SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः ५३३ 'युवर्ण०' (५।३।२८) इत्यलि गमः । इति मान्ताः सप्तदश यमूं णमं गम्लं वर्जाः सेटश्च ॥ १७ ॥ 'हय हर्य लान्तौ च' चकाराद्गती, हयति 'व्यञ्जनादे' (४।३।४७) रिति वा वृद्धेः 'नश्विजागृ०' (४।३।४९) इति प्रतिषेधात् अहयीत् इटि हयिता अचि हयः ङयां हयी । विपि 'य्वोः०' (४।४।१२१) इति यलुकि अत इत्यलुगित्येके । सुपूर्वस्य सुट् क्तौ 'ढस्तड्डू' (१।३।४२) इति ढलुकि पूर्वस्य दीर्घ च सूढिः । केवलस्य तु ढिः । उणादौ ऋपूनहीत्युषे ( ५५७ ) हयुषा ओषधिः । हर्य५ हर्यति अहीत् हर्यिंता मनि सुहर्मा वनि सुहर्वा विपि विचि वा सुहः । 'मव्य बन्धने' मव्यति अमव्यीत् ममव्य मव्यतीति किप् 'य्वोरिति' यलुक् 'अनुनासिके च०' (४।१।१०८) इति वस्योट् तत 'ऊटा' इत्यौत्वे मौः । लाक्षणिकत्वाञ्च मव्यवीत्युपान्येन सहोडभावः मव्यितः मव्यितवान् क्ते सेट्त्वात् क्तेट इति अः मव्या तिकि मौतिः । 'सूयं ईर्ण्य ईक्ष्य ईर्ष्यार्थाः' सूर्ध्य दन्त्यादिः ईर्ष्या कामजमसहनम् सूर्यति असूात् सुसूय सूयिता मनि यलुकि सुसू िवनि सुसू| 'क्रुद्रुहे.'१० (२।२।२७ ) इति संप्रदाने चतुर्थी चैत्राय सूयति क्विपि यलुकि सौ 'पदस्य' (२।११८९) इति षलोपे 'रात्सः' (२।१।९०) इति नियमात् कलुगभावे सूक् क्तयोः सूक्ष्यितः सूयितवान् । ईक्ष्य ईयति ऐयात् 'गुरुनाम्यादेः०' (३।४।४८) इति आमादेशे ईर्ष्याश्चकार ईक्ष्यिता मनि 'य्वोः' इति यलुकि ई िवनि ईवा मैत्राये_ति । ईj ईय॑ति ऐस़त् ईध्याञ्चकार ईयिता छात्रायेय॑ते अत्र छात्रस्य सम्प्रदानत्वेऽकर्मकलक्षणं 'तत्साप्यानाप्या०' (३।३।२१) इति भावे आत्मनेपदम् क्ते सेट्त्वात् १५ क्वेटो गुरोर्व्यञ्जनात्' (५।३।१०६) इति ईष्या उणादौ 'लस्जीय॑िशलेरालुः' (८२२) ईर्ष्यालुः । 'शुच्यै चुच्यै अभिषवे' शुच्यै तालव्यादिः द्रवेण द्रवाणां परिवासनमभिषवः । स्नानमिति चान्द्राः। शुच्यति अशुच्यीत् शुच्यिता शुशुच्य मनि यलुकि उपान्त्यस्य गुणे शुशोच्मा, वनि शुशोच्वा, विचि शुशोक् , ऐदित्त्वात् क्तयोर्नेट् शुक्तः शुक्तवान् , तिकि शुक्तिः, क्तेऽनिड्वादप्रत्ययाप्राप्तौ स्त्रियां क्तिः शुक्तिः । चुच्यै चुच्यति अचुच्यीत् चुचुच्य चुच्यिता ऐदित्वात् क्तयोर्नेट चुक्तः चुक्तवान् । २० इत्यष्टौ यान्ताः सेटश्च । 'त्सर छद्मगतौ छद्मप्रकारे', तादिरयम् । त्सरति 'वबजलू:' (४।३।४८) इति वृद्धावत्सारीत् तत्सार, उणादौ भृमृतृत्सरीत्युः (७१६ ) सर्यते हस्तेन प्रच्छाद्यते इति त्सरुः खड्गमुष्टिः, छ(त्स) त्यपि कौशिकः, छ(त्स)द्मति । 'क्मर हूर्छने' क्मरति 'वदबजेति' वृद्धौ अक्मारीत् चक्मार, अचि क्मरः । 'अभ्र वभ्र मभ्र गतौ' अभ्रति आभ्रीत् 'अनातो नश्च०' (४।१।६९) इत्यात्वे ने च आनभ्र अभ्रिता क्ये अभ्यते अत्र सरूपान्तस्थाया अभावे 'अञ्जनात्पञ्चम०' (१।३।४७) इति रो २५ वा लुग् न भवति अचि अभ्रम् । बभ्र बभ्रति अबभ्रीत् बबभ्र बभ्रिता । मभ्र मभ्रति अमभ्रीत् ममभ्र मनिता । 'चर भक्षणे च' चकाराद्गतौ, चरति क्रियाव्यतिहारे गत्यर्थप्रतिषेधाद्गतौ नात्मनेपदं व्यभिचरन्ति प्रामम्, भक्षणे तु क्रियाव्यतिहारे गतीत्यात्मनेपदं व्यभिचरन्ते भक्ष्यम् अचारीत् । यङि निन्धं चरति चञ्चूर्यते । यङि अचि चनुरः 'चरेराङस्त्वगरौं' (५।११३१) इति ये चर्यम् आचर्यं तपः आश्चर्यमद्भुतम् वर्चस्कादित्वाच्छे साधुः । गुरौ तु आचार्यः । णके परिचारकः अचि चरः गौरादित्वात् ३० म्यां चरी प्रज्ञायणि चर एव चारः पटन्तश्चरन्तीति पटञ्चराश्चौराः जीर्णवस्त्रं तु भूतपूर्व प्चरटि भूतपूर्व पट इवाचरत् पटञ्चरम् ‘तिकृतौ नाग्नि' (५।१७१) इत्यकटि चरकः । चरेष्टः कुरुचरः कुरुचरी 'भिक्षासेनादायात्' (५।१।१३९) भिक्षां चरति भिक्षाचरः सेनां चरति परीक्षते सेनाचरः आदीयते इत्यादायो वागुरा तेन आदाय वा चरति आदायचरः ग्रहादिभ्य इति णिति व्यभिचारी व्यभिचरी गणनिपातात्पक्षे हवः सब्रह्मचारीति निपातनात समानं (ब्रह्म)व्रतं समाने वा ब्रह्मणि गुरुकुले व्रतं चरतीत्येवं-३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy