________________
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु
'अदु०' दुर्वर्जेत्यादि दुर्वर्जितोपसर्गस्थादन्तः शब्दस्थान रपृवर्णात्परस्य णकारसंबन्धिनो नस्य हिनु आनिसंबन्धिनो नकारस्य च णो भवति । णेति णोपदेशा धातवो गृह्यन्ते । उपसर्गाण्णत्वविधानात् । प्रणमति परिणमति प्रणयति परिणयति प्रणामकः परिणामकः प्रणायकः परिणायकः । अन्तर् - अन्तर्णयति अन्तर्णायकः । हिनु - प्रहिणोति प्रणिहिनुतः । मीना - प्रमीणाति प्रमीणीतः । हिनुमीनाग्रहणे विकृत५ स्यापि एकदेशविकृतस्यानन्यवत् आनि प्रयाणि प्रवयाणि । आनीत्यर्थवत एव ग्रहणात् अनर्थकस्य न भवति - प्रवृद्धा वपा येषां तानि प्रवयानि मांसानि । अदुरिति किम् ? दुर्नयः दुर्नीतं । उपसर्गान्तरिति किम् ? प्रातर्नयति पुनर्नयति । येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा भवन्तीति इह न भवति - प्रगता नायका यस्मात् स प्रनायको देश इति । णहिनुमीनानेरिति किम् ? प्रनृत्यति । अणोपदेशत्वाण्णत्वं न भवति । यमिरमीत्यादि सर्वं स्पष्टम् । गम्लं गतौ इति ॥ ८८ ॥ अत्र सूत्रम् -
1
५३०
१०
गमिषद्यमभ्छः ॥ ८९ ॥ [ सि० ४।२।१०६ ]
एषां शिति छः स्यात् । गच्छति ४ । लदित्वादङागमे । अगमत् अगमताम् अगमन् ५ । जगाम ॥ ८९ ॥
'गमि० ' एषामिति गम्धातोः 'इषत् इच्छायाम्' 'यमूं उपरमे' एषामित्यर्थः अनेन मस्य छत्वे 'स्वरेभ्यः' ( १।३।३० ) इति छस्य द्वित्वे 'तृतीयस्तृतीय० ' ( २ | ३ | ४९ ) इत्याद्यछस्य चत्वे १५ गच्छति ।। ८९ ।। परोक्षायाः प्रथम त्रिकद्विवचने सूत्रम्
गमहनजनखनघसः खरेऽनङि क्लिति लुक् ॥ ९० ॥ [ सि० ४ २ ४४ ] एषामुपान्त्यस्यावर्जे स्वरादौ क्विति परे लुक् स्यात् । जग्मतुः जग्मुः ६ । गम्यात् ७ । गन्ता ८ ।। ९० ॥
'गम० ' एषामिति गमधातुरयमुक्त एवं 'हनंक् हिंसागत्योः ' 'जनैचि प्रादुर्भावे' 'खनूग् अवदारणे' २० 'घस्लं अदने ' इत्येतेषामित्यर्थः । जग्मतुः इत्यादि स्पष्टम् । अस्यानुस्वारेत्त्वाद्भविष्यन्त्यामिडूनिषेधे प्राप्ते ॥ ९० ॥ सूत्रम्
मनात्मने ॥ ९१ ॥ सि० ४।४।५१ ]
गमः परस्य स्यादेरिट् स्यात् नत्वात्मनेपदे । गमिष्यति गमिष्यतः गमिष्यन्ति ९ । अगमिष्यत् अगमिष्यताम् अगमिष्यन् । अगमिष्यः अगमिष्यतम् अगमिष्यत । अगमिष्यम् अग२५ मिष्याव अगमिष्याम १० ॥ ९९ ॥ क्रमू पादविक्षेपे ।
'गमो०' गमः परस्य सकारादेस्ताद्यशित आदिरिड् भवति अनात्मनेपदं चेन्न भवति गम इत्यनादेशस्यादेशस्य च ग्रहणमविशेषात् । गम्लं गमिष्यति अगमिष्यत् जिगमिषिति जिगमिषितुं संजिगमिषिता संजिगमिषितव्यम् । इण्-जिगमिषति ग्रामम् जिगमिषुः । इक्-अधिजिगमिषति मातुः अधिजिगमिषुः । इङ् - अधिजिगमिषिता शास्त्रस्य अधिजिगमिषुः अधिजिगमिषितव्यम् । इङो नेच्छ३० न्त्यन्ये तन्मते अधिजिगांसिता अधिजिगांसुः अधिजिगांसितव्यमित्येव भवति । अनात्मन इति किम् ? गंस्यते ग्रामः संगंस्यते वत्सो मात्रा गंस्यमानः अगस्थत समगंस्यत संगंसीष्ट सञ्जिगंसति सजिगंसमानः सञ्जिगंसिष्यते सञ्जिगंसिष्यमानः । इणिकोर्जिंगांस्यते सञ्जिगांस्यते अधिजिगांस्यते माता ॥ ९१ ॥ ३३ ‘क्रमू पादविक्षेपे' पादन्यासे इत्यर्थः । शितिप्रत्यये सूत्रम् -
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org