________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादयः परस्मैपदिनः
५३१ भ्रासभ्लासभ्रमक्रमलमत्रसित्रुटिलषियसि
संयसेर्वा ॥ ९२॥ [सि० ३०१७३] एभ्यो दशभ्यः कर्तृविहिते शिति श्यो वा स्यात् ॥ ९२ ॥ 'भ्रास.' एभ्यो दशभ्य इति भासि टुभ्रासि टुभ्लासि दीप्तौ' भ्रास् भ्लास् । 'भ्रमूच अनवस्थाने' इति दिवादिः 'भ्रमू चलने' इति ज्वलाद्यन्तर्गणपठितो भ्वादिर्वा भ्रम् । 'क्रम पादविक्षेपे' 'क्रमू५ क्लमूच् ग्लानौ' 'कम् । त्रसैच भये' 'त्रस् । चुट् छुट् त्रुट् च छेदने' त्रुट् । 'लषी कान्तौ' लष् , 'यसूच प्रयत्ने' यसिः सम् पूर्वकत्वे संयसिः एतेभ्यो धातुभ्य इत्यर्थः । श्यो वा स्यादिति प्राप्ताप्राप्तविभाषेयम् , ततः पक्षे यथायोगं शवादयः स्युः । भ्रास्यते भासते भ्लास्यते भ्लासते 'शमसप्तकस्य श्ये' (४।२।१११) इति दीर्घ भ्राम्यति भ्रमति भौवादिकस्य भ्रम्यति ॥ ९२ ॥ क्रमो विशेषे सूत्रं
क्रमो दीर्घः परस्मै ॥ ९३॥ [सि० ४।२।१०९] क्रमः परस्मैपदे शिति दीर्घः स्यात् । क्राम्यति क्रामति । क्राम्येत् क्रामेत् ४ ॥ ९३ ॥
'क्रमो०' स्पष्टम् अत्यादौ इति ज्ञेयम् क्राम्यति कामति । 'ष्ठिवूलम्याचम' (४।२।११०) इति दीर्घ क्लाम्यति लामति । त्रस्यति त्रसति, त्रुट्यति त्रुटति, लष्यति लषति, अभिलष्यति अभिलषति, यस्यति यसति, संयस्यति संयसति । यसिग्रहणेनैव सिद्धे संयसिग्रहणमुपसर्गान्तरपूर्वकस्य यसेर्निवृत्त्यर्थम् , तेन आयस्यति प्रयस्यतीति नित्यं श्यः । क्राम्येत् कामेत् ॥ ९३ ॥ अद्यतन्यां सिजागमे सूत्रम्- १५
क्रमः॥ ९४ ॥ [सि० ४४५३ ] क्रमः परस्य स्ताद्यशित आदि इट् स्थानत्वात्मनेपदे ॥ ९४ ॥
'क्रमः' स्पष्टम् । अक्रमीत् क्रमिष्यति एवं चिक्रमिषति चिक्रमिषिता चिक्रमिषितुः प्रक्रमितुं प्रक्रमितव्यम् । अमात्मने इत्येव-प्र–स्यते प्रकंस्यमानः प्रक्रन्ता प्रक्रन्तासे प्रकंसीष्ट प्राक्रस्त प्राक्रस्यते प्रचिक्रसते प्रचिसिष्यते । क्रमितेवाचरति क्रमित्रीयते इत्यत्रात्मनेपदस्य क्यकाश्रितत्वेन बहिरङ्गत्वादिट् २० भवति । कथं चिक्रसया कृत्रिमपरित्यत्रेडभावः गतानुगतिक एव पाठः जिघृक्षया कृत्रिमपत्रिपङ्क्तेरिति तु अविगानः पाठः । अथाद्यतन्यामक्रमीदित्यादौ 'व्यञ्जनादेोपान्त्यस्यातः' (४।३।४७) इति वृद्धिविकल्पप्राप्तावपवादसूत्रम् ॥ ९४ ॥
न श्विजागृशसक्षणहयेदितः॥ ९५॥ [सि० ४।३।४९] एषां यन्तानामेदितां च परसैपदे सेटि सिचि वृद्धिर्न सात् । अक्रमीत् अक्रमिष्टाम् ५॥९५॥२५
'न श्वि०' एत् इत् यस्य स एदित् श्विश्च जागृश्च शसश्च क्षणश्च ह च म् च य च एदिच्च श्विजागृशसक्षणहयेदित् तस्य एषामिति श्विजागृशसक्षणां हकारमकारयकारान्तानामेदितां च धातूनामित्यर्थः । क्रमेणोदाहरणानि 'ट्वोश्वि गतिवृद्ध्योः' अश्वयीत् 'जागृक् निद्राक्षये' अजागरीत् 'शसू हिंसायां' अश्वसीत् शस्स्थाने श्वसं पठन्यन्ये 'अन श्वसन प्राणने' अश्वसीत् 'क्षणूयी दाने' अक्षणीत् । हान्त-'ग्रहीश् उपादाने' अग्रहीत् 'चह कल्कने' अचहीत् । मान्त-'टुवमू उद्गिरणे' अव-३० मीत् 'स्यमू शब्दे' अस्यमीत् । यान्त-अव्ययीत् हय हर्य क्लान्तौ च' अहयीत् । कगे इति सौत्रो धातुः अकगीत् । श्वादीनां यङ्लुगन्तानामपि प्रतिषेधः अशेश्वयीत् अजर्जागरीत् केचिज्जागर्तेरपि यचमिच्छन्ति अशाशसीत् अचाक्षणीत् अचाचहीत् । मताभिप्रायेणेदम् , स्वमते तु 'व्ये स्यमोर्यङि' (४।११८५) इति ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org