________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादयः परस्मैपदिनः
५३५
धिरैकाग्र्यम् तालव्यादिः शीलति अशीलीत् शिशील 'ज्ञानेच्छाच०' इति सत्यर्थे के अनुशीलितः शीलिकामीति णे धर्मशीला घनि शीलं उणादौ कोरदूषाटरूषेति ( ५६१ ) निपातनादूषे शैलूष : शिलूषः शिल्लूषापत्यं वा । 'शीलण उपधारणे' शीलयति । 'कील बन्धे' कीलति अकीलीत् चिकील कीलिता 'नाम्युपान्त्य ० ' ( ५।१।५४ ) इति के कीलः घनि कील्यतेऽनेनास्माद्वा कीलः कपि कीलकः के सेट्त्वात् 'टो ० ' ( ५ | ३|१०६ ) इत्यः कीला के उत्कीलितः उणादौ ऋकृत्रित्याले ( ४७५ ) ५ कीलालम् 'नाम्युपान्त्येति किदि : ( ६०९ ) की लि: । 'कूल आवरणे' कूलति अनुकूलति अकूलीत् चुकूल कूलिता के कर्मणि घञि च कूलम् । 'शूल रुजायाम्' तालव्यादिः शूलति अशूलीत् शुशूल शूलिता के शूलम् | 'तूल निष्कर्षे' निष्कर्षोऽन्तस्थस्य बहिर्निस्सारणम् तूलति अतूलीत तुतूल तूलिता के तूलम् उणादौ नाम्युपान्त्येति किदि: ( ६०९) तूलिः शय्या स्वार्थिके के तूलिका चित्रकरशलाका । 'पूल सङ्घाते' पूलति अपूलीत् पुपूल पूलिता के घनि वा पूलः 'जातेरयान्त०' ( २।४।५४ ) इति पूली १० तृणोश्च्चयः । 'मूल प्रतिष्ठायाम्' मूलति अमूलीत् मुमूल मूलिता णिगि उन्मूलयति केशान् के उन्मूलित: hi वा मूलम् 'मूलण् रोहणे' इत्यस्य तु मूलयति । 'फल निष्पत्तौ निष्पत्तिः सिद्धिः फलति ' वदव्रज ०' ( ४।३।४८ ) इति वृद्धौ अफालीत् पफाल 'तत्रप० ' ( ४।१।२५ ) इत्येत्वे फेलतुः फेलुः फलिता ते फलितः फलितवान् विफलेत्यस्य तु फुल्लः अचि फलम् पलितमिति तु पले: । 'फुल्ल विकसने ' फुल्लति अफुल्लीत् प्रफुल्ल पुफुल्लतुः पुफुलुः फुल्लिता क्तयोः फुल्लितः फुल्लितवान् अचि फुल्लम् । 'चुल्ल १५ हावकरणे' मैथुनेच्छाप्रेरितशरीरविकारो हावकरणं चुल्लति अचुल्लीत् चुचुल्ल चुल्लिता अचि चुल्लः उणादौ किलिपिलीति ( ६०८ ) इ: चुल्लि: । 'चिल्ल शैथिल्ये च' चकाराद्धावकरणे, चिल्लति अचिल्लीत् चिचिल्ल चिल्लिता अचि चिल्लः पटः शिथिल इत्यर्थः क्ते चिल्लितः । 'पेल फेल शेल पेल सेल वेह सल तिल तिल्ल पल्ल वेल्ल गतौ' पेलति अपेलत् अपेलीन् पिपेल अचि पेलः वृषण: पेला वस्त्रादिभाजनविशेषः णके पेलकः ते पेलितम् उणादौ वडिवटीत्यवे ( ५१५ ) २० पेलवम् । फेल फेलति अफेलत् अफेलीत् पिफेल ऋदित्वादपिफेलत् के फेलितम् सेदत्वात् 'केट ० ' ( ५/३/१०६ ) इत्यः फेला भोजनोज्झितम् । शेल शेलति अशेलत् अशेलीत् शिशेल ऋदित्वादशिशेलत् । षेऌ 'षः स० ' ( २।३।९८ ) इति सत्वे सेलति असेलतू असेलीत् षोपदेशत्वात्पत्वे सिषेल ऋदित्वादसिषेलत् । सेल सेलति असेलत् असेलीत् सोपदेशत्वान्न षत्वम् सिसेल ऋदित्वादसिसेलत् । वेह वेहति अवेह्वीत् विवेह वेह्निता । सल सलति ससाल सोप - २५ देशत्वान्न षत्वम् सिसालयिषति सिसलिषति घनि भ्रमरैः सत्यते इति साल: । तिल तेलति अतेलीत् तितेल तेलिता 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के तिल: 'तिलत् स्नेहने' तिलति 'तिलण् स्नेहने' इत्यस्य तु तेलयति । तिल्ल तिल्लति अतेल्लीत् तितिल्ल तिल्लिता । पल्ल पल्लति अपल्लीत् पपल्ल पल्लिता उणादौ पदिपठीति इ: ( ६०७ ) पल्लिः । वेल्ल वेल्लति अवेल्लीत् विवेल्ल वेल्लिता के वेल्लितः णौ डे अविवेल्लत् । 'वेल चेल केल क्वेल खेल स्खल चलने' वेलति अवेलत् अवेलीत् विवेल वेलिता ३० ऋदित्वादविवेलत् अचि वेला वेलका 'वेलण उपदेशे' वेलयति । चेऌ चेलति अचेलत् अचेलीत् चिचेल चेलिता अचि चेलम् 'चिलत् वसने' चिलति घञि चेलम् । केट केलति अकेलतू अकेलीत् चिकेल केलिता 'किलिपिलीति ( ६०८ ) इ: केलिः । ' कील बन्धने' इत्यस्य तु कीलति कीलितम् कीलनम् कीलिः । क्वेल क्लति अकेलत् अकेलीत् चिकेल केलिता ऋदित्वादचिक्केलत् । खेऌ खेलति अखेलत् अखेलीत् चिखेल खेलिता ऋदित्वादचिखेलत् अचि खेल: खेला खुरलिः पृषोदरादित्वाद्धस्वे खिलम् । स्खल स्खलति चस्खाल स्खलिता । चालशब्दार्थादित्यने स्खलनशीलः स्खलनः क्ते स्खलितं । ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org