________________
५३२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवृत्यसेसेमीदिति भवति अवाव्ययीत् । एदितां तु यङ्लुपि न प्रतिषेधः अजाहासीत् अजाहसीत् अत एव श्वादयो नैदितः क्रियन्ते अन्यथा येदितः कृत्वा इह न्यादिग्रहणं न क्रियेत । सेटीत्येव अधाक्षीत् । वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः अमवीत् । श्विजारोः 'सिचि परस्मै समानस्याऽङिति (४।३।४४) इति वृद्धावन्येषां च 'व्यञ्जनादेोपान्त्यस्यातः' (४।३।४७) इति विकल्पे प्राप्ते ५वचनम् ॥ ९५ ॥ परोक्षायां द्वित्वे सति सूत्रम्
कङश्चञ् ॥ ९६ ॥ [ सि० ४३११४६] द्वित्वे पूर्वयोः कङोश्चौ स्याताम् । चक्राम चक्रमिथ-चक्रन्थ ६ । क्रम्यात् ७ । ऋमिता ८ । ऋमिष्यति ९ । अक्रमिष्यत १० । 'दृशृं प्रेक्षणे । पश्यति ४॥ ९६ ॥
'कङ' कडोश्वनाविति धातोत्वेि सति पूर्वस्य ककारस्य चकारः कवर्गीयङकारस्य चवर्गीयो १०बकारः स्यादित्यर्थः । यथा चकार चखान । 'उछ क्रुङ गुङ घुङ् कुङ् शब्दे' परो० ए द्वित्वे अनेन
बुः 'धातोरिवर्णस्य०' (२।१।५०) इत्युवादेशे बुझे । एवं च चक्रामेत्यादि स्पष्टम् । उक्तशेषा मान्तधातवश्चैवम् 'यमूं उपरमे' उपरमो निवृत्तिः । 'गमिषद्यमश्छः' (४।२।१०६) यच्छति अयमीत् मान्तत्वान्नित्यं वृद्धिः, ययाम येमतुः 'तिक्कृतौ नाम्नि' (५।१७१) इत्यकटि यमकम् उणादौ यम्यजीत्युने (२८८) यमुना हुयामेति (४५१)ने यन्त्रम् मृदिकन्दीत्यले (४६५ ) १५यमलम् । 'स्यमू शब्दे' स्यमति अस्यमीत् सस्याम 'जभ्रम०' (४।१।२६) इति वैत्त्वे स्येमतुः
सस्यमतुः स्येमुः सस्यमुः 'व्ये स्यर्मोयङीति' वृति सेसिम्यते इटि स्यमिता स्य मिष्यति । 'षम ष्ठम वैक्लव्ये वैक्लव्यं कातरत्वम् 'षः स.' (२।३।९८) इति सत्वे समति असमीत् ससाम सेमतुः सेमुः इटि समिता समिष्यति अचि समः 'निर्दुःसुवेः समसूतेः' (२।३१५६) इति षत्वे विषमः सुषमा दुःषमा । ष्टम 'षः स.' इति षस्य सत्वे स्तमति अस्तमीत् तस्ताम तस्तमतुः । स्तनध्वन२० स्वनस्यमूषमष्टमान षडप्यदन्तान् सभ्या अभ्युपागमन् । 'अम शब्दभक्त्योः ' भक्तिर्वर्जनम् अमति
आमीत् आम आमतुः उणादौ दम्यमीति (२०० ) ते अन्तः, चिजिश्विति ( ३९२ ) रे दीर्घ च आम्रः, हुयामेति । अत्रम् , वृनक्षीत्यत्रे (४५६ ) अमत्रम् , बन्धिवहीति इत्रे ( ४५९ ) अमित्रः, पादावमीति शे ( ५२७ ) अंशः, मावावद्यमीति से ( ५६४ ) अंसः, अमेर्भही चान्तावित्यसि
( ९६२ ) अम्भः अंहः । 'अम द्रम हम्म मीम गम्लं गतौ' अमिरुदाहृत एव, अर्थभेदार्थ २५तु पुनः पाठः । द्रमति अद्रमीत् दद्राम दद्रमतुः । हम्म हम्मति सुराष्ट्रेष्विति भाष्याहिबद्धो मकारः हम्मति अहम्मीत् हम्मिता यङि जंहम्म्यते अत्र 'मुरतोऽनुनासिकस्य' (४।१।५१) इत्यत्रानुनासिकजातिपरिग्रहादतोऽनुनासिकान्नत्वे पूर्वस्य मुरन्तः । केचित्तु म्वागमं नेच्छन्ति तन्मते जाहम्म्यते । मीम मीमति लदित्वादङि अमीमत् मिमीम मीमिता.अयं शब्देऽपीत्यन्ये । गम्लंधातुस्तु प्रागुक्तः किन्तु उणादौ गम्यमीति ( ९२ ) गे गंगा, विदनेति निपातनादने गगनं ( २७५ ), जिभृस्रिति ३०(४४७ ) त्रटि वृद्धौ च गात्रं मनः, गमेराचेति (४५३ ) त्रे गात्रम्, कृसिकम्यमीति (७७३ )
तुनि आगन्तुः वैदेशिकः, युगमिभ्यां डोः ( ८६७) द्यौः गौः, गमेरिन् ( ९१९) गमी, 'आङश्च णित्' ( ९२० ) आगामी, गम्यादित्वाद्भविष्यति साधू । गमेडिहे चेति (८८५) कर्त्तरि जगत् जगती । गत्यर्थाद्वा कर्तरि क्ते गतो प्रामं पक्षे कर्मणि गतो ग्रामः 'नानो गमः खड्डौ
च विहायसस्तु विहः (५।१।१३१) प्लवङ्गः प्लवगः, विहङ्गमः विहङ्गः, उरगः पृषोदरादित्वात्सलोप ३५ शुकमेत्युकणि (५।२।४०) गामुकः, निपातनाद्गत्वर।, 'विद्युद्द०' (५।२।८३) दिति किपि जगत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org