________________
५२८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु(२॥३॥३४) इति सूत्रात्तीत्यनुवर्तते निसः संबन्धिनः सकारस्य ति तकारादौ तपतौ परे पो भवति , अनासेकायामर्थे । पुनःपुनःकरणमासेवा । निष्टपति सुवर्णम्-सकृदग्निं स्पर्शयतीत्यर्थः । अनासेवायामिति किम् ? निस्तपति सुवर्ण सुवर्णकारः पुनः पुनस्तपतीत्यर्थः । निष्टप्तं रक्षः, निष्टप्ता अरातय इत्यत्र तु सदष्यासेवनं न विवक्ष्यते । तीत्येव-निरतपत् । शनिर्देशो भौवादिकपरिग्रहार्थः यलुनिवृत्त्यर्थश्च, प्रमिस्तातप्ति निस्तातपीति । धूपायतिर्वक्ष्यते । 'रप लप जल्प व्यक्ते वचने' रपति अरापीत् २ रराप रेपतुः, लपति. अलापीत् अलपीत् ललाप लेपतुः, करणेऽनटि लपनं, जल्पति अजल्पीत् जजल्प 'क्रियाव्यतिहारे,' (३।३।२३) इत्यत्र शब्दार्थवर्जनान्नात्मनेपदं व्यतिजल्पति । 'जप मानसे च' मनोनिर्वत्यै वचने चकाराव्यक्ते वचने। जपति अजापीत् अजपीत् जजाप जेपतुः जेपुः । 'चप सान्त्वने' चपति
अचापीत् २ चचाप चेपतुः अचि चपो वंशस्तस्य विकारश्चापं धनुः उणादौ 'दिव्यवि०' (१४२) १० इत्यटे चपटो रसः चपेरेटः' (१५८) चपेटः 'मृदिकन्दि' (४६५) इत्यले चपलः । 'पप समवाये' 'पः सः' इति षस्य सत्वे सपति असापीत २ ससाप सेपतुः सेपुः । षोपदेशत्वात् ‘णिस्तोरेव०' (२॥३॥३७) इति षत्वे सिषापयिषति । स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामेव षोपदेशानामेव ग्रहणं तथा च कृतत्वात् 'नाम्यन्तस्थाकवर्ग०' (२।३।१५) इति सूत्रेण सिद्धे नियमार्थत्वात् सूत्रस्य । येषां तु नायं षोपदेशस्तेषां षत्वाभावे सिसाषयिषति । उणादौ १५ 'प्लुज्ञायजि०' (६४६) इति तौ सप्तिः अश्वः 'पप्यशौभ्यां तन्' (९०३) सप्त घटाः । चान्तोऽयमिति चन्द्रः । सचति 'पलिसचेरिवः' ( ५२२) सचिवः 'षचि सेचने' इत्यस्य तु सचते । 'मृणं गतौ' दन्त्यादिः सर्पति लदित्वाङि अस्पत् अनुस्वारेत्वान्नेट सर्ता सय॑ति 'लिहादिभ्यः' (५।१।५० ) इत्यचि सर्पः । कुटिलं सर्पतीति 'गत्यर्थात्कुटिले' (३।४।११) इति यङि अचि सरीसृपः । षोपदेशाभावादत्र न षत्वम् , भावे घबि संसर्पा, अभिधानादस्य स्त्रीत्वम् । उणादौ २० 'ऋज्यजितंचि०' (३८८) इति किति रे मृप्रा काचिन्नदी 'रुच्यर्चि शुचि०' (९८९) इति इसि सर्पिः । 'चुप मन्दायाम्' गतावित्यनुवृत्तेर्मन्दायां गतौ । चोपति किश्चिञ्चलतीत्यर्थः । अचोपीत् चुचोप चुचुपतुः इदि चोपिता चोपिष्यति अनटि चोपनम् उणादौ 'क्षुचुपि०' (३०१ ) कित्पः, चुप्पः मन्दगमनं 'ऋज्यजि.' (३८८) इति किति रे चुप्रो वायुः । 'तुप तुम्प त्रुप त्रुम्प तुफ
तुम्फ त्रुफ त्रुम्फ हिंसायाम्' तोपति अतोपीत् तुतोप तुतुपतुः, तुम्प तुम्पति । प्रात्तुम्पतेर्गवि २५(४।४।९७) प्रात्परस्य तुप इत्येतस्य धातोगवि कर्तरि स्सडाविर्भवति । प्रस्तुम्पति गौः, प्रस्तुम्पति वत्सो मातरम् , प्रस्तुम्पको वत्सः । गवीति किम् ? प्रतुम्पति वनस्पतिः अधःस्थान् जीवान् हिनस्तीत्यर्थः, अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गवि अभिधेये स्सडादिर्भवति प्रस्तुम्पति!ः प्रतुम्पतिरन्यः तुम्पतिधातोस्तु स्सड् न भवतीति मन्यन्ते, एके तु प्रात्तुम्पतेः कपीत्यारभन्ते कपि हिंसायां कच्पर्याये वा कपि
समासान्त इति च व्याचक्षते प्रस्तुम्पति वत्सो मातरं हिनस्तीत्यर्थः । प्रगतस्तुम्पोऽस्मात् प्रस्तुम्पको देशः॥ अत्रुप त्रोपति अत्रोपीत् तुत्रोप तुत्रुपतुः । इति पान्ताः पञ्चदश १५ । तत्र गुपौ वेट् तपं सप्लं अनिटौ
शेषाः सेटः १५ । तुफ तोफति अतोफीत् तुतोफ तुतुफतुः । तुम्फ तुम्फति अतुम्फीत् तुतुम्फ तुतुम्फतुः । त्रुफ त्रोफति अत्रोफीत् तुत्रोफात्रुम्फ त्रुम्फति अत्रुम्फीत् तुत्रुम्फ तुत्रुम्फतुः । तुपतुम्पतुफतुम्फास्तुदादावपीत्यन्ये तुपति शे नलुगनिष्टेश्व प्रस्तुम्पति गौः तुफति तुम्फति । 'वर्फ रफ रफु अर्ब कर्ब खर्ब
गर्व चर्ब तब नर्ब पर्ष बर्व श ष सर्व रिबु रबु गतौ' सप्तदशाप्येते गत्यर्थाः । फान्तास्त्रयोऽपि ३५ हिंसायामिति कण्व वर्फति रफति उदित्वान्ने रम्फति । इति फान्ताः सप्त सेटश्च ७ ॥ अर्बति 'अनात'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org