________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५३७ इति णमि यावज्जीवमधीते 'नाम्नि पुंसि च' (५।३।१२१) इति णके जीविका उणादौ 'जीवेरातृको' जैव चेति ( ६७ ) जैवातृकः, रहिनन्दीत्यन्ते ( २२०) जीवताज्जीवन्तः जीवन्ती भृशीशपीत्यथे (२३२) जीवथो वायुः जीवेरातुः (७८२) जीवातुः जीवनम् जीवेरदानुक् (७९५) जीरदानुः । 'पीव मीव तीव नीव स्थौल्ये' पीवति अपीवीत् पिपीव पीविता के पीवः उणादौ तीवरेति (४४४) निपातनादरे पीवरः पीवेति तु प्यैङः । मीव मीवति अमीवीत् मिमीव मीविता । तीव तीवति अतीवीत्५ तितीव तीविता उणादौ खुरक्षुरेति (३९६) निपातनात्तीवः तीवरेति (४४४ ) निपातनादरे तीवरं जलं विवरं च । नीव नीवति अनीवीत् निनीव नीविता नाम्युपान्त्येति किदिः (६०९) नीविः नयतेर्वा डिद्विः (७०५) खुरक्षुरेति निपातनानीव्रम् (३९६) नयतेमन्नादिषु सर्वेषामेषां ष्ठिविना तुल्यमुदाहरणम् । 'उवै तुर्वै थुवै दुवै धुव्वै जुब्वै अर्व भर्व शर्व हिंसायाम्' 'भ्वादे.' (२।१।६३) रिति दीर्घे ऊर्वति और्वीत् ऊर्वाञ्चकार ऊर्विता ऐदित्त्वाक्तयोर्नेट् ऊर्णः ऊर्णवान् विपि १० 'राल्लुक्' (४।१।११०) इति वलुकि ऊ उरौ उरः उणादौ उर्वेरादेरूदेतौ चेत्यारौ (८१४) ऊर्वारुः कटुचिर्भटी एर्वारुः चारुचिर्भटी । तुर्वै तूर्वति अतूर्वीत् तुतूर्व तूर्विता मनि सुतोर्मा वनि सुतोर्वा विचि सुतोः क्विपि तूः सुतूः सुतुरौ सुतुरः ऐदित्त्वात् तूर्णः तूर्णवान् । थुर्वै थूर्वति अथूर्वीत् तुथूर्व थूर्विता ऐदित्त्वात् थूर्णः थूर्णवान् । दुवै दूर्वति अदूर्वीत् दुदूर्व दूर्विता अचि दूर्वा किपि सुदूः सुदुरौ सुदुरः ऐदित्त्वात् दूर्णः दूर्णवान् । धुर्व धूर्वति अधूर्वीत् दुधूर्व धूर्विता 'दिद्युद्ददृज्ज.' (५।२।८३) इति १५ किपि धूः धुरौ धुरः ऐदित्त्वात् धूर्णः धूर्णवान् शीरीति (२०१) किति ते धूर्तः कित्त्वान्न गुणः गपदुर्विधुर्विभ्यः किम् (९४३) धूः । जुर्वै जूर्वति जूर्विष्यति विपि सुजूः सुजुरौ सुजुरः ऐदित्त्वात् जूर्णः जूर्णवान् । अर्व अर्वति आर्वीत् 'अनात०' (४।१।६९) इत्यात्वे ने च आनर्व अर्विष्यति अचि अवः । भर्व भर्वति अभर्वीत् बभर्व भर्विष्यति । शर्व शर्वति अशर्वीत् शशर्व शर्विता अचि शर्वः । 'मुवै मव बन्धने' मूर्वति अमूर्वीत् मुमूर्व मूर्विता अचि मूर्वा तृणं यद्विकारो मौर्वी किपि मू:२० मुरौ मुरः। ऐदित्त्वात् मूर्णः मूर्णवान् । मव मवति अमवीत् ममाव मेवतुः किपि 'मव्यवि.' (४।१। १०९) इत्युपान्त्येन सहोटि मूः मुवी मुवः सुमूः सुम्वौ सुम्बः मविष्यति एवं मन्नादिष्वपि । 'गुवै उद्यमे' 'भ्वादेः०' (२।११६३) इति दीर्घ गूर्वति अगूर्वीत् जुगूर्व गर्विता ऐदित्वात् क्तयोर्नेट् गूर्णः गूणवान किपि गू: गुरौ गुरः । 'पिवु मिवु निवु सेचने' सेवने इत्येके, त्रयोऽप्युदितः उदित्त्वान्ने पिन्वति अपिन्वीत् पिपिन्व मिन्वति अमिन्वीत् मिमिन्व निन्वति अनिन्वीत् निनिन्व पिन्विता मिन्विता२५ निन्विता मनादिषु पूर्ववत् । 'हिवु दिवु जिवु प्रीणने त्रयोऽप्युदितः उदित्त्वान्ने हिन्वति अहिन्वीत् जिहिन्व हिन्विता, दिन्वति अदिन्वीत् दिदिन्व दिन्विता, जिन्वति अजिन्वीत् जिजिन्व जिन्विता, मन्नादिषु पूर्ववत् । 'इवु व्याप्तौ च' चकारात् प्रीणने, इन्वति ऐन्वीत् इन्वाञ्चकार अनटि 'वोत्तरपदान्तन०' (२।३।७५) इति णत्वे प्रण्वनम् प्रन्वनम् णके इन्विका मृगशीर्षशिरस्तारकाः सुपूर्वात्मनि 'अनुनासिके च०' (४।१।१०८) इत्यूटि विनोमा पनि 'य्वोः' (४।४।१२१) इति वलोपे ३० 'वन्याङ्' (४।२।६५) इति नस्यात्वे सुयावा विचि 'य्वोरिति वलुकि गुणे च स्खे खेनौ स्वेनः विपि वस्योटि विनूः इन्विता इन्वितुम् वान्तोऽयं धुड्वर्गाभावान् 'नां०' (१।३।३९) इति नकारस्य मो न भवति । 'अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु एकोनविंशतावर्थेषु, कैश्चित्कान्तिवर्जनादष्टादशसु, अन्यैस्तु रक्षणगतिकान्तिप्रीतितृप्तिवृद्धिषु षट्सु, अवति आवीत् आव आवतुः आवुः अविता किपि 'मव्यवि०'३५
है. प्रका० उत्त०६८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org