत्वात्तदभावपक्षे सिजागमे ॥ ९८ ॥ सूत्रम् -
अः सृजिदृशोऽकिति ॥ ९९ ॥
अनयोः स्वरात्परो धुडादौ प्रत्ययेऽदन्तः स्यात् न तु किति । द्रश् इति जाते 'व्यञ्जनानामनिटि ' ( ४ | ३ | ४५ ) इति वृद्धौ यजसृजेति शस्य षत्वे ॥ ९९ ॥
[ सि० ४|४|१११ ]
'अः सृ०' अनयोरिति 'सृजत् विसर्गे' 'दृशं प्रेक्षणे' इत्यनयोरित्यर्थः न तु किति । यथा स्रष्टा १५ स्रष्टुं स्रष्टव्यं द्रष्टा द्रष्टुं द्रष्टव्यं । द्रश् इति जाते ॥ ९९ ॥ अत्रोपयोगिसूत्रम् -
ढोः कः सि ॥ १०० ॥ [ सि० २ १/६२ ]
से परे षढोः कः स्यात् । नाम्यन्तस्येति ( २|३|१५ ) सस्य पत्वे | अद्राक्षीत् अद्राष्टाम् अद्राक्षुः ५ । वित्परोक्षायाः कित्त्वाभावः ॥ १०० ॥
'ढो०' अद्राक्षीत् परत्वादकारागमे सति वृद्धिः । सरिस्रष्टि सरिस्रष्टः, दरिद्रष्टि दरिद्रष्टः | २० ङित्यपि नेच्छन्त्येके । धुटीत्येव सर्जनम् । अकितीति किम् ? सृष्टः दृष्टः सिसृक्षति दिदृक्षति । उपान्त्ये नामित्युपान्त्ये सति धातोरनिट् सन् किद्भद्भवतीति सनः कित्त्वम् प्रसज्याश्रयणात्प्रतिषेधे धुटीत नाश्रीयते तेन सिज्लुचो धुडादित्वं प्रति वर्णाश्रयत्वेन स्थानिवद्भावाभावेऽपि किवं प्रति स्थानिवद्भावात्किदाश्रयः प्रतिषेधो भवति । असृष्ट असृष्टाः समदृष्ट समदृष्टाः । 'सिजाशिषावात्मने' ( ४ | ३ | ३५ ) नाम्युपान्त्ये सति धातोः परे आत्मनेपदविषये अनिटौ सिजाशिषौ किद्वद्भवतः इत्या - २५ त्मनेपदस्य किन्त्वम्, धातोः स्वरूपग्रहणे न तत्प्रत्यये कार्यविज्ञानं तेन धातोरेव विहिते अकिति घुडदौ प्रत्ययेऽकारः स्यात् न तु नाम्नो विहिते, ततो रज्जुसृड्भ्यां देवदृग्भ्यामित्यत्र न भवति ।
परोक्षायां विशेषमाह । वित्परोक्षायाः किस्वाभाव इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा कित्स्यादिति वचनात् ततश्च सूत्रम् ॥ १०० ॥
Jain Education International
लघोरुपान्त्यस्य ॥ १०१ ॥
[ सि० ४ | ३ | ४ ]
धातोरुपान्त्यस्य नामिनो लघोरक्विति गुणः स्यात् । ददर्श ददृशतुः ददृशुः । सृजिदृशीत्यादिनेविकल्पे, दद्रष्ठ ददर्शिथ ६ । दृश्यात् ७ । द्रष्टा ८ | द्रक्ष्यति ९ । अद्रक्ष्यत् ९० ॥। १०१ ।। ३२
३०
For Personal & Private Use Only
www.jainelibrary.org