________________
५३६
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
'खल सञ्चये 'च' चकाराचलने, खलति 'वदत्रज ० ' ( ४ | ३ | ४८ ) इति वृद्धौ अखालीत् चखाल खलिता 'गोचर०' (५।३।१३१ ) इति निपातनाद् घे खल्यन्ते सञ्जीयते यशांसि धान्यानि वा यत्रेति खलः खलम् रणाजिरं धान्यपचनस्थानं च खलो दुर्जनः अचि खलति सचिनोति पापं चलति वा गुणेभ्य इति खलो नीचः । उणादौ खलिहिंसिभ्यामीनः ( २८६ ) खलीनम्, लटिखटीति ( ५०५ ) वे ५ खल्वं निम्नम्, खल्वा दृतिः; कपाटविराटेति - निपातनात् ( १४८ ) खल्वाट:, दृपृम्रित्यते ( २०७ ) खलतः खल्वाटः, पदिपठीति इ: ( ६०७ ) खलिः पिण्याकः, खल्यमीत्यतौ ( ६५३ ) खलतिः । 'श्वल वल्ल गतौ' तालव्यादी वलति 'वदब्रज ०' इति वृद्धौ अश्वालीत् वश्वाल वश्वलतुः । श्वल्ल वल्लति अवल्लीत् वश्वल्ल वश्वल्लतुः शलिमप्यत्रैके पठन्ति स ज्वलादिपाठेनैव गतार्थ इति नेहाधीतः । 'गल चर्च अदने ' गलति अगालीत जगाल गलिता अचि गलः कण्ठः स्रवणेऽप्ययमनेकार्थत्वात् १० गलत्युदकं कुण्डिकायाः । उणादौ कलिगलेरस्योश्चेति ( ३१५ ) के गुल्फः । बहुलमेतन्निदर्शनमिति 'गलिण् स्रावणे' गालयते उद्गालयते । इति लान्ताश्चत्वारिंशत्सेटश्च । चर्व चर्वति अचर्वीत् चचर्व चर्विता । उणादौ मवाकेति ( ३७ ) निपातनादाके चार्वाकः । बहुलमेतन्निदर्शनमिति चुरादित्वे चर्वयति । 'पूर्व पर्व मर्व पूरणे' पूर्वति अपूर्वीत् पुपूर्व पूर्विता अचि पूर्वः । पर्व पर्वति अपर्वीत् पपर्व पर्विता विचि सुपः सुपरौ सुपरः । खोः प्वय् व्यञ्जने (४|४|१२१ ) इति वलोपः । उणादौ दृषृम्रित्यते १५ ( २०७ ) पर्वतः । 'मर्व धवु शव गतौ' सर्व मर्वति अमर्वीत् ममर्व मर्विता । ध उदित्वान्ने धन्वति धन्विष्यति । उणादौ उक्षितप्तीत्यनि ( ९००) धन्वा । 'शवतिर्गतिकर्मा काम्बोजेषु भाष्यते, विकार एवैनमार्या आहुः । शवति अशवीत् शशाव शविता अचि शवः शवम् सुष्ठु शवतीति शवः स्त्रियां गौरादित्वात् ङयां सुरावी किपि 'अनुनासिके च ० ' ( ४|१|१०८ ) इति वस्योट् तत ऊटेत्यस्यौत्वे शौः शव । 'कर्व खर्व गर्व दर्पे' कर्वति खर्वति गर्वति अकर्वीत् अखर्वीत् अगर्वीत् चकर्व चखर्व २० जगर्व अचि घनि वा कर्वः खर्वः गर्वः । 'ष्ठिवू क्षिवू निरसने' 'षः स० ' ( २।३।९८ ) इत्यत्र ष्टिवो वर्जनात्पस्य सत्वाभावे 'ष्ठिवृक्कुम्वाचमः' ( ४।२।११० ) इति दीर्घे च ष्टीवति अष्टवीत् परोक्षायां सूत्रम् -'तिर्वा ष्ठिवः' (४|१|४३) ष्ठिवेर्द्वित्वे सति पूर्वस्य द्वितीयस्य तिरादेशो वा भवति तिष्ठेव टिष्ठेव तेष्ठीव्यते तेरिकारोऽत्रोचारणार्थः आदेशस्तु तकारमात्रम्, तेन ' इवृध ० ' ( ४ |४।४७ ) इत्यादिना वेटि तुष्ठयूषति टुट्यूषति पक्षे तिष्ठेविषति टिष्टेविषति । पूर्वस्य त्यादेशविधानमेवं ज्ञापयति २५ ष्ठिवेः षकारः ठकारपरः यद्यत्र षकारः टकारपरः स्यात्तदानेन तद्विधानं न कुर्यात् यतो 'ऽघोषे शिट : ' ( ४|१|४५ ) इति लुकि निमित्ताभावे इति ठस्य थत्वे 'द्वितीयतुर्ययोः ० ' ( ४|१|४२ ) इति थकारस्य तकारः सिद्ध एव, पक्षे टकारविधानार्थं तु टिर्वा ष्ठिव इति सूत्रं कुर्यादिति । ष्ठिवो स्वादेर्दिवादेश्चात्र ग्रहः । ष्ठाष्टषैप्रभृतीनां तु षकारस्तवर्गपरस्तेन तस्थौ तथ्यौ इत्यादि भवति । वेदत्वात् क्तयोर्नेट् ष्टषूतः ष्टद्यूतवान् मनि 'अनुनासिके च०' इत्युट्त्वे सुयोमा वनि सुष्ट्योवा क्विपि सुष्ठयूः विचि सुष्ठेः “ष्ठिब्३० सिवोऽनटि वा' (४/२/११२ ) इति वा दीर्घे ष्ठीवनं ष्ठेवनम् । क्षिवू क्षेत्रति अक्षेवीत् चिक्षेव क्षेविता उदित्त्वात् क्ष्यूत्वा क्षेवित्वा तयोः क्ष्यूतः क्ष्यूतवान् । श्रीवृमप्येके पठन्ति श्रीवति णौ के अचिक्षीवत्, 'ष्ठिवू क्षिवूच् निरसने' इत्यस्य तु ष्ठीव्यति क्षीव्यति । 'जीव प्राणधारणे' जीवति अजीवीत् जिजीव जीविता णौ ' भ्राजभ्रास ० ' ( ४ |२| ३६ ) इति वा हस्खे अजीजिवत् अजिजीवत् 'नाम्युपान्त्य ० ' ( ५।१।५४ ) इति के जीवः णके जीवकः पक्षी जीवं जीवकोऽपि जीवेन सहचरेण जीव३५तीति बाहुलकात् खः स्वार्थे कश्च णके तु बाहुलकात् पूर्वस्यानुस्वारः । ' यावतोबिन्दजीव : ' ( ५|४|५५ )
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org