________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५२९ (४।१।६९) इत्यात्वे ने च आनर्ब । कर्बति उणादौ 'दिव्यवि०' (१४२) इत्यटे कर्बटम् क्षुद्रपत्तनम् वाश्यसीत्युरे (४२३) कर्बुरः । खर्बति अचि खर्बः गर्बति पनि गर्बः । चर्बति घबि चर्बः अनटि चर्बणं । तर्बति नर्बति पर्बति । बर्बति ओष्ठ्यादिरयम् उणादौ ऋछिचटीत्यरे (३९७) बर्बरः बर्बरी कुञ्चिताः केशाः। शर्व तालव्यादिः शति । पर्व षोपदेशः 'पः स०' (२।३।९८) इति सत्वे सर्बति षोपदेशत्वात्'णिस्तोरेव' (२।३।३७) इति षत्वे सिषयिषति । सर्ब सर्बति सोपदेशत्वात्षत्वाभावे सिसर्बयिषति। रिबु५ खु उदित्वाने रिम्बति । रम्बति अचि रम्बः, के रम्बः करम्बः, क्ते करम्बितः । घबेत्यपि केचित्पठन्ति स पुनरनार्षत्वादुपेक्षितः । अर्येत्यादौ रेफस्थाने नकार कौशिका मन्यन्ते । 'कुबु आच्छादने' उदित्वाने कुम्बति 'भीषिभूषीति' (५।३।१०९) णांवङि कुम्बा, 'कुबुण आच्छादने' इत्यस्य तु कुम्बयति । 'लुबु तुबु अर्दने' लुम्बति । उणादौ ण्यन्तात् स्वरेभ्य इः (६०६) इति इः लुम्बिः । तुबु तुम्बति अचि गौरादित्वात् उयां तुम्बी 'लुबु तुबुण् अर्दने' इत्यस्य तु लुम्बयति तुम्बयति । 'चुबु वत्रसंयोगें' वक्रेण १० संबन्धे नमस्तुङ्गशिरथुम्बीत्युपचारात् चुम्बति अचुम्बीत् चुचुम्ब । इत्यष्टादश बान्ताः सेटश्च ॥ १८ ॥ 'मृभू सम्भू त्रिभू षिम्भू भर्भ हिंसायाम्' आद्यास्त्रयो दन्ताद्याः चतुर्थः षोपदेशः। सर्भति सिसभयिषति । सृम्भति सिसृम्भयिषति । त्रिभू भति अभीत् सिस्रेभ । षिम्भू षः स' इति षस्य सत्वे सिम्भति असिम्भीत् षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति सिषिम्भ । भर्भ भर्भति अभीत् बभर्भ । 'शुभं भाषणे च' चकाराद्धिंसायाम् । भासने चेत्यन्ये, तालव्यादिः । शुम्भति अशुम्भीत् क्ते १५ सेट्त्वात् 'क्तेटो' (५।३।१०६) इत्यः शुम्भा शोभेत्यर्थः 'शुभ शुम्भत् शोभार्थे' इत्यस्य तु शुभति षोपदेशोऽयमिति गुप्तः। सुम्भति कुपूर्वादचि कुसुम्भः। लक्ष्यं च-सावष्टम्भनिशुम्भसुम्भनेति । 'यभं जभ मैथुने' मिथुनस्य कर्मणि भावे वा आद्योऽन्तस्थादिः यभति अयाभीत् २ ययाभ येभतु येभुः । 'जभः खरे' (४।४।१००) जम्भतेः स्वरात्परः स्वरादौ प्रत्यये परे नोऽन्तो भवति । जम्भति अजम्भीत् जजम्भ क्तयोरिटि नागमे नलुकि च जभितः जभितवान् । 'जभैङ् गात्रविनामे' इत्यस्य तु जम्भते ।२० इत्यष्टौ भान्ताः यभंवर्जाः सेटश्च । 'चमू छमू जमू झमू जिमू अदने' पञ्चाप्यूदितः 'ष्टिवूक्लम्वाचमः' (४।२।११०) ष्टिवेः क्लमेरापूर्वस्य च वमेः शिति परे दीर्घा भवति, अत्यादौ । 'ष्टिवू क्षिवू निरसने ष्टीवति । देवादिकस्य ष्टिवो दीर्घोऽस्त्येव 'लमूच ग्लानौ' क्लामति क्लाम्यति 'भ्रासभ्लास' (३।४।७३) इति वा श्यागमः । आचामति । चामेराङ्पूर्वस्यग्रहणादिह न भवति चमति विचमति । ष्ठिवूक्लमोरूकारनिर्देशात् यङ्लुपि न भवति तेष्ठिवत् चल्लमत् 'अन्तो नो लुक्' (४।२।९४) । छमू२५ छमति अच्छामीत् अच्छमीत् चच्छाम चच्छमतुः। जमू जमति अजामीत् २ जजाम जेमतुः जेमुः । झम झमति अझामीत् २ जझाम जझमतुः । जिमू जेमति अजेमीत् जिजेम जिजिमतुः ।
अथात्युपयोगिनः कांश्चिन् मान्तान् धातून कण्ठतो निर्दिशति 'णमं प्रत्वे' प्रहत्वं नम्रत्वं पाठे.' (२।३।९७ ) इति णस्य नत्वे नमति ॥ ८७ ॥ अत्रोपसर्गयोगे सूत्रम्
अदुरुपसर्गान्तरो गहिनुमीनानेः ॥ ८८ ॥ [ सि० २२३७७] ३० दुर्व|पसर्गस्थादन्तःशब्दस्थाच्च रादेः परस्यैषां नो ण् स्यात् । णेति णोपदेशा धातवः । प्रणमति । 'यमिरमि०' इति सागमे । 'शिइहेऽनुखार' (१॥३१४०) इत्यनुखारे । अनंसीत् अनंसिष्टाम् अनंसिषुः ५ । ननाम नेमतुः । नमुः । नेमिथ ननन्थ ६ । नम्यात् ७ । नन्ता ८ । नंस्पति ९ । अनंस्थत् १० । 'गम्लं गतौ ॥ ८८॥
है. प्रका० उत्त०६७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org